ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
उभयव्यामोहात्तत्सिद्धेः ॥ ५ ॥
ये तावदर्चिरादिमार्गगाः ते देहवियोगात् सम्पिण्डितकरणग्रामा इति अस्वतन्त्राः, अर्चिरादीनामप्यचेतनत्वादस्वातन्त्र्यम्इत्यतः अर्चिराद्यभिमानिनश्चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यतेलोकेऽपि हि मत्तमूर्छितादयः सम्पिण्डितकरणाः परप्रयुक्तवर्त्मानो भवन्तिअनवस्थितत्वादप्यर्चिरादीनां मार्गलक्षणत्वोपपत्तिः हि रात्रौ प्रेतस्य अहःस्वरूपाभिसम्भव उपपद्यते प्रतिपालनमस्तीत्युक्तं पुरस्तात्ध्रुवत्वात्तु देवतात्मनां नायं दोषो भवतिअर्चिरादिशब्दता एषाम् अर्चिराद्यभिमानादुपपद्यतेअर्चिषोऽहः’ (छा. उ. ४ । १५ । ५) इत्यादिनिर्देशस्तु आतिवाहिकत्वेऽपि विरुध्यतेअर्चिषा हेतुना अहरभिसम्भवति, अह्ना हेतुना आपूर्यमाणपक्षमितितथा लोके प्रसिद्धेष्वप्यातिवाहिकेषु एवंजातीयक उपदेशो दृश्यतेगच्छ त्वम् इतो बलवर्माणं ततो जयसिंहं ततः कृष्णगुप्तमितिअपि उपक्रमे तेऽर्चिरभिसम्भवन्ति’ (बृ. उ. ६ । २ । १५) इति सम्बन्धमात्रमुक्तम् , सम्बन्धविशेषः कश्चित्उपसंहारे तु एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति सम्बन्धविशेषः अतिवाह्यातिवाहकत्वलक्षण उक्तःतेन एवोपक्रमेऽपीति निर्धार्यतेसम्पिण्डितकरणत्वादेव गन्तॄणां तत्र भोगसम्भवःलोकशब्दस्तु अनुपभुञ्जानेष्वपि गन्तृषु गमयितुं शक्यते, अन्येषां तल्लोकवासिनां भोगभूमित्वात्अतः अग्निस्वामिकं लोकं प्राप्तः अग्निना अतिवाह्यते, वायुस्वामिकं प्राप्तो वायुनाइति योजयितव्यम् ॥ ५ ॥

चेतनस्य यत्नहीनस्योर्ध्वगतिश्चेतनान्तराधीनेति लौकिकन्यायेन यत्नहीनानां गन्तॄणां गमयितारोऽर्चिरादयश्चेतनाः स्युरिति सूत्रयोजनया ब्रूते -

ये तावदिति ।

उभयोर्मार्गतद्गन्त्रोर्व्यामोहादज्ञत्वात्तत्सिद्धेर्गमयितृसिद्धेर्न न्यायहीनं लिङ्गमित्युक्त्वा न्यायमेव स्फुटयति -

लोकेऽपीति ।

पूर्वपक्षद्वयायोगे हेत्वन्तरमाह -

अनवस्थितत्वादिति ।

अहःशुक्लपक्षोत्तरायणानां कालान्तरेषु मार्गचिह्नत्वभोगभूमित्वे न सम्भाव्येते तदा तेषामभावादिति हेतुं साधयति -

नहीति ।

तर्हि तदागमनं प्रतीक्ष्य रात्र्यादौ प्रेतो गमिष्यति नेत्याह -

नचेति ।

अनवस्थितत्वाविशेषादातिवाहिकत्वमपि कुतस्तेषामित्याशङ्क्याह -

ध्रुवत्वादिति ।

अर्चिरादिशब्दानामचेतनेषु रूढेर्न तेषां देवतावाचितेत्याशङ्क्याह -

अर्चिरादीति ।

न चाभिमतव्याहारादिदेहाभावे तद्देवतानामनवस्थानमिति वाच्यम् । ऐश्वर्ययोगात्तासामनेकविग्रहग्रहणयोगात् । अतो देवदत्तादिशब्दवदर्थतश्चेतनेषु मुख्यतेत्यर्थः ।

जाड्याद्बद्ध इत्यादौ गुणवचनेषु जाड्यादिषु पञ्चमीदर्शनादर्चिरादीनां च गुणवचनत्वाभावाद्वहनं प्रत्यर्चिरादीनां हेतुत्वानवगमादर्चिष इत्यस्मादपादानत्वप्रतीतेर्नातिवाहिकत्वसिद्धिरित्याशङ्‌क्याह -

अर्चिष इति ।

तार्किकप्रक्रियासिद्धगुणत्वाभावेऽप्याश्रितत्वेन तत्सिद्धेर्हेतावेषा पञ्चमीत्यार्थः ।

उक्तेऽर्थे लौकिकव्यपदेशं दर्शयति -

तथाचेति ।

इतश्चार्चिरादिशब्दानां गमयितृविषयतेत्याह -

अपिचेति ।

सामान्यवचने शब्दे विशेषापेक्षिणि दृष्टे विशेषशब्देन तत्सामान्यं नियन्तव्यमितिन्यायादतिवाह्यातिवाहकसम्बन्धसिद्धिरिति हेत्वन्तरमेव स्फुटयति -

उपक्रमेऽपीति ।

यत्तु भोगभूमित्वमर्चिरादीनामुक्तं तद्दूषयति -

सम्पिण्डितेति ।

लोकशब्दाद्भोगभूमित्वमुक्तं प्रत्याह -

लोकेति ।

गन्तॄणां भोक्तृत्वाभावेऽपि वाक्यं शक्यं नेतुमिति फलितमाह -

अत इति ॥ ५ ॥