ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १४ ॥
यत्तु कैश्चिज्जल्प्यतेनित्यानि नैमित्तिकानि कर्माण्यनुष्ठीयन्ते प्रत्यवायानुत्पत्तये, काम्यानि प्रतिषिद्धानि परिह्रियन्ते स्वर्गनरकानवाप्तये, साम्प्रतदेहोपभोग्यानि कर्माण्युपभोगेनैव क्षप्यन्तेइत्यतो वर्तमानदेहपातादूर्ध्वं देहान्तरप्रतिसन्धानकारणाभावात् स्वरूपावस्थानलक्षणं कैवल्यं विनापि ब्रह्मात्मतया एवंवृत्तस्य सेत्स्यतीतितदसत् , प्रमाणाभावात् ह्येतत् शास्त्रेण केनचित्प्रतिपादितम्मोक्षार्थी इत्थं समाचरेदितिस्वमनीषया तु एतत्तर्कितम्यस्मात्कर्मनिमित्तः संसारः तस्मान्निमित्ताभावान्न भविष्यतीति एतत् तर्कयितुमपि शक्यते, निमित्ताभावस्य दुर्ज्ञानत्वात्बहूनि हि कर्माणि जात्यन्तरसञ्चितानि इष्टानिष्टविपाकानि एकैकस्य जन्तोः सम्भाव्यन्तेतेषां विरुद्धफलानां युगपदुपभोगासम्भवात् कानिचिल्लब्धावसराणि इदं जन्म निर्मिमते, कानिचित्तु देशकालनिमित्तप्रतीक्षाण्यासतेइत्यतः तेषामवशिष्टानां साम्प्रतेनोपभोगेन क्षपणासम्भवात् यथावर्णितचरितस्यापि वर्तमानदेहपाते देहान्तरनिमित्ताभावः शक्यते निश्चेतुम्कर्मशेषसद्भावसिद्धिश्चतद्य इह रमणीयचरणाः’ ‘ततः शेषेणइत्यादिश्रुतिस्मृतिभ्यःस्यादेतत्नित्यनैमित्तिकानि तेषां क्षेपकाणि भविष्यन्तीतितत् , विरोधाभावात्सति हि विरोधे क्षेप्यक्षेपकभावो भवति जन्मान्तरसञ्चितानां सुकृतानां नित्यनैमित्तिकैरस्ति विरोधः, शुद्धिरूपत्वाविशेषात्दुरितानां तु अशुद्धिरूपत्वात् सति विरोधे भवतु क्षपणम् तु तावता देहान्तरनिमित्ताभावसिद्धिः, सुकृतनिमित्तत्वोपपत्तेः, दुरितस्याप्यशेषक्षपणानवगमात् नित्यनैमित्तिकानुष्ठानात् प्रत्यवायानुत्पत्तिमात्रम् , पुनः फलान्तरोत्पत्तिः इति प्रमाणमस्ति, फलान्तरस्याप्यनुनिष्पादिनः सम्भवात्स्मरति हि आपस्तम्बःतद्यथा आम्रे फलार्थे निमिते छायागन्धावनूत्पद्येते एवं धर्मं चर्यमाणम् अर्था अनूत्पद्यन्ते’ (आ. ध. सू. १ । ७ । २० । ३) इति असति सम्यग्दर्शने सर्वात्मना काम्यप्रतिषिद्धवर्जनं जन्मप्रायणान्तराले केनचित्प्रतिज्ञातुं शक्यम् , सुनिपुणानामपि सूक्ष्मापराधदर्शनात्संशयितव्यं तु भवतितथापि निमित्ताभावस्य दुर्ज्ञानत्वमेव अनभ्युपगम्यमाने ज्ञानगम्ये ब्रह्मात्मत्वे कर्तृत्वभोक्तृत्वस्वभावस्य आत्मनः कैवल्यमाकाङ्क्षितुं शक्यम् , अग्न्यौष्ण्यवत् स्वभावस्यापरिहार्यत्वात्स्यादेतत्कर्तृत्वभोक्तृत्वकार्यम् अनर्थः, तच्छक्तिः, तेन शक्त्यवस्थानेऽपि कार्यपरिहारादुपपन्नो मोक्ष इतितच्च शक्तिसद्भावे कार्यप्रसवस्य दुर्निवारत्वात्अथापि स्यात् केवला शक्तिः कार्यमारभते अनपेक्ष्य अन्यानि निमित्तानिअत एकाकिनी सा स्थितापि नापराध्यतीतितच्च , निमित्तानामपि शक्तिलक्षणेन सम्बन्धेन नित्यसम्बद्धत्वात्तस्मात् कर्तृत्वभोक्तृत्वस्वभावे सति आत्मनि, असत्यां विद्यागम्यायां ब्रह्मात्मतायाम् , कथञ्चन मोक्षं प्रति आशा अस्तिश्रुतिश्चनान्यः पन्था विद्यतेऽयनाय’ (श्वे. उ. ३ । ८) इति ज्ञानादन्यं मोक्षमार्गं वारयति

संसारस्य कर्मनिमित्तत्वात्तदभावेऽभावान्मुक्तिरनायाससिद्धेति मतं दर्शयति -

यत्त्विति ।

देहान्तरप्रतिसन्धानं तेन सम्बन्धस्तद्ग्रहणमिति यावत् । एवंवृत्तस्य नित्याद्यनुष्ठानवतो वर्णितचरितस्य मुमुक्षोरित्यर्थः ।

किं शास्त्रादेव मुच्यते किंवा तर्कादिति विकल्प्याद्यं प्रत्याह -

तदसदिति ।

प्रमाणाभावं प्रकटयति -

नहीति ।

द्वितीयमनुवदति -

स्वेति ।

स्वोत्प्रेक्षितमपि युक्तत्वादेष्टव्यमिति पक्षं प्रत्याह -

नचेति ।

निमित्ताभावस्य दुर्ज्ञानत्वं प्रपञ्चयति -

बहूनीति ।

सर्वाण्येव तानि मुमुक्षुदेहे भोगेन क्षपितानीत्याशङ्क्याह -

तेषामिति ।

अनुपभुक्तकर्मणां देहान्तरसम्भवान्नित्याद्यनुष्ठानवतोऽपि तत्त्वज्ञानं विना नास्ति मोक्षाशेति फलितमाह -

इत्यत इति ।

ऐकभविकत्वात्कर्माशयस्य वर्तमानभोगेन क्षपणसम्भवान्मोक्षसिद्धिरित्याशङ्क्य कृतात्ययेऽनुशयवानित्यत्रैकभविकत्वं दूषितमिति मत्वाह -

कर्मेति ।

अनारब्धफलानामपि कर्मणां नित्यनैमित्तिकेभ्यो निवृत्तेरुक्तचरितस्य मुक्तिरिति शङ्कते -

स्यादेतदिति ।

किं तानि सुकृतानामपि क्षेपकाण्याहो दुंरितानामेवेति विकल्प्याद्यं निरस्यति -

नेत्यादिना ।

तेषां सुकृतविरोधित्वे काम्यकर्मोपदेशवैयर्थ्यं तेषामपि तैर्विनाशादिति मन्वानो विरोधं विवृणोति -

सतीति ।

द्वितीयमङ्गीकरोति -

दुरितानां त्विति ।

तर्हि तन्निबर्हणे तावतैव देहान्तराभावान्मुक्तेरैक्यधीवैयर्थ्यं नेत्याह -

न त्विति ।

केवलसुकृतारब्धं शरीरं नास्त्यप्रियस्यापि दुरितफलस्य तत्र दर्शनादित्याशङ्क्याह -

दुश्चरितस्येति ।

किञ्च मुमुक्षुभिरनुष्ठितनित्यनैमित्तिकवशादपि देहान्तरसम्भवान्नोक्तचरितस्य मुक्त्याशास्तीत्याह -

नचेति ।

तेषामानुषङ्गिकफलत्वं सम्भावितमपि न प्रमितमित्याशङ्क्याह -

स्मरतीति ।

निर्मिते आरोपिते सतीति यावत् ।

किञ्च काम्यनिषिद्धकर्मशेषवशादपि देहान्तरसिद्धेर्नोक्तचरितस्य मुक्तिरित्याह -

नचेति ।

अस्मदादीनां स्थूलधियां सम्यग्धियं विना सर्वात्मना काम्याद्यवर्जनेऽपि ज्ञानादशेषकाम्यादिवर्जनसिद्धिरित्याशङ्क्याह -

सुनिपुणानामिति ।

प्रमादो भवत्येवेत्यनियमान्नो जन्मान्तरमित्याशङ्क्याह -

संशयितव्यमिति ।

निमित्तसद्भावेऽपि निश्चयाभावे जन्मान्तरमनिश्चितमसिद्धमेव स्यादित्याशङ्क्याह -

तथापीति ।

तस्य दुर्ज्ञानत्वे जन्मान्तराभावस्यापि तथात्वात्त्वत्पक्षासिद्धिरित्यर्थः ।

किं चात्मनि कर्तृत्वादि स्वाभाविकमारोपितं वाद्येऽपि तत्कार्यं तच्छक्तिर्वा स्वभावः । प्रथमे तस्मिन्निवृत्ते स्थिते वा मुक्तिः । नाद्यः । स्वभावस्य निवर्तयितुमशक्यत्वात् । न द्वितीयो व्याघातादित्याह -

नचेति ।

द्वितीयं शङ्कते -

स्यादिति ।

किं शक्तेरस्ति कार्यारम्भकत्वमुत न । आद्येऽपि सा निरपेक्षा कार्यमारभते सापेक्षा वा । नाद्य इत्याह -

तच्च नेति ।

कल्पान्तरमुत्थापयति -

अथापीति ।

अदृष्टादिनिमित्ताभावादुपभोगलक्षणोऽनर्थो नास्तीत्यर्थः ।

कर्तृत्वभोक्तृत्वयोर्निमित्तसम्बन्धस्यात्मनोऽदृष्टादिनिमित्तैः सम्बन्धस्य च शक्तिद्वारा सदातनत्वात्कदाचित्तस्या भोगारम्भकत्वसम्भवान्न मुक्तिरित्याह -

तच्चेति ।

सा चेत्कार्यं नारभते तर्हि तस्या असत्त्वमेव कार्यैकगम्यत्वादिति मत्वा शक्तेर्वा कार्यस्य वा स्वाभाविकत्वनिरासमुपसंहरति -

तस्मादिति ।

आत्मनि कर्तृत्वादेरारोपितत्वे ज्ञानादेव तन्निवृत्तेर्न कर्मसाध्या मुक्तिरित्युपेत्य ज्ञानमात्रायत्ता सेत्यत्र मानमाह -

श्रुतिश्चेति ।