ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
ननु कार्यविषयेऽपि ब्रह्मशब्दो नोपपद्यते, समन्वये हि समस्तस्य जगतो जन्मादिकारणं ब्रह्मेति स्थापितम्इत्यत्रोच्यते

ब्रह्मशब्दश्रुतिविरोधं शङ्कते -

नन्विति ।

वृद्धव्यवहारे प्रयोगप्रत्ययाभ्यां ब्रह्मशब्दस्य परापरब्रह्मणोः शाब्दं मुख्यत्वं तुल्यमित्याशङ्क्यानवच्छिन्नतयार्थतो मुख्यत्वं परस्यैवेत्याह -

समस्तस्येति ।

सूत्रेण परिहरति -

अत्रेति ।