इतोऽपि प्रतीकोपासनानां न ब्रह्मगतिरित्याह -
विशेषं चेति ।
उत्कर्षापकर्षवत्त्वात्फलस्य प्रतीकोपासनानां नैकरूपब्रह्मक्रतुत्वं तत्प्राप्तिर्वा हेतूपचयापचयातिरेकेण फले तदयोगादिति व्याचष्टे -
नामादिष्विति ।
फलविशेषोपलम्भेऽपि किमित्युपासनानां प्रतीकतन्त्रत्वं, तत्राह -
स चेति ।
प्रतीकानामुत्कर्षनिकर्षवत्त्वादित्यर्थः ।
विपक्षे फलविशेषदृष्टेरश्लिष्टत्वमाह -
ब्रह्मेति ।
प्रतीकालम्बनातिरिक्तानां विकारालम्बनानां ब्रह्मलोकगतिरिति स्थिते फलितमुपसंहरति -
तस्मादिति ॥ १६ ॥