ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अर्चिरादिना तत्प्रथितेः ॥ १ ॥
अर्चिरादिनेतिसर्वो ब्रह्म प्रेप्सुः अर्चिरादिनैवाध्वना रंहतीति प्रतिजानीमहेकुतः ? तत्प्रथितेःप्रथितो ह्येष मार्गः सर्वेषां विदुषाम्तथा हि पञ्चाग्निविद्याप्रकरणेये चामी अरण्ये श्रद्धाꣳ सत्यमुपासते’ (बृ. उ. ६ । २ । १५) इति विद्यान्तरशीलिनामपि अर्चिरादिका सृतिः श्राव्यतेस्यादेतत्यासु विद्यासु काचिद्गतिरुच्यते, तासु इयमर्चिरादिका उपतिष्ठताम्यासु तु अन्या श्राव्यते, तासु किमित्यर्चिराद्याश्रयणमिति, अत्रोच्यतेभवेदेतदेवम् , यद्यत्यन्तभिन्ना एव एताः सृतयः स्युःएकैव त्वेषा सृतिः अनेकविशेषणा ब्रह्मलोकप्रपदनी क्वचित् केनचित् विशेषणेनोपलक्षितेति वदामः, सर्वत्रैकदेशप्रत्यभिज्ञानात् इतरेतरविशेषणविशेष्यभावोपपत्तेःप्रकरणभेदेऽपि हि विद्यैकत्वे भवति इतरेतरविशेषणोपसंहारवत् गतिविशेषणानामप्युपसंहारःविद्याभेदेऽपि तु गत्येकदेशप्रत्यभिज्ञानात् गन्तव्याभेदाच्च गत्यभेद एवतथा हिते तेषु ब्रह्मलोकेषु पराः परावतो वसन्ति’ (बृ. उ. ६ । २ । १५) तस्मिन्वसन्ति शाश्वतीः समाः’ (बृ. उ. ५ । १० । १) सा या ब्रह्मणो जितिर्या व्युष्टिस्तां जितिं जयति तां व्युष्टिं व्यश्नुते’ (कौ. उ. १ । ७) तद्य एवैतं ब्रह्मलोकं ब्रह्मचर्येणानुविन्दति’ (छा. उ. ८ । ४ । ३) इति तत्र तत्र तदेव एकं फलं ब्रह्मलोकप्राप्तिलक्षणं प्रदर्श्यतेयत्तुएतैरेवइत्यवधारणम् अर्चिराद्याश्रयणे स्यादिति, नैष दोषः, रश्मिप्राप्तिपरत्वादस्य हि एक एव शब्दो रश्मींश्च प्रापयितुमर्हति, अर्चिरादींश्च व्यावर्तयितुम्तस्मात् रश्मिसम्बन्ध एवायमवधार्यत इति द्रष्टव्यम्त्वरावचनं तु अर्चिराद्यपेक्षायामपि गन्तव्यान्तरापेक्षया शैघ्र्यार्थत्वात् नोपरुध्यतेयथा निमेषमात्रेणात्रागम्यत इतिअपि अथैतयोः पथोर्न कतरेणचन’ (छा. उ. ५ । १० । ८) इति मार्गद्वयभ्रष्टानां कष्टं तृतीयं स्थानमाचक्षाणा पितृयाणव्यतिरिक्तमेकमेव देवयानमर्चिरादिपर्वाणं पन्थानं प्रथयतिभूयांस्यर्चिरादिसृतौ मार्गपर्वाणि, अल्पीयांसि त्वन्यत्रभूयसां आनुगुण्येन अल्पीयसां नयनं न्याय्यमित्यतोऽपि अर्चिरादिना तत्प्रथितेरित्युक्तम् ॥ १ ॥

तत्र प्रतिज्ञां विभजते -

सर्व इति ।

नानाविधाध्वसु श्रुतेषु कारणमवधारणे वक्तव्यमिति पृच्छति -

कुत इति ।

हेतुमवतार्य व्याचष्टे -

तदिति ।

पञ्चाग्निविदामेव तेऽर्चिषमभिसम्भवन्तीत्यर्चिरादिगतेः श्रुतत्वात्कुतः सर्वेषामिति विशेषणं, तत्राह -

तथाहीति ।

साधारणश्रुतेरश्रुतगतिकधीविषयत्वाद्विद्यान्तराणां स्वाधिकारस्थगतिनिरपेक्षाणां नार्चिरादिगतिसङ्गतिरिति शङ्कते -

स्यादिति ।

एकत्वेऽपि पथोऽनेकपर्वयुक्तत्वयोगाद्गतेरेव न भेदो गौरवादित्याह -

अत्रेति ।

एकदेशप्रत्यभिज्ञानादपि गतेरैक्यं सर्वत्रेत्याह -

सर्वत्रेति ।

यत्तु भिन्नप्रकरणत्वाद्भिन्ना गतय इति तत्र प्रकरणभेदमात्रादेव गतिभेदो विद्याभेदाद्वा, नाद्य इत्याह -

प्रकरणेति ।

नहि द्वितीय इत्याह -

विद्येति ।

तद्भेदेऽपि वेद्यब्रह्मैक्यवद्गुणभूतगत्यैक्यमविरुद्धमित्यर्थः ।

गन्तव्याभेदं विवृणोति -

तथाहीति ।

ते ब्रह्मविदो नानाभोगदेशभाजि ब्रह्मलोके परावतो ब्रह्मणो हिरण्यगर्भस्य पराः समाः प्रकृष्टान्संवत्सरान्वसन्ति, यावदायुर्ब्रह्मणस्तावत्तत्र तिष्ठन्तीत्यर्थः । तस्मिन्निति ब्रह्मलोको गृह्यते । शाश्वतीः समा नित्यान्संवत्सरान्वसन्तीति पूर्ववत् । ब्रह्मणो हिरण्यगर्भस्य या जितिः सर्वलोकजयो या च व्युष्टिर्व्याप्तिस्तां लभते समानदेहतां प्राप्तः सन्नित्यर्थः ।

कस्यैतत्फलं, तत्राह -

तद्य इति ।

तत्तत्राधिकृतानां मध्ये ये केचिद्ब्रह्मचर्यादिसाधनेन ब्रह्मोपासते ते पुनरेतं ब्रह्मलोकं ब्रह्मणाधिष्ठितं लभन्त इत्यर्थः ।

उक्तश्रुतीनां तात्पर्यमाह -

तत्र तत्रेति ।

परोक्तमनूद्य प्रत्याह -

यत्त्विति ।

रात्रौ स्पष्टरश्म्यदृष्टेस्तदनुसारित्वाभावे तत्र मृतस्य प्राप्ते सोऽप्येतैरेव रश्मिभिरित्ययोगव्यवच्छेदार्थमवधारणं नान्ययोगव्यवच्छेदायेत्यर्थः ।

अन्ययोगव्यवच्छेदकत्वमपि वचनस्य किं न स्यादित्याशङ्क्याह -

नहीति ।

एकस्य वाक्यस्याप्राप्तमार्गप्रापकत्वं तस्य निरपेक्षत्वप्रतिपादकत्वं चायुक्तं वाक्यभेदप्रसङ्गादित्यर्थः ।

उभयथार्थत्वायोगे फलितमाह -

तस्मादिति ।

विधिसामर्थ्यप्राप्तमयोगव्यवच्छेदमेवकारोऽनुवदतीत्यर्थः ।

यत्तु त्वरावचनं पीडितं स्यादिति, तत्राह -

त्वरेति ।

अर्चिरादिमार्गस्यैक्येऽपि कुतश्चिदन्यतो गन्तव्यादनेनोपायेन सत्यलोकं झटिति गच्छतीति गन्तव्यभेदापेक्षया वचनं युक्तमित्यर्थः ।

देवयानमार्गैक्ये हेत्वन्तरमाह -

अपिचेति ।

मार्गभेदे स्थानान्तरस्यापि योगात्तृतीयस्थानोक्तिर्न स्यादित्यर्थः ।

पितृयाणातिरिक्तमार्गैक्येऽपि किमित्यर्चिरादिनेति विशेषणमित्याशङ्क्याह -

भूयांसीति ।

अल्पपर्वणा मार्गेण गन्तव्यप्राप्तिसम्भवे बहुपर्वमार्गोपदेशो व्यर्थः स्यात्प्रेक्षावतस्तत्राप्रवृत्तेः । अतो भूयसां पर्वणामनुरोधेनाल्पीयसां तदनुप्रवेश एव युक्तो बहूनामनुग्रहस्य न्याय्यत्वादित्यर्थः । मार्गैक्ये जघन्यविकल्पशङ्कापि नेति वक्तुमपीत्युक्तम् ॥ १ ॥