अर्चिरादीनां क्रमं निरूप्य स्वरूपं निरूपयति -
आतिवाहिका इति ।
विषयोक्तिपूर्वकमुक्तिसाम्याल्लोकशब्दादतिनेतृत्वलिङ्गाच्च संशयमाह -
तेष्वेवेति ।
अत्र च विद्याफलप्राप्त्यर्थमर्चिरादावध्वनि प्रवृत्तस्य विदुषो गमयितृत्वचिन्तनात्पादादिसङ्गतिः ।
पूर्वपक्षे निर्देशस्य लोकश्रुतेर्वा मुख्यत्वं सिद्धान्ते न्यायवल्लिङ्गस्येत्यङ्गीकृत्य पूर्वपक्षमाह -
तत्रेति ।
उक्तेऽर्थे निर्देशसाम्यं हेतुमाह -
तदिति ।
उक्तमेव हेतुुं दृष्टान्तेन स्पष्टयति -
यथेति ।
पूर्वपक्षान्तरमाह -
अथवेति ।
कथं लोकशब्दप्रयोगेऽप्यर्चिरादीनां भोगभूमित्वं, तत्राह -
लोकेति ।
मार्गपर्वणां भोगभूमित्वे श्रुतिमपि दर्शयति -
तथाचेति ।
अहोरात्रप्रभृतिषु लोकशब्दितेषु भोगायतनेषु ते कर्मिणो ज्ञानिनश्च सक्तिं भोगमनुभवन्तीति यावत् ।
पक्षद्वयेऽपि फलितमाह -
तस्मादिति ।
अर्चिरादिशब्दानामचेतनेष्वग्न्यादिषु रूढत्वादपि न तेषामातिवाहिकतेत्याह -
अचेतनत्वादिति ।
तदेव व्यतिरेकदृष्टान्तेन स्फोरयति
चेतना हीति ।
सिद्धान्तसूत्रमादाय प्रतिज्ञां विभजते -
एवमिति ।
तत्र हेतुं प्रश्नपूर्वकमादाय व्याचष्टे -
कुत इति ।
अमानवपुरुषस्य विद्युदादावातिवाहिकत्वदृष्टेरर्चिरादीनामपि तदुन्नेयमित्यर्थः ।
यावद्वचनं वाचनिकमिति न्यायान्न तेषामातिवाहिकत्वसाधकमेतदिति शङ्कते -
तदिति ।
उभयपरत्वे वाक्यभेदः स्यादिति भावः ।
प्राप्तगमयितृमानवपुरुषानुवादेनाप्राप्तामानवत्ववादित्वाद्वाक्यस्योभयपरत्वेन वाक्यभेदप्रसङ्गात्पूर्वेषामपि मानवपुरुषतया गमययितृत्वं ग्राह्यमित्याह -
नेति ।
उक्तमेव प्रपञ्चयति -
यदीति ॥ ४ ॥