ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
स्मृतेश्च ॥ ११ ॥
स्मृतिरप्येतमर्थमनुजानाति — ‘ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरेपरस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्इतितस्मात्कार्यब्रह्मविषया एव गतिश्रुतयः इति सिद्धान्तः ॥ ११ ॥

क्रममुक्तौ स्मृतिं प्रमाणयति -

स्मृतेश्चेति ।

तामेवोदाहरति -

स्मृतिरिति ।

प्रतिसञ्चरो महाप्रलयस्तस्मिन्प्राप्ते परस्य हिरण्यगर्भस्यान्तोऽधिकारावसानं तदा कृतात्मानः शुद्धधियो ब्रह्मलोकनिवासिनस्तत्रोत्पन्नसम्यग्धियः सर्वे ब्रह्मणा मुच्यमानेन सह परं पदं प्रविशन्तीति योजना ।

सिद्धान्तमुपसंहरति -

तस्मादिति ॥ ११ ॥