वायोः संनिवेशे दर्शिते तदनन्तरपठितवरुणादिसंनिवेशं दर्शयति -
तडितोऽधि वरुण इति ।
स वरुणलोकमित्यादिना श्रुतो वरुणादिर्विषयः स किमर्चिरादिमार्गपर्वत्वेन न सम्बध्यते किंवा सम्बध्यत इति तस्य तत्र संनिवेशस्थानासम्भवसम्भवाभ्यां सन्देहे स वायुलोकं स वरुणलोकमिति वरुणादीनां पाठक्रमेण वायोरूर्ध्वमादित्यात्प्रागूर्ध्वश्रुतिसिद्धार्थक्रमविरोधेन निवेशासिद्धेर्विद्युतश्चोपरिष्टादमानवपुरुषस्यैव नेतृत्वश्रवणाद्वरुणादीनामनुपयोगान्निवेशस्थानान्तरादृष्टेश्च तेषां मार्गपर्वत्वेन सम्बन्धो नास्तीति प्राप्ते सिद्धान्तमाह -
आदित्यादिति ।
विद्युतोऽनन्तरं वरुणसंनिवेशे सूत्रोक्तं हेतुमाह -
अस्तीति ।
तत्र लोकप्रसिद्धिमनुकूलयति -
यदेति ।
विद्युदुद्भवानन्तरं वृष्टेर्दृष्टत्वात्कार्यकारणभावस्तयोरस्तीत्यर्थः ।
तत्रैव श्रुतिं संवादयति -
विद्योतत इति ।
अपां विद्युद्योगेऽपि वरुणस्य किमायातं तदाह -
अपां चेति ।
वायोरनन्तरमधीतस्यापि वरुणस्य विद्युदानन्तर्यवदिन्द्रप्रजापत्योर्वरुणानन्तरमधीतयोरपि स्थानान्तरं वाच्यमित्याशङ्क्याह -
वरुणाच्चेति ।
तर्हि तयोर्मार्गपर्वत्वेन सङ्गतिरेव मा भूदित्याशङ्क्याह -
पाठेति ।
आगन्तूनामन्ते निवेश इतिन्यायाच्चासाधारणस्थानहीनानां वरुणादीनां तडिदानन्तर्यमुक्तमित्याह -
आगन्तुकत्वादिति ।
यथा दर्शपूर्णमासिकविकृतौ नक्षत्रेष्टौ सोऽत्र जुहोत्यग्नये स्वाहा कृत्तिकाभ्यः स्वाहेत्यादीनामुपहोमानां प्रधानशब्दगृहीतप्रकृतनारिष्टहोमान्ते प्रयोगो निरूपितस्तथार्चिरादिमार्गेऽपि स्थानाभावेनागन्तूनामन्ते निवेशः स्यादिति भावः ।
कथं विद्युतोऽन्त्यत्वं नहि तदन्त्यत्ववाची शब्दोऽस्तीत्याशङ्क्य विद्युदनन्तरं पर्वान्तरस्यानुक्तेस्तदन्त्यत्वमित्याह -
विद्युच्चेति ।
वरुणादीनामुपयोगस्त्वमानवेन सह नेतृत्वसम्भवादिति वक्ष्यते । अत्र च विद्याफलार्थे पथि वरुणादीनां संनिवेशोक्त्या पादादिसङ्गतिः । पूर्वपक्षे वरुणादिपाठस्यादृष्टार्थत्वं सिद्धान्ते वरुणादीनां स्थानान्तराभावेऽप्यागन्तूनामन्ते निवेशात्पाठस्य दृष्टार्थतेवेति द्रष्टव्यम् ॥ ३ ॥