ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
सामीप्यात्तु तद्व्यपदेशः ॥ ९ ॥
तुशब्द आशङ्काव्यावृत्त्यर्थःपरब्रह्मसामीप्यात् अपरस्य ब्रह्मणः, तस्मिन्नपि ब्रह्मशब्दप्रयोगो विरुध्यतेपरमेव हि ब्रह्म विशुद्धोपाधिसम्बन्धं क्वचित्कैश्चिद्विकारधर्मैर्मनोमयत्वादिभिः उपासनाय उपदिश्यमानम् अपरमिति स्थितिः ॥ ९ ॥

मुख्यार्थायोगे यौगिकतयापि ब्रह्मपदं नेयमिति मत्वा व्याचष्टे -

तुशब्द इति ।

अविरोधं साधयति -

परमेवेति ।

विशुद्धोपाधिसम्बन्धं सात्त्विकोपाधिविशिष्टमिति यावत् ॥ ९ ॥