ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
गतिकल्पनायां गन्ता जीवो गन्तव्यस्य ब्रह्मणः अवयवः विकारो अन्यो वा ततः स्यात् , अत्यन्ततादात्म्ये गमनानुपपत्तेःयद्येवम् , ततः किं स्यात् ? उच्यतेयद्येकदेशः, तेन एकदेशिनो नित्यप्राप्तत्वात् पुनर्ब्रह्मगमनमुपपद्यतेएकदेशैकदेशित्वकल्पना ब्रह्मण्यनुपपन्ना, निरवयवत्वप्रसिद्धेःविकारपक्षेऽप्येतत्तुल्यम् , विकारेणापि विकारिणो नित्यप्राप्तत्वात् हि घटो मृदात्मतां परित्यज्य अवतिष्ठते, परित्यागे वा अभावप्राप्तेःविकारावयवपक्षयोश्च तद्वतः स्थिरत्वात् ब्रह्मणः संसारगमनमपि अनवकॢप्तम्अथ अन्य एव जीवो ब्रह्मणः, सोऽणुः व्यापी मध्यमपरिमाणो वा भवितुमर्हतिव्यापित्वे गमनानुपपत्तिःमध्यमपरिमाणत्वे अनित्यत्वप्रसङ्गःअणुत्वे कृत्स्नशरीरवेदनानुपपत्तिःप्रतिषिद्धे अणुत्वमध्यमपरिमाणत्वे विस्तरेण पुरस्तात्परस्माच्च अन्यत्वे जीवस्य तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इत्यादिशास्त्रबाधप्रसङ्गःविकारावयवपक्षयोरपि समानोऽयं दोषःविकारावयवयोस्तद्वतोऽनन्यत्वात् अदोष इति चेत् , , मुख्यैकत्वानुपपत्तेःसर्वेष्वेतेषु पक्षेषु अनिर्मोक्षप्रसङ्गः, संसार्यात्मत्वानिवृत्तेः; निवृत्तौ वा स्वरूपनाशप्रसङ्गः, ब्रह्मात्मत्वानभ्युपगमाच्च

गन्तव्यरूपालोचनया गतिरयुक्तेत्युक्तम् । अधुना गन्तृरूपालोचनयापि सा न युक्तेति वक्तुं विकल्पयति -

गतीति ।

अन्यानन्यत्वमाश्रित्याद्यौ विकल्पावत्यन्तभेदमाश्रित्यान्त्य इति भेदः ।

आत्यन्तिकमनन्यत्वं किमिति न विकल्प्यते, तत्राह -

अत्यन्तेति ।

कल्पत्रयेऽपि दोषजिज्ञासया पृच्छति -

यदीति ।

पक्षत्रयेऽपि दोषमाह -

उच्यत इति ।

आद्यमनूद्य प्रत्याह -

यदीति ।

प्रथमपक्षस्योत्थानमेव नास्तीत्याह -

एकदेेशेति ।

उक्तदोषसाम्याद्द्वितयं निराह -

विकारेति ।

नित्यप्राप्तत्वं दृष्टान्तेन स्पष्टयति -

नहीति ।

विपक्षे दोषमाह -

परित्यागे वेति ।

पक्षद्वयेऽपि दोषान्तरमाह -

विकारेति ।

ब्रह्म सविकारं सावयवं चेष्टं तस्य सह विकारैरवयवैश्च निश्चलत्वात्कुतो जीवानां संसारगमनरूपं चलनं न हि स्थिरात्मनामस्थिरत्वं युक्तमन्यानन्यत्वं च विरुद्धत्वान्नोपगन्तुं शक्यमित्यर्थः ।

तृतीयमनुवदति -

अथेति ।

तं त्रेधा विकल्प्य दूषयति -

सोऽणुरित्यादिना ।

अनित्यत्वप्रसङ्गो घटादिषु तथादृष्टेरिति शेषः ।

पक्षद्वयानुपपत्तिं तर्कपादे वियत्पादे चोक्तां स्मारयति -

प्रतिषिद्धे चेति ।

अन्यत्वपक्षे श्रुतिविरोधं दोषान्तरमाह -

परस्माच्चेति ।

पूर्वोक्तेऽपि पक्षद्वये श्रुतिविरोधस्य तुल्यत्वमाह -

विकारेति ।

तयोस्तद्वतोऽन्यत्ववदनन्यत्वस्यापि भावान्नेति शङ्कते -

विकारेति ।

भेदाभेदायोर्विरोधिनोरेकत्रायोगाद्बुद्धिव्यपदेशभेदाद्विकारावयवयोस्तद्वतो भेदे सत्ययुतसिद्धत्वादुपचारेणाभेदोक्तिरित्यमुख्यं जीवस्य ब्रह्मैक्यं स्यादित्याह -

नेति ।

किञ्च पक्षत्रयेऽपि संसारित्वस्य तात्त्विकत्वात्तस्यात्यन्तिकनाशे जीवरूपनाशादयुक्तं पक्षत्रयमपीत्याह -

सर्वेष्विति ।

संसारित्वे निवृत्तेऽपि सिद्धान्तवन्न जीवरूपनाशप्रसक्तिरित्याशङ्क्याह -

ब्रह्मेति ।