ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
विशेषं च दर्शयति ॥ १६ ॥
नामादिषु प्रतीकोपासनेषु पूर्वस्मात्पूर्वस्मात् फलविशेषम् उत्तरस्मिन्नुत्तरस्मिन् उपासने दर्शयतियावन्नाम्नो गतं तत्रास्य यथाकामचारो भवति’ (छा. उ. ७ । १ । ५) वाग्वाव नाम्नो भूयसी’ (छा. उ. ७ । २ । १) यावद्वाचो गतं तत्रास्य यथाकामचारो भवति’ (छा. उ. ७ । २ । २) मनो वाव वाचो भूयः’ (छा. उ. ७ । ३ । १) इत्यादिना अयं फलविशेषः प्रतीकतन्त्रत्वादुपासनानाम् उपपद्यतेब्रह्मतन्त्रत्वे तु ब्रह्मणोऽविशिष्टत्वात् कथं फलविशेषः स्यात्तस्मात् प्रतीकालम्बनानाम् इतरैस्तुल्यफलत्वमिति ॥ १६ ॥

इतोऽपि प्रतीकोपासनानां न ब्रह्मगतिरित्याह -

विशेषं चेति ।

उत्कर्षापकर्षवत्त्वात्फलस्य प्रतीकोपासनानां नैकरूपब्रह्मक्रतुत्वं तत्प्राप्तिर्वा हेतूपचयापचयातिरेकेण फले तदयोगादिति व्याचष्टे -

नामादिष्विति ।

फलविशेषोपलम्भेऽपि किमित्युपासनानां प्रतीकतन्त्रत्वं, तत्राह -

स चेति ।

प्रतीकानामुत्कर्षनिकर्षवत्त्वादित्यर्थः ।

विपक्षे फलविशेषदृष्टेरश्लिष्टत्वमाह -

ब्रह्मेति ।

प्रतीकालम्बनातिरिक्तानां विकारालम्बनानां ब्रह्मलोकगतिरिति स्थिते फलितमुपसंहरति -

तस्मादिति ॥ १६ ॥