चेतनस्य यत्नहीनस्योर्ध्वगतिश्चेतनान्तराधीनेति लौकिकन्यायेन यत्नहीनानां गन्तॄणां गमयितारोऽर्चिरादयश्चेतनाः स्युरिति सूत्रयोजनया ब्रूते -
ये तावदिति ।
उभयोर्मार्गतद्गन्त्रोर्व्यामोहादज्ञत्वात्तत्सिद्धेर्गमयितृसिद्धेर्न न्यायहीनं लिङ्गमित्युक्त्वा न्यायमेव स्फुटयति -
लोकेऽपीति ।
पूर्वपक्षद्वयायोगे हेत्वन्तरमाह -
अनवस्थितत्वादिति ।
अहःशुक्लपक्षोत्तरायणानां कालान्तरेषु मार्गचिह्नत्वभोगभूमित्वे न सम्भाव्येते तदा तेषामभावादिति हेतुं साधयति -
नहीति ।
तर्हि तदागमनं प्रतीक्ष्य रात्र्यादौ प्रेतो गमिष्यति नेत्याह -
नचेति ।
अनवस्थितत्वाविशेषादातिवाहिकत्वमपि कुतस्तेषामित्याशङ्क्याह -
ध्रुवत्वादिति ।
अर्चिरादिशब्दानामचेतनेषु रूढेर्न तेषां देवतावाचितेत्याशङ्क्याह -
अर्चिरादीति ।
न चाभिमतव्याहारादिदेहाभावे तद्देवतानामनवस्थानमिति वाच्यम् । ऐश्वर्ययोगात्तासामनेकविग्रहग्रहणयोगात् । अतो देवदत्तादिशब्दवदर्थतश्चेतनेषु मुख्यतेत्यर्थः ।
जाड्याद्बद्ध इत्यादौ गुणवचनेषु जाड्यादिषु पञ्चमीदर्शनादर्चिरादीनां च गुणवचनत्वाभावाद्वहनं प्रत्यर्चिरादीनां हेतुत्वानवगमादर्चिष इत्यस्मादपादानत्वप्रतीतेर्नातिवाहिकत्वसिद्धिरित्याशङ्क्याह -
अर्चिष इति ।
तार्किकप्रक्रियासिद्धगुणत्वाभावेऽप्याश्रितत्वेन तत्सिद्धेर्हेतावेषा पञ्चमीत्यार्थः ।
उक्तेऽर्थे लौकिकव्यपदेशं दर्शयति -
तथाचेति ।
इतश्चार्चिरादिशब्दानां गमयितृविषयतेत्याह -
अपिचेति ।
सामान्यवचने शब्दे विशेषापेक्षिणि दृष्टे विशेषशब्देन तत्सामान्यं नियन्तव्यमितिन्यायादतिवाह्यातिवाहकसम्बन्धसिद्धिरिति हेत्वन्तरमेव स्फुटयति -
उपक्रमेऽपीति ।
यत्तु भोगभूमित्वमर्चिरादीनामुक्तं तद्दूषयति -
सम्पिण्डितेति ।
लोकशब्दाद्भोगभूमित्वमुक्तं प्रत्याह -
लोकेति ।
गन्तॄणां भोक्तृत्वाभावेऽपि वाक्यं शक्यं नेतुमिति फलितमाह -
अत इति ॥ ५ ॥