ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
आसृत्युपक्रमात् समानोत्क्रान्तिरित्युक्तम्सृतिस्तु श्रुत्यन्तरेष्वनेकधा श्रूयतेनाडीरश्मिसम्बन्धेनैका अथैतैरेव रश्मिभिरूर्ध्वमाक्रमते’ (छा. उ. ८ । ६ । ५) इतिअर्चिरादिकैका तेऽर्चिषमभिसम्भवन्त्यर्चिषोऽहः’ (बृ. उ. ६ । २ । १५) इति एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति’ (कौ. उ. १ । ३) इत्यन्यायदा वै पुरुषोऽस्माल्लोकात्प्रैति वायुमागच्छति’ (बृ. उ. ५ । १० । १) इत्यपरासूर्यद्वारेण ते विरजाः प्रयान्ति’ (मु. उ. १ । २ । ११) इति अपरातत्र संशयःकिं परस्परं भिन्ना एताः सृतयः, किं वा एकैव अनेकविशेषणेतितत्र प्राप्तं तावत्भिन्ना एताः सृतय इति, भिन्नप्रकरणत्वात् , भिन्नोपासनाशेषत्वाच्चअपि अथैतैरेव रश्मिभिः’ (छा. उ. ८ । ६ । ५) इत्यवधारणम् अर्चिराद्यपेक्षायाम् उपरुध्येत, त्वरावचनं पीड्येत यावत्क्षिप्येन्मनस्तावदादित्यं गच्छति’ (छा. उ. ८ । ६ । ५) इतितस्मादन्योन्यभिन्ना एवैते पन्थान इतिएवं प्राप्ते, अभिदध्महे

अपरविद्याफलाय देवयानं पन्थानमवतारयितुं तदङ्गभूतोत्क्रान्तिश्चिन्तिता । संप्रत्यङ्गिनं पन्थानमेव वक्तुं पादान्तरमारभ्यते । तत्र पूर्वाधिकरणे प्रायणकालानियमाद्विद्याफलस्य चावश्यकत्वात्प्रतीक्षणस्य चायुक्तेर्दक्षिणायनेऽपि मृतस्य विदुषो विद्याफलाप्तिरस्तीत्युक्तम् । प्रायणकालवत्प्रयतो गतिरनियतेत्याशङ्क्य परिहरति -

अर्चिरादिनेति ।

वृत्तमनूद्य प्रकृतोत्तरमार्गमधिकरणस्य विषयत्वेनोदाहरति -

आसृतीति ।

श्रुत्यन्तरेषु भिन्नासु सृतिष्विति यावत् । संशयहेतुं श्रुतिविप्रतिपत्तिं वक्तुमनेकधेत्युक्तम् । अथेत्युत्क्रान्त्यानन्तर्योक्तिः । विरजा विरजसो रजःशब्दितब्रह्मलोकाप्तिविरोधिविधुरा इति यावत् ।

उक्तं देवयानं पन्थानमधिकृत्य श्रुतिविप्रतिपत्तिं सूचितां हेतूकृत्य संशयमाह -

तत्रेति ।

अत्रापरविद्याफलाप्तिहेतुमार्गैक्योक्त्या पादादिसङ्गतिः ।

पूर्वपक्षे मार्गबहुत्वे विकल्पः सिद्धान्ते तदैक्ये विकल्पशङ्कैव नेत्यङ्गीकृत्य पूर्वपक्षयति -

तत्रेति ।

सृतीनां मिथो भिन्नत्वे हेतुमाह -

भिन्नेति ।

नानाप्रकरणस्थत्वेऽपि विद्यावदेकत्वं किं न स्यात् , तत्राह -

भिन्नेति ।

प्रतिप्रकरणं विद्याभेदाद्गतिभेदानामपि तद्गुणत्वेन चिन्त्यानां गुणिभेदाद्भेदः स्यादित्यर्थः ।

गतिभेदे हेत्वन्तरमाह -

अपिचेति ।

किञ्च वक्राध्वना गतिमपेक्ष्यावक्रेण गतिस्त्वरावती कल्प्यत एकत्वे तु किमपेक्ष्य त्वरा स्यात्तस्माद्गतिभेदसिद्धिरित्याह -

त्वरेति ।

मार्गभेदे केनाध्वना ब्रह्मलोकाप्तिरित्याशङ्क्य समुच्चयायोगाद्व्रीह्यादिवद्विकल्पः स्यादिति मत्वाह -

तस्मादिति ।

उपास्तिभेदेषूपास्यब्रह्मैक्यवद्गुणभूतगत्यैक्यसिद्धेरर्चिरादिरेकैव गतिरित्याह -

एवमिति ।