ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
परं जैमिनिर्मुख्यत्वात् ॥ १२ ॥
जैमिनिस्त्वाचार्यः एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इत्यत्र परमेव ब्रह्म प्रापयतीति मन्यतेकुतः ? मुख्यत्वात्परं हि ब्रह्म ब्रह्मशब्दस्य मुख्यमालम्बनम् , गौणमपरम्; मुख्यगौणयोश्च मुख्ये सम्प्रत्ययो भवति ॥ १२ ॥

उत्तरसूत्राण्याकाङ्क्षापूर्वकमवतारयति -

कमिति ।

ब्रह्मशब्दस्य मुख्यार्थत्वमाश्रित्य परस्यैव ब्रह्मणो गन्तव्यत्वमाह -

परमिति ।

तत्र प्रतिज्ञांं विभजते -

जैमिनिस्त्विति ।

युक्तियुक्तस्यैव ग्राह्यत्वाद्वक्तृगौरवमकिञ्चित्करमिति शङ्कते -

कुत इति ।

सौत्रं हेतुमाह -

मुख्यत्वादिति ।

गौणस्यापि मुख्यवद्ब्रह्मशब्दालम्बनत्वमिष्टमविशेषादित्याशङ्क्याह -

मुख्येति ॥ १२ ॥