ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
कस्मात्पुनरुत्पत्त्यादिश्रुतीनां विशेषनिराकरणश्रुतिशेषत्वम् , न पुनरितरशेषत्वमितरासामिति, उच्यते — विशेषनिराकरणश्रुतीनां निराकाङ्क्षार्थत्वात् । न हि आत्मन एकत्वनित्यत्वशुद्धत्वाद्यवगतौ सत्यां भूयः काचिदाकाङ्क्षा उपजायते, पुरुषार्थसमाप्तिबुद्ध्युपपत्तेः, ‘तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) ‘अभयं वै जनक प्राप्तोऽसि’ (बृ. उ. ४ । २ । ४) ‘विद्वान्न बिभेति कुतश्चन । एतꣳ ह वाव न तपति । किमहꣳ साधु नाकरवम् । किमहं पापमकरवम्’ (तै. उ. २ । ९ । १) इत्यादिश्रुतिभ्यः, तथैव च विदुषां तुष्ट्यनुभवादिदर्शनात् , विकारानृताभिसन्ध्यपवादाच्च — ‘मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति’ इति । अतो न विशेषनिराकरणश्रुतीनामन्यशेषत्वमवगन्तुं शक्यते । नैवमुत्पत्त्यादिश्रुतीनां निराकाङ्क्षार्थप्रतिपादनसामर्थ्यमस्ति । प्रत्यक्षं तु तासामन्यार्थत्वं समनुगम्यते । तथा हि — ‘तत्रैतच्छुङ्गमुत्पतितꣳ सोम्य विजानीहि नेदममूलं भविष्यति’ (छा. उ. ६ । ८ । ३) इत्युपन्यस्य उदर्के सत एवैकस्य जगन्मूलस्य विज्ञेयत्वं दर्शयति; ‘यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञासस्व । तद्ब्रह्म’ (तै. उ. ३ । १ । १) इति च । एवमुत्पत्त्यादिश्रुतीनाम् ऐकात्म्यावगमपरत्वात् नानेकशक्तियोगो ब्रह्मणः । अतश्च गन्तव्यत्वानुपपत्तिः । ‘न तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६) ‘ब्रह्मैव सन्ब्रह्माप्येति’ इति च परस्मिन्ब्रह्मणि गतिं निवारयति । तद्व्याख्यातम् ‘स्पष्टो ह्येकेषाम्’ (ब्र. सू. ४ । २ । १३) इत्यत्र ॥

शेषशेषित्वे नियामकाभावमादाय शङ्कते -

कस्मादिति ।

नियामकं दर्शयति -

उच्यत इति ।

फलवत्तया नैराकाङ्क्ष्यं स्फोरयति -

नहीति ।

एकत्वज्ञाने सर्वाकाङ्क्षाशान्तिरित्यत्र श्रुतीराह -

तत्रेत्यादिना ।

श्रौते विद्याफले विद्वदनुभवमनुकूलयति -

तथैवेति ।

द्वैतस्य निन्द्यमानत्वादपि न प्रतिपाद्यतेत्याह -

विकारेति ।

विशेषनिषेधश्रुतीनां निराकाङ्क्षज्ञानोत्पादकत्वे फलितमाह -

अतो नेति ।

तुल्यमुत्पत्त्यादिश्रुतीनामपि तथाविधधीजनकत्वमित्याशङ्क्याह -

नैवमिति ।

न केवलं युक्तिमात्रेणोत्पत्त्यादिश्रुतीनामन्यार्थत्वं किन्तु श्रुतिसामर्थ्यादपीत्याह -

प्रत्यक्षं त्विति ।

तत्र छन्दोगश्रुत्या तासामन्यार्थत्वं स्फुटयति -

तथाहीति ।

तत्रेति मूलकारणोक्तिः । एतच्छुङ्गं जगदात्मकं कार्यमुत्पतितमुत्पन्नमिति यावत् । तेजसा सोम्यशुङ्गेन सन्मूलमन्विच्छेति सत एवोत्तरत्र कार्यलिङ्गेन ज्ञेयत्वोक्तेस्तत्तेजोऽसृजतेत्यादिश्रुतीनां तच्छेषत्वं सिद्धमित्यर्थः ।

तैत्तिरीयश्रुत्यापि जन्मादिश्रुतीनामैक्यधीशेषत्वमाह -

यत इति ।

तासामन्यपरत्वे फलितमाह -

एवमिति ।

ब्रह्मणोऽनेकशक्तिमत्त्वाभावेऽपि न परविषया गतिरित्यत्र किमायातं तदाह -

अतश्चेति ।

इतश्च परविषये न गतिरित्याह -

न तस्येति ।

न तस्मादिति माध्यन्दिनश्रुत्या निषेधश्रुतेरन्यार्थत्वमाशङ्क्योक्तं स्मारयति -

तदिति ।