प्रासङ्गिके परमते पराकृते मोक्षसिद्धये जीवस्य ब्रह्मात्मत्वोपगमेऽपि तुल्याऽनुपपत्तिरिति शङ्कते -
परस्मादिति ।
तत्त्वज्ञानात्प्रागूर्ध्वं वा व्यवहाराभावो नाद्यः स्वप्नवदुपपत्तेरित्याह -
न प्रागिति ।
तत्रैव शास्त्रानुमतिमाह -
शास्त्रं चेति ।
अप्रवुद्धविषय इति च्छेदः ।
द्वितीये प्रसङ्गस्येष्टतां शास्त्रावष्टम्मेनाचष्टे -
पुनरिति ।
प्रासङ्गिकं परिहृत्य प्रकृतं निगमयति -
तदेवमिति ।
परमतं निराकृत्य पूर्वोक्तं स्वमतं प्रश्नपूर्वकं विवृणोति -
किमित्यादिना ।
गतिश्रुतीनां सगुणधीविपयत्वं विशदयति -
तथाहीति ।
ब्रह्म प्रकृत्यापि गतेरुक्तेस्तस्या युक्तं परविषयत्वमित्याशङ्क्याह -
यत्रापीति ।
सगुणविद्याविषये गतिश्रुतिमुक्त्या परविद्याविषये तदभावमाह -
नेति ।
क्रमत्वाविशेषात्तत्रापि गतिरेषैवेत्याशङ्क्याह -
यथेति ।
आप्नोतेर्गत्यर्थत्वात्परविद्याधिकारेऽपि गतिश्रुिरस्तीत्याशङ्क्याह -
ब्रह्मविदिति ।
ब्रह्मणः सर्वगतत्वं सर्वान्तरत्वं सर्वात्मत्वमित्यादिवर्णितो न्यायः ।
आप्नोतिस्तर्हि परविषये कथमित्याशङ्क्याह -
स्वरूपेति ।
इतश्च परत्रविषये नास्ति गतिरित्याह -
अपिचेति ।
तदेव दर्शयितुं विकल्पयति -
परेति ।
प्ररोचनपक्षं प्रत्याह -
तत्रेति ।
स्वसंवेद्यत्वे हेतुमाह -
अव्यवहितेनेति ।
स्वापादिव्यावृत्त्यर्थं विशिनष्टि -
विद्येति ।
अनुचिन्तनपक्षं प्रतिक्षिपति -
नचेति ।
पक्षद्वयनिरासफलं दर्शयति -
तस्मादिति ।
कथं तर्हि केषाञ्चिदाचार्याणां परविषयत्वोपगमो गतेरित्याशङ्क्य सूक्ष्मदृष्टिशून्यत्वादित्याह -
तत्रेति ।
अपसिद्धान्तं शङ्कते -
किमिति ।
सोपाधिकनिरुपाधिकत्वेन ब्रह्मणो भेदः, श्रुतिवैरूप्यात्तेन नापराद्धान्तापत्तिरित्याह -
बाढमिति ।
परापरविभागम्प्रश्नपूर्वकं विशदयति -
किमित्यादिना ।
उक्तमेवापसिद्धान्तपरिहारं चोद्यद्वारा स्फोरयति -
नन्वित्यादिना ।
परापरविभागस्य मिथ्यात्वे किं स्यादित्याशङ्क्यापरब्रह्मणो गन्तव्यत्वार्थं तदुपास्तिफलमाह -
तस्येति ।
अपरब्रह्मोपासनस्योक्तफलत्वेऽपि कथं तद्विषये गतिरित्याशङ्क्याह -
तस्य चेति ।
तस्य गन्तव्यत्वेऽपि गन्तृृत्वमात्मनो विभुत्वादयुक्तमित्याशङ्क्याह -
सर्वेति ।
अनिर्वचनीया गतिरनिर्वचनीयसगुणब्रह्मविषयैवोचितेति भावः ।
परविषये गत्यभावादपरविषये तदुपपत्तेरस्मदुक्तैव पूर्वोत्तरपक्षव्यवस्थेत्युपसंहरति -
तस्मादिति ॥ १४ ॥