ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
केचित्पुनः पूर्वाणि पूर्वपक्षसूत्राणि भवन्ति उत्तराणि सिद्धान्तसूत्राणिइत्येतां व्यवस्थामनुरुध्यमानाः परविषया एव गतिश्रुतीः प्रतिष्ठापयन्ति; तत् अनुपपन्नम् , गन्तव्यत्वानुपपत्तेर्ब्रह्मणःयत्सर्वगतं सर्वान्तरं सर्वात्मकं परं ब्रह्मआकाशवत्सर्वगतश्च नित्यःयत्साक्षादपरोक्षाद्ब्रह्म’ (बृ. उ. ३ । ४ । १) आत्मा सर्वान्तरः’ (बृ. उ. ३ । ४ । १) आत्मैवेदꣳ सर्वम्’ (छा. उ. ७ । २५ । २) ब्रह्मैवेदं विश्वमिदं वरिष्ठम्’ (मु. उ. २ । २ । १२) इत्यादिश्रुतिनिर्धारितविशेषम्तस्य गन्तव्यता कदाचिदप्युपपद्यते हि गतमेव गम्यतेअन्यो ह्यन्यद्गच्छतीति प्रसिद्धं लोकेननु लोके गतस्यापि गन्तव्यता देशान्तरविशिष्टस्य दृष्टायथा पृथिवीस्थ एव पृथिवीं देशान्तरद्वारेण गच्छति, तथा अनन्यत्वेऽपि बालस्य कालान्तरविशिष्टं वार्धकं स्वात्मभूतमेव गन्तव्यं दृष्टम् , तद्वत् ब्रह्मणोऽपि सर्वशक्त्युपेतत्वात् कथञ्चित् गन्तव्यता स्यादिति, प्रतिषिद्धसर्वविशेषत्वाद्ब्रह्मणःनिष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्’ (श्वे. उ. ६ । १९) अस्थूलमनण्वह्रस्वमदीर्घम्’ (बृ. उ. ३ । ८ । ८) सबाह्याभ्यन्तरो ह्यजः’ (मु. उ. २ । १ । २) वा एष महानज आत्माजरोऽमरोऽमृतोऽभयो ब्रह्म’ (बृ. उ. ४ । ४ । २५) एष नेति नेत्यात्मा’ (बृ. उ. ३ । ९ । २६) इत्यादिश्रुतिस्मृतिन्यायेभ्यो देशकालादिविशेषयोगः परमात्मनि कल्पयितुं शक्यते, येन भूप्रदेशवयोवस्थान्यायेनास्य गन्तव्यता स्यात्भूवयसोस्तु प्रदेशावस्थादिविशेषयोगादुपपद्यते देशकालविशिष्टा गन्तव्यताजगदुत्पत्तिस्थितिप्रलयहेतुत्वश्रुतेरनेकशक्तित्वं ब्रह्मण इति चेत् , , विशेषनिराकरणश्रुतीनामनन्यार्थत्वात्उत्पत्त्यादिश्रुतीनामपि समानमनन्यार्थत्वमिति चेत् , , तासामेकत्वप्रतिपादनपरत्वात्मृदादिदृष्टान्तैर्हि सतो ब्रह्मण एकस्य सत्यत्वं विकारस्य अनृतत्वं प्रतिपादयत् शास्त्रं नोत्पत्त्यादिपरं भवितुमर्हति

पक्षान्तरमनुभाष्य दूषयति -

केचिदित्यादिना ।

ब्रह्मणो गन्तव्यत्वानुपपत्तिमुपपादयति -

यदिति ।

यदुक्तविशेषणं परब्रह्म तस्य कदाचिदपि न गन्तव्यतेति सम्बन्धः । तस्य सर्वगतत्वे मानमाह -

आकाशवदिति ।

सर्वान्तरत्वेऽपि श्रुतिमाह -

यदिति ।

सर्वात्मकत्वेऽपि श्रुतिमाह -

आत्मैवेति ।

अनुपपत्तिमेव स्फोरयति -

नहीति ।

गतेरकिञ्चित्करत्वादित्यर्थः ।

प्राप्ते प्राप्तिफला गतिरयुक्तेत्येतद्व्यतिरेकेण स्फुटयति -

अन्यो हीति ।

स्वरूपेण प्राप्तस्यापि ब्रह्मणो विकारापत्तितया गन्तव्यतासिद्धिरिति दृष्टान्तेन शङ्कते -

नन्विति ।

सर्वगतस्यायुक्ता गन्तव्यतेत्युक्तं प्रत्याह -

तथेति ।

अनन्यत्वं साधनसाध्यत्वं विना प्राप्तत्वम् ।

यत्तु प्रत्यगात्मत्वाद्ब्रह्मणो न गन्तव्यतेति तत्राह -

स्वात्मेति ।

एकस्यैव ब्रह्मणो गन्तृगन्तव्यता सिध्यतीत्यत्र हेतुमाह -

सर्वेति ।

तथापि ग्रामादिवन्न गन्तव्यतेत्याशङ्क्याह -

कथञ्चिदिति ।

वैषम्यं दर्शयन्नाह -

नेत्यादिना ।

ब्रह्मणो निर्विशेषत्वे मानमाह -

निष्कलमित्यादिना ।

‘अनादिमत्परं ब्रह्म’ इत्याद्या स्मृतिः । न्यायस्तु विशेषाणां तद्द्रष्टृनिविष्टत्वेन दृश्यत्वासिद्धिरंशतः स्वदृश्यत्वापातान्न च तद्दृश्यत्वं विना तत्सिद्धिर्जडत्वात्स्वतःसिद्धत्वे चात्मानतिरेकात्तस्मात्तस्य निर्विशेषतेति । देशकालादीत्यादिब्देनावस्थावयवादि गृह्यते ।

निर्विशेषत्वे फलितमाह -

येनेति ।

येन सविशेषत्वेन भूप्रदेशादिदृष्टान्तेन ब्रह्मणो गन्तव्यता न तथा तस्य सविशेषतेति योजना ।

दृष्टान्तेऽपि कथं गतस्यैव गन्तव्यतेत्याशङ्क्याह -

भूवयसोस्त्विति ।

अवस्थादीत्यादिशब्देनावयवपरिणामादिग्रहः ।

सर्वशक्तित्वाद्युक्तं ब्रह्मणो विशेषवत्त्वेन गन्तव्यत्वमित्युक्तं स्मारयति -

जगदिति ।

अपरिणामिनोऽकारकत्वात्तत्कारणत्वाय परिणामित्वं कार्यप्रतियोगिशक्तिमत्त्वं चास्तीति कुतो गन्तव्यत्वासिद्धिरित्यर्थः ।

विशेषनिराकरणस्य निःशेषशोकादिनिरासफलत्वादुत्पत्त्यादिविधानस्य चाफलत्वात्फलवत्संनिधावफलं तदङ्गमितिन्यायान्न ब्रह्मणः सविशेषतेति दूषयति -

नेत्यादिना ।

उक्तमेवार्थं चोद्यसमाधिभ्यां विवृण्वन्नादौ चौद्यं दर्शयति -

उत्पत्त्यादीति ।

तासामनन्यार्थत्वमसिद्धमित्याह -

नेति ।

एकत्वपरत्वमुपपादयति -

मृदादीति ।