ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
गतिकल्पनायां च गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवः विकारो अन्यो वा ततः स्यात् , अत्यन्ततादात्म्ये गमनानुपपत्तेः । यद्येवम् , ततः किं स्यात् ? उच्यते — यद्येकदेशः, तेन एकदेशिनो नित्यप्राप्तत्वात् न पुनर्ब्रह्मगमनमुपपद्यते । एकदेशैकदेशित्वकल्पना च ब्रह्मण्यनुपपन्ना, निरवयवत्वप्रसिद्धेः । विकारपक्षेऽप्येतत्तुल्यम् , विकारेणापि विकारिणो नित्यप्राप्तत्वात् । न हि घटो मृदात्मतां परित्यज्य अवतिष्ठते, परित्यागे वा अभावप्राप्तेः । विकारावयवपक्षयोश्च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनमपि अनवकॢप्तम् । अथ अन्य एव जीवो ब्रह्मणः, सोऽणुः व्यापी मध्यमपरिमाणो वा भवितुमर्हति । व्यापित्वे गमनानुपपत्तिः । मध्यमपरिमाणत्वे च अनित्यत्वप्रसङ्गः । अणुत्वे कृत्स्नशरीरवेदनानुपपत्तिः । प्रतिषिद्धे च अणुत्वमध्यमपरिमाणत्वे विस्तरेण पुरस्तात् । परस्माच्च अन्यत्वे जीवस्य ‘तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्यादिशास्त्रबाधप्रसङ्गः । विकारावयवपक्षयोरपि समानोऽयं दोषः । विकारावयवयोस्तद्वतोऽनन्यत्वात् अदोष इति चेत् , न, मुख्यैकत्वानुपपत्तेः । सर्वेष्वेतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः, संसार्यात्मत्वानिवृत्तेः; निवृत्तौ वा स्वरूपनाशप्रसङ्गः, ब्रह्मात्मत्वानभ्युपगमाच्च ॥

गन्तव्यरूपालोचनया गतिरयुक्तेत्युक्तम् । अधुना गन्तृरूपालोचनयापि सा न युक्तेति वक्तुं विकल्पयति -

गतीति ।

अन्यानन्यत्वमाश्रित्याद्यौ विकल्पावत्यन्तभेदमाश्रित्यान्त्य इति भेदः ।

आत्यन्तिकमनन्यत्वं किमिति न विकल्प्यते, तत्राह -

अत्यन्तेति ।

कल्पत्रयेऽपि दोषजिज्ञासया पृच्छति -

यदीति ।

पक्षत्रयेऽपि दोषमाह -

उच्यत इति ।

आद्यमनूद्य प्रत्याह -

यदीति ।

प्रथमपक्षस्योत्थानमेव नास्तीत्याह -

एकदेेशेति ।

उक्तदोषसाम्याद्द्वितयं निराह -

विकारेति ।

नित्यप्राप्तत्वं दृष्टान्तेन स्पष्टयति -

नहीति ।

विपक्षे दोषमाह -

परित्यागे वेति ।

पक्षद्वयेऽपि दोषान्तरमाह -

विकारेति ।

ब्रह्म सविकारं सावयवं चेष्टं तस्य सह विकारैरवयवैश्च निश्चलत्वात्कुतो जीवानां संसारगमनरूपं चलनं न हि स्थिरात्मनामस्थिरत्वं युक्तमन्यानन्यत्वं च विरुद्धत्वान्नोपगन्तुं शक्यमित्यर्थः ।

तृतीयमनुवदति -

अथेति ।

तं त्रेधा विकल्प्य दूषयति -

सोऽणुरित्यादिना ।

अनित्यत्वप्रसङ्गो घटादिषु तथादृष्टेरिति शेषः ।

पक्षद्वयानुपपत्तिं तर्कपादे वियत्पादे चोक्तां स्मारयति -

प्रतिषिद्धे चेति ।

अन्यत्वपक्षे श्रुतिविरोधं दोषान्तरमाह -

परस्माच्चेति ।

पूर्वोक्तेऽपि पक्षद्वये श्रुतिविरोधस्य तुल्यत्वमाह -

विकारेति ।

तयोस्तद्वतोऽन्यत्ववदनन्यत्वस्यापि भावान्नेति शङ्कते -

विकारेति ।

भेदाभेदायोर्विरोधिनोरेकत्रायोगाद्बुद्धिव्यपदेशभेदाद्विकारावयवयोस्तद्वतो भेदे सत्ययुतसिद्धत्वादुपचारेणाभेदोक्तिरित्यमुख्यं जीवस्य ब्रह्मैक्यं स्यादित्याह -

नेति ।

किञ्च पक्षत्रयेऽपि संसारित्वस्य तात्त्विकत्वात्तस्यात्यन्तिकनाशे जीवरूपनाशादयुक्तं पक्षत्रयमपीत्याह -

सर्वेष्विति ।

संसारित्वे निवृत्तेऽपि सिद्धान्तवन्न जीवरूपनाशप्रसक्तिरित्याशङ्क्याह -

ब्रह्मेति ।