तत्र प्रतिज्ञां विभजते -
सर्व इति ।
नानाविधाध्वसु श्रुतेषु कारणमवधारणे वक्तव्यमिति पृच्छति -
कुत इति ।
हेतुमवतार्य व्याचष्टे -
तदिति ।
पञ्चाग्निविदामेव तेऽर्चिषमभिसम्भवन्तीत्यर्चिरादिगतेः श्रुतत्वात्कुतः सर्वेषामिति विशेषणं, तत्राह -
तथाहीति ।
साधारणश्रुतेरश्रुतगतिकधीविषयत्वाद्विद्यान्तराणां स्वाधिकारस्थगतिनिरपेक्षाणां नार्चिरादिगतिसङ्गतिरिति शङ्कते -
स्यादिति ।
एकत्वेऽपि पथोऽनेकपर्वयुक्तत्वयोगाद्गतेरेव न भेदो गौरवादित्याह -
अत्रेति ।
एकदेशप्रत्यभिज्ञानादपि गतेरैक्यं सर्वत्रेत्याह -
सर्वत्रेति ।
यत्तु भिन्नप्रकरणत्वाद्भिन्ना गतय इति तत्र प्रकरणभेदमात्रादेव गतिभेदो विद्याभेदाद्वा, नाद्य इत्याह -
प्रकरणेति ।
नहि द्वितीय इत्याह -
विद्येति ।
तद्भेदेऽपि वेद्यब्रह्मैक्यवद्गुणभूतगत्यैक्यमविरुद्धमित्यर्थः ।
गन्तव्याभेदं विवृणोति -
तथाहीति ।
ते ब्रह्मविदो नानाभोगदेशभाजि ब्रह्मलोके परावतो ब्रह्मणो हिरण्यगर्भस्य पराः समाः प्रकृष्टान्संवत्सरान्वसन्ति, यावदायुर्ब्रह्मणस्तावत्तत्र तिष्ठन्तीत्यर्थः । तस्मिन्निति ब्रह्मलोको गृह्यते । शाश्वतीः समा नित्यान्संवत्सरान्वसन्तीति पूर्ववत् । ब्रह्मणो हिरण्यगर्भस्य या जितिः सर्वलोकजयो या च व्युष्टिर्व्याप्तिस्तां लभते समानदेहतां प्राप्तः सन्नित्यर्थः ।
कस्यैतत्फलं, तत्राह -
तद्य इति ।
तत्तत्राधिकृतानां मध्ये ये केचिद्ब्रह्मचर्यादिसाधनेन ब्रह्मोपासते ते पुनरेतं ब्रह्मलोकं ब्रह्मणाधिष्ठितं लभन्त इत्यर्थः ।
उक्तश्रुतीनां तात्पर्यमाह -
तत्र तत्रेति ।
परोक्तमनूद्य प्रत्याह -
यत्त्विति ।
रात्रौ स्पष्टरश्म्यदृष्टेस्तदनुसारित्वाभावे तत्र मृतस्य प्राप्ते सोऽप्येतैरेव रश्मिभिरित्ययोगव्यवच्छेदार्थमवधारणं नान्ययोगव्यवच्छेदायेत्यर्थः ।
अन्ययोगव्यवच्छेदकत्वमपि वचनस्य किं न स्यादित्याशङ्क्याह -
नहीति ।
एकस्य वाक्यस्याप्राप्तमार्गप्रापकत्वं तस्य निरपेक्षत्वप्रतिपादकत्वं चायुक्तं वाक्यभेदप्रसङ्गादित्यर्थः ।
उभयथार्थत्वायोगे फलितमाह -
तस्मादिति ।
विधिसामर्थ्यप्राप्तमयोगव्यवच्छेदमेवकारोऽनुवदतीत्यर्थः ।
यत्तु त्वरावचनं पीडितं स्यादिति, तत्राह -
त्वरेति ।
अर्चिरादिमार्गस्यैक्येऽपि कुतश्चिदन्यतो गन्तव्यादनेनोपायेन सत्यलोकं झटिति गच्छतीति गन्तव्यभेदापेक्षया वचनं युक्तमित्यर्थः ।
देवयानमार्गैक्ये हेत्वन्तरमाह -
अपिचेति ।
मार्गभेदे स्थानान्तरस्यापि योगात्तृतीयस्थानोक्तिर्न स्यादित्यर्थः ।
पितृयाणातिरिक्तमार्गैक्येऽपि किमित्यर्चिरादिनेति विशेषणमित्याशङ्क्याह -
भूयांसीति ।
अल्पपर्वणा मार्गेण गन्तव्यप्राप्तिसम्भवे बहुपर्वमार्गोपदेशो व्यर्थः स्यात्प्रेक्षावतस्तत्राप्रवृत्तेः । अतो भूयसां पर्वणामनुरोधेनाल्पीयसां तदनुप्रवेश एव युक्तो बहूनामनुग्रहस्य न्याय्यत्वादित्यर्थः । मार्गैक्ये जघन्यविकल्पशङ्कापि नेति वक्तुमपीत्युक्तम् ॥ १ ॥