ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
यत्तु कैश्चिज्जल्प्यते — नित्यानि नैमित्तिकानि च कर्माण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये, काम्यानि प्रतिषिद्धानि च परिह्रियन्ते स्वर्गनरकानवाप्तये, साम्प्रतदेहोपभोग्यानि च कर्माण्युपभोगेनैव क्षप्यन्ते — इत्यतो वर्तमानदेहपातादूर्ध्वं देहान्तरप्रतिसन्धानकारणाभावात् स्वरूपावस्थानलक्षणं कैवल्यं विनापि ब्रह्मात्मतया एवंवृत्तस्य सेत्स्यतीति — तदसत् , प्रमाणाभावात् । न ह्येतत् शास्त्रेण केनचित्प्रतिपादितम् — मोक्षार्थी इत्थं समाचरेदिति । स्वमनीषया तु एतत्तर्कितम् — यस्मात्कर्मनिमित्तः संसारः तस्मान्निमित्ताभावान्न भविष्यतीति । न च एतत् तर्कयितुमपि शक्यते, निमित्ताभावस्य दुर्ज्ञानत्वात् । बहूनि हि कर्माणि जात्यन्तरसञ्चितानि इष्टानिष्टविपाकानि एकैकस्य जन्तोः सम्भाव्यन्ते । तेषां विरुद्धफलानां युगपदुपभोगासम्भवात् कानिचिल्लब्धावसराणि इदं जन्म निर्मिमते, कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासते — इत्यतः तेषामवशिष्टानां साम्प्रतेनोपभोगेन क्षपणासम्भवात् न यथावर्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभावः शक्यते निश्चेतुम् । कर्मशेषसद्भावसिद्धिश्च ‘तद्य इह रमणीयचरणाः’ ‘ततः शेषेण’ इत्यादिश्रुतिस्मृतिभ्यः । स्यादेतत् — नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीति — तत् न, विरोधाभावात् । सति हि विरोधे क्षेप्यक्षेपकभावो भवति । न च जन्मान्तरसञ्चितानां सुकृतानां नित्यनैमित्तिकैरस्ति विरोधः, शुद्धिरूपत्वाविशेषात् । दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणम् । न तु तावता देहान्तरनिमित्ताभावसिद्धिः, सुकृतनिमित्तत्वोपपत्तेः, दुरितस्याप्यशेषक्षपणानवगमात् । न च नित्यनैमित्तिकानुष्ठानात् प्रत्यवायानुत्पत्तिमात्रम् , न पुनः फलान्तरोत्पत्तिः इति प्रमाणमस्ति, फलान्तरस्याप्यनुनिष्पादिनः सम्भवात् । स्मरति हि आपस्तम्बः — ‘तद्यथा आम्रे फलार्थे निमिते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते’ (आ. ध. सू. १ । ७ । २० । ३) इति । न च असति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तराले केनचित्प्रतिज्ञातुं शक्यम् , सुनिपुणानामपि सूक्ष्मापराधदर्शनात् । संशयितव्यं तु भवति । तथापि निमित्ताभावस्य दुर्ज्ञानत्वमेव । न च अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्य आत्मनः कैवल्यमाकाङ्क्षितुं शक्यम् , अग्न्यौष्ण्यवत् स्वभावस्यापरिहार्यत्वात् । स्यादेतत् — कर्तृत्वभोक्तृत्वकार्यम् अनर्थः, न तच्छक्तिः, तेन शक्त्यवस्थानेऽपि कार्यपरिहारादुपपन्नो मोक्ष इति — तच्च न । शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात् । अथापि स्यात् — न केवला शक्तिः कार्यमारभते अनपेक्ष्य अन्यानि निमित्तानि । अत एकाकिनी सा स्थितापि नापराध्यतीति — तच्च न, निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन नित्यसम्बद्धत्वात् । तस्मात् कर्तृत्वभोक्तृत्वस्वभावे सति आत्मनि, असत्यां विद्यागम्यायां ब्रह्मात्मतायाम् , न कथञ्चन मोक्षं प्रति आशा अस्ति । श्रुतिश्च — ‘नान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति ज्ञानादन्यं मोक्षमार्गं वारयति ॥

संसारस्य कर्मनिमित्तत्वात्तदभावेऽभावान्मुक्तिरनायाससिद्धेति मतं दर्शयति -

यत्त्विति ।

देहान्तरप्रतिसन्धानं तेन सम्बन्धस्तद्ग्रहणमिति यावत् । एवंवृत्तस्य नित्याद्यनुष्ठानवतो वर्णितचरितस्य मुमुक्षोरित्यर्थः ।

किं शास्त्रादेव मुच्यते किंवा तर्कादिति विकल्प्याद्यं प्रत्याह -

तदसदिति ।

प्रमाणाभावं प्रकटयति -

नहीति ।

द्वितीयमनुवदति -

स्वेति ।

स्वोत्प्रेक्षितमपि युक्तत्वादेष्टव्यमिति पक्षं प्रत्याह -

नचेति ।

निमित्ताभावस्य दुर्ज्ञानत्वं प्रपञ्चयति -

बहूनीति ।

सर्वाण्येव तानि मुमुक्षुदेहे भोगेन क्षपितानीत्याशङ्क्याह -

तेषामिति ।

अनुपभुक्तकर्मणां देहान्तरसम्भवान्नित्याद्यनुष्ठानवतोऽपि तत्त्वज्ञानं विना नास्ति मोक्षाशेति फलितमाह -

इत्यत इति ।

ऐकभविकत्वात्कर्माशयस्य वर्तमानभोगेन क्षपणसम्भवान्मोक्षसिद्धिरित्याशङ्क्य कृतात्ययेऽनुशयवानित्यत्रैकभविकत्वं दूषितमिति मत्वाह -

कर्मेति ।

अनारब्धफलानामपि कर्मणां नित्यनैमित्तिकेभ्यो निवृत्तेरुक्तचरितस्य मुक्तिरिति शङ्कते -

स्यादेतदिति ।

किं तानि सुकृतानामपि क्षेपकाण्याहो दुंरितानामेवेति विकल्प्याद्यं निरस्यति -

नेत्यादिना ।

तेषां सुकृतविरोधित्वे काम्यकर्मोपदेशवैयर्थ्यं तेषामपि तैर्विनाशादिति मन्वानो विरोधं विवृणोति -

सतीति ।

द्वितीयमङ्गीकरोति -

दुरितानां त्विति ।

तर्हि तन्निबर्हणे तावतैव देहान्तराभावान्मुक्तेरैक्यधीवैयर्थ्यं नेत्याह -

न त्विति ।

केवलसुकृतारब्धं शरीरं नास्त्यप्रियस्यापि दुरितफलस्य तत्र दर्शनादित्याशङ्क्याह -

दुश्चरितस्येति ।

किञ्च मुमुक्षुभिरनुष्ठितनित्यनैमित्तिकवशादपि देहान्तरसम्भवान्नोक्तचरितस्य मुक्त्याशास्तीत्याह -

नचेति ।

तेषामानुषङ्गिकफलत्वं सम्भावितमपि न प्रमितमित्याशङ्क्याह -

स्मरतीति ।

निर्मिते आरोपिते सतीति यावत् ।

किञ्च काम्यनिषिद्धकर्मशेषवशादपि देहान्तरसिद्धेर्नोक्तचरितस्य मुक्तिरित्याह -

नचेति ।

अस्मदादीनां स्थूलधियां सम्यग्धियं विना सर्वात्मना काम्याद्यवर्जनेऽपि ज्ञानादशेषकाम्यादिवर्जनसिद्धिरित्याशङ्क्याह -

सुनिपुणानामिति ।

प्रमादो भवत्येवेत्यनियमान्नो जन्मान्तरमित्याशङ्क्याह -

संशयितव्यमिति ।

निमित्तसद्भावेऽपि निश्चयाभावे जन्मान्तरमनिश्चितमसिद्धमेव स्यादित्याशङ्क्याह -

तथापीति ।

तस्य दुर्ज्ञानत्वे जन्मान्तराभावस्यापि तथात्वात्त्वत्पक्षासिद्धिरित्यर्थः ।

किं चात्मनि कर्तृत्वादि स्वाभाविकमारोपितं वाद्येऽपि तत्कार्यं तच्छक्तिर्वा स्वभावः । प्रथमे तस्मिन्निवृत्ते स्थिते वा मुक्तिः । नाद्यः । स्वभावस्य निवर्तयितुमशक्यत्वात् । न द्वितीयो व्याघातादित्याह -

नचेति ।

द्वितीयं शङ्कते -

स्यादिति ।

किं शक्तेरस्ति कार्यारम्भकत्वमुत न । आद्येऽपि सा निरपेक्षा कार्यमारभते सापेक्षा वा । नाद्य इत्याह -

तच्च नेति ।

कल्पान्तरमुत्थापयति -

अथापीति ।

अदृष्टादिनिमित्ताभावादुपभोगलक्षणोऽनर्थो नास्तीत्यर्थः ।

कर्तृत्वभोक्तृत्वयोर्निमित्तसम्बन्धस्यात्मनोऽदृष्टादिनिमित्तैः सम्बन्धस्य च शक्तिद्वारा सदातनत्वात्कदाचित्तस्या भोगारम्भकत्वसम्भवान्न मुक्तिरित्याह -

तच्चेति ।

सा चेत्कार्यं नारभते तर्हि तस्या असत्त्वमेव कार्यैकगम्यत्वादिति मत्वा शक्तेर्वा कार्यस्य वा स्वाभाविकत्वनिरासमुपसंहरति -

तस्मादिति ।

आत्मनि कर्तृत्वादेरारोपितत्वे ज्ञानादेव तन्निवृत्तेर्न कर्मसाध्या मुक्तिरित्युपेत्य ज्ञानमात्रायत्ता सेत्यत्र मानमाह -

श्रुतिश्चेति ।