ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
परस्मादनन्यत्वेऽपि जीवस्य सर्वव्यवहारलोपप्रसङ्गः, प्रत्यक्षादिप्रमाणाप्रवृत्तेरिति चेत् — न, प्राक्प्रबोधात् स्वप्नव्यवहारवत् तदुपपत्तेः । शास्त्रं च ‘यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति’ (बृ. उ. २ । ४ । १४) इत्यादिना अप्रबुद्धविषये प्रत्यक्षादिव्यवहारमुक्त्वा, पुनः प्रबुद्धविषये — ‘यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिना तदभावं दर्शयति । तदेवं परब्रह्मविदो गन्तव्यादिविज्ञानस्य वाधितत्वात् न कथञ्चन गतिरुपपादयितुं शक्या । किंविषयाः पुनर्गतिश्रुतय इति, उच्यते — सगुणविद्याविषया भविष्यन्ति । तथा हि — क्वचित्पञ्चाग्निविद्यां प्रकृत्य गतिरुच्यते, क्वचित्पर्यङ्कविद्याम् , क्वचिद्वैश्वानरविद्याम् । यत्रापि ब्रह्म प्रकृत्य गतिरुच्यते — यथा ‘प्राणो ब्रह्म कं ब्रह्म खं ब्रह्म’ (छा. उ. ४ । १० । ४) इति ‘अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म’ (छा. उ. ८ । १ । १) इति च, तत्रापि वामनीत्वादिभिः सत्यकामादिभिश्च गुणैः सगुणस्यैव उपास्यत्वात् सम्भवति गतिः । न क्वचित्परब्रह्मविषया गतिः श्राव्यते । तथा गतिप्रतिषेधः श्रावितः — ‘न तस्य प्राणा उत्क्रामन्ति’ (बृ. उ. ४ । ४ । ६) इति । ‘ब्रह्मविदाप्नोति परम्’ (तै. उ. २ । १ । १) इत्यादिषु तु, सत्यपि आप्नोतेर्गत्यर्थत्वे, वर्णितेन न्यायेन देशान्तरप्राप्त्यसम्भवात् स्वरूपप्रतिपत्तिरेवेयम् अविद्याध्यारोपितनामरूपप्रविलयापेक्षया अभिधीयते — ‘ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इत्यादिवत् इति द्रष्टव्यम् । अपि च परविषया गतिर्व्याख्यायमाना प्ररोचनाय वा स्यात् , अनुचिन्तनाय वा ? तत्र प्ररोचनं तावत् ब्रह्मविदो न गत्युक्त्या क्रियते, स्वसंवेद्येनैव अव्यवहितेन विद्यासमर्पितेन स्वास्थ्येन तत्सिद्धेः । न च नित्यसिद्धनिःश्रेयसनिवेदनस्य असाध्यफलस्य विज्ञानस्य गत्यनुचिन्तने काचिदपेक्षा उपपद्यते । तस्मादपरब्रह्मविषया गतिः । तत्र परापरब्रह्मविवेकानवधारणेन अपरस्मिन्ब्रह्मणि वर्तमाना गतिश्रुतयः परस्मिन्नध्यारोप्यन्ते । किं द्वे ब्रह्मणी परमपरं चेति ? बाढं द्वे — ‘एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः’ (प्र. उ. ५ । २) इत्यादिदर्शनात् । किं पुनः परं ब्रह्म किमपरमिति, उच्यते — यत्र अविद्याकृतनामरूपादिविशेषप्रतिषेधेन अस्थूलादिशब्दैर्ब्रह्मोपदिश्यते, तत्परम् । तदेव यत्र नामरूपादिविशेषेण केनचिद्विशिष्टम् उपासनायोपदिश्यते — ‘मनोमयः प्राणशरीरो भारूपः’ (छा. उ. ३ । १४ । २) इत्यादिशब्दैः, तदपरम् । ननु एवमद्वितीयश्रुतिरुपरुध्येत — न, अविद्याकृतनामरूपोपाधिकतया परिहृतत्वात् । तस्य च अपरब्रह्मोपासनस्य तत्सन्निधौ श्रूयमाणम् ‘स यदि पितृलोककामो भवति’ (छा. उ. ८ । २ । १) इत्यादि जगदैश्वर्यलक्षणं संसारगोचरमेव फलं भवति, अनिवर्तितत्वादविद्यायाः । तस्य च देशविशेषावबद्धत्वात् तत्प्राप्त्यर्थं गमनमविरुद्धम् । सर्वगतत्वेऽपि च आत्मनः, आकाशस्येव घटादिगमने, बुद्ध्याद्युपाधिगमने गमनप्रसिद्धिः इत्यवादिष्म ‘तद्गुणसारत्वात्’ (ब्र. सू. २ । ३ । २९) इत्यत्र । तस्मात् ‘कार्यं बादरिः’ (ब्र. सू. ४ । ३ । ७) इत्येष एव स्थितः पक्षः । ‘परं जैमिनिः’ (ब्र. सू. ४ । ३ । १२) इति तु पक्षान्तरप्रतिभानमात्रप्रदर्शनं प्रज्ञाविकासनायेति द्रष्टव्यम् ॥ १४ ॥

प्रासङ्गिके परमते पराकृते मोक्षसिद्धये जीवस्य ब्रह्मात्मत्वोपगमेऽपि तुल्याऽनुपपत्तिरिति शङ्कते -

परस्मादिति ।

तत्त्वज्ञानात्प्रागूर्ध्वं वा व्यवहाराभावो नाद्यः स्वप्नवदुपपत्तेरित्याह -

न प्रागिति ।

तत्रैव शास्त्रानुमतिमाह -

शास्त्रं चेति ।

अप्रवुद्धविषय इति च्छेदः ।

द्वितीये प्रसङ्गस्येष्टतां शास्त्रावष्टम्मेनाचष्टे -

पुनरिति ।

प्रासङ्गिकं परिहृत्य प्रकृतं निगमयति -

तदेवमिति ।

परमतं निराकृत्य पूर्वोक्तं स्वमतं प्रश्नपूर्वकं विवृणोति -

किमित्यादिना ।

गतिश्रुतीनां सगुणधीविपयत्वं विशदयति -

तथाहीति ।

ब्रह्म प्रकृत्यापि गतेरुक्तेस्तस्या युक्तं परविषयत्वमित्याशङ्क्याह -

यत्रापीति ।

सगुणविद्याविषये गतिश्रुतिमुक्त्या परविद्याविषये तदभावमाह -

नेति ।

क्रमत्वाविशेषात्तत्रापि गतिरेषैवेत्याशङ्क्याह -

यथेति ।

आप्नोतेर्गत्यर्थत्वात्परविद्याधिकारेऽपि गतिश्रुिरस्तीत्याशङ्क्याह -

ब्रह्मविदिति ।

ब्रह्मणः सर्वगतत्वं सर्वान्तरत्वं सर्वात्मत्वमित्यादिवर्णितो न्यायः ।

आप्नोतिस्तर्हि परविषये कथमित्याशङ्क्याह -

स्वरूपेति ।

इतश्च परत्रविषये नास्ति गतिरित्याह -

अपिचेति ।

तदेव दर्शयितुं विकल्पयति -

परेति ।

प्ररोचनपक्षं प्रत्याह -

तत्रेति ।

स्वसंवेद्यत्वे हेतुमाह -

अव्यवहितेनेति ।

स्वापादिव्यावृत्त्यर्थं विशिनष्टि -

विद्येति ।

अनुचिन्तनपक्षं प्रतिक्षिपति -

नचेति ।

पक्षद्वयनिरासफलं दर्शयति -

तस्मादिति ।

कथं तर्हि केषाञ्चिदाचार्याणां परविषयत्वोपगमो गतेरित्याशङ्क्य सूक्ष्मदृष्टिशून्यत्वादित्याह -

तत्रेति ।

अपसिद्धान्तं शङ्कते -

किमिति ।

सोपाधिकनिरुपाधिकत्वेन ब्रह्मणो भेदः, श्रुतिवैरूप्यात्तेन नापराद्धान्तापत्तिरित्याह -

बाढमिति ।

परापरविभागम्प्रश्नपूर्वकं विशदयति -

किमित्यादिना ।

उक्तमेवापसिद्धान्तपरिहारं चोद्यद्वारा स्फोरयति -

नन्वित्यादिना ।

परापरविभागस्य मिथ्यात्वे किं स्यादित्याशङ्क्यापरब्रह्मणो गन्तव्यत्वार्थं तदुपास्तिफलमाह -

तस्येति ।

अपरब्रह्मोपासनस्योक्तफलत्वेऽपि कथं तद्विषये गतिरित्याशङ्क्याह -

तस्य चेति ।

तस्य गन्तव्यत्वेऽपि गन्तृृत्वमात्मनो विभुत्वादयुक्तमित्याशङ्क्याह -

सर्वेति ।

अनिर्वचनीया गतिरनिर्वचनीयसगुणब्रह्मविषयैवोचितेति भावः ।

परविषये गत्यभावादपरविषये तदुपपत्तेरस्मदुक्तैव पूर्वोत्तरपक्षव्यवस्थेत्युपसंहरति -

तस्मादिति ॥ १४ ॥