पक्षान्तरमनुभाष्य दूषयति -
केचिदित्यादिना ।
ब्रह्मणो गन्तव्यत्वानुपपत्तिमुपपादयति -
यदिति ।
यदुक्तविशेषणं परब्रह्म तस्य कदाचिदपि न गन्तव्यतेति सम्बन्धः । तस्य सर्वगतत्वे मानमाह -
आकाशवदिति ।
सर्वान्तरत्वेऽपि श्रुतिमाह -
यदिति ।
सर्वात्मकत्वेऽपि श्रुतिमाह -
आत्मैवेति ।
अनुपपत्तिमेव स्फोरयति -
नहीति ।
गतेरकिञ्चित्करत्वादित्यर्थः ।
प्राप्ते प्राप्तिफला गतिरयुक्तेत्येतद्व्यतिरेकेण स्फुटयति -
अन्यो हीति ।
स्वरूपेण प्राप्तस्यापि ब्रह्मणो विकारापत्तितया गन्तव्यतासिद्धिरिति दृष्टान्तेन शङ्कते -
नन्विति ।
सर्वगतस्यायुक्ता गन्तव्यतेत्युक्तं प्रत्याह -
तथेति ।
अनन्यत्वं साधनसाध्यत्वं विना प्राप्तत्वम् ।
यत्तु प्रत्यगात्मत्वाद्ब्रह्मणो न गन्तव्यतेति तत्राह -
स्वात्मेति ।
एकस्यैव ब्रह्मणो गन्तृगन्तव्यता सिध्यतीत्यत्र हेतुमाह -
सर्वेति ।
तथापि ग्रामादिवन्न गन्तव्यतेत्याशङ्क्याह -
कथञ्चिदिति ।
वैषम्यं दर्शयन्नाह -
नेत्यादिना ।
ब्रह्मणो निर्विशेषत्वे मानमाह -
निष्कलमित्यादिना ।
‘अनादिमत्परं ब्रह्म’ इत्याद्या स्मृतिः । न्यायस्तु विशेषाणां तद्द्रष्टृनिविष्टत्वेन दृश्यत्वासिद्धिरंशतः स्वदृश्यत्वापातान्न च तद्दृश्यत्वं विना तत्सिद्धिर्जडत्वात्स्वतःसिद्धत्वे चात्मानतिरेकात्तस्मात्तस्य निर्विशेषतेति । देशकालादीत्यादिब्देनावस्थावयवादि गृह्यते ।
निर्विशेषत्वे फलितमाह -
येनेति ।
येन सविशेषत्वेन भूप्रदेशादिदृष्टान्तेन ब्रह्मणो गन्तव्यता न तथा तस्य सविशेषतेति योजना ।
दृष्टान्तेऽपि कथं गतस्यैव गन्तव्यतेत्याशङ्क्याह -
भूवयसोस्त्विति ।
अवस्थादीत्यादिशब्देनावयवपरिणामादिग्रहः ।
सर्वशक्तित्वाद्युक्तं ब्रह्मणो विशेषवत्त्वेन गन्तव्यत्वमित्युक्तं स्मारयति -
जगदिति ।
अपरिणामिनोऽकारकत्वात्तत्कारणत्वाय परिणामित्वं कार्यप्रतियोगिशक्तिमत्त्वं चास्तीति कुतो गन्तव्यत्वासिद्धिरित्यर्थः ।
विशेषनिराकरणस्य निःशेषशोकादिनिरासफलत्वादुत्पत्त्यादिविधानस्य चाफलत्वात्फलवत्संनिधावफलं तदङ्गमितिन्यायान्न ब्रह्मणः सविशेषतेति दूषयति -
नेत्यादिना ।
उक्तमेवार्थं चोद्यसमाधिभ्यां विवृण्वन्नादौ चौद्यं दर्शयति -
उत्पत्त्यादीति ।
तासामनन्यार्थत्वमसिद्धमित्याह -
नेति ।
एकत्वपरत्वमुपपादयति -
मृदादीति ।