गन्तव्यविशेषोक्त्यनन्तरं गन्तृविशेषोक्त्यर्थमाह -
अप्रतीकालम्बनानिति ।
सम्बन्धं वक्तुं वृत्तं कीर्तयति -
स्थितमिति ।
अमानवपुरुषं विषयीकृत्याविशेषश्रुतेस्तत्क्रतुत्वेनागमनभानाच्च संशयमाह -
इयमिति ।
विद्याफलार्थे देवयाने पथि गन्तृविशेषोक्त्या पादादिसङ्गतिः । पूर्वपक्षे सर्वेषूपासनेष्वनियमन्यायाद्विकारालम्बनेषु विशेषासिद्धिः ।
सिद्धान्ते प्रतीकोपासनातिरिक्तेषु तत्क्रतुन्यायाद्विशेषसिद्धिरिति मत्वा विमृश्य पूर्वपक्षयति -
किं तावदिति ।
परस्माद्ब्रह्मणोऽन्यत्रेति कार्यब्रह्मोक्तिः । तत्र गुणोपसंहारस्थानियमाधिकरणन्यायं हेतुत्वेन स्मारयति -
तथाहीति ।
प्रतीकालम्बनानामपि पितृयाणतृतीयस्थानासम्बन्धित्वात्प्रतीकविशेषत्वेन ब्रह्मणोऽपि तैर्ध्यातत्वाद्ये वै के चेत्यादिवाक्येन च तेषां ग्रहादेतान्ब्रह्म गमयतीत्येतच्छब्देन तेषामपि परामर्शसिद्धेर्विद्यान्तरेषु च गतेरवतारितत्वादविशेषेणामानवः पुरुष एतान्सर्वानेव विकारालम्बनान्ब्रह्मलोकं नयतीति प्राप्तमित्यर्थः ।
पूर्वपक्षमनुभाष्य सिद्धान्तप्रतिज्ञामवतार्य व्याकरोति -
एवमिति ।
आश्रयान्तरप्रत्ययस्याश्रयान्तरे क्षेपो हि प्रतीको यथा ‘नाम ब्रह्म’ इत्यादौ नामादिषु ब्रह्माश्रयस्य प्रत्ययस्य प्रक्षेपः । तदालम्बनाः प्रताकालम्बनास्तान्विहाय विकारालम्बनान्सगुणविद्यावतः सर्वानिति यावत् ।
यत्त्वनियमन्यायादविशेषेण सर्वेषां विकारालम्बनानामेषां गतिरिति तद्दूषयन्नुभयथाऽदोषादित्येतद्व्याचष्टे -
नहीति ।
प्रतीकाम्बनान्न नयति विकारालम्बनांस्तु नयतीत्युभयथात्वोपगमे सत्यनियमः, सर्वासामिति न्यायस्य न कश्चिद्दोषः सर्वशब्दस्य प्रतीकालम्बनातिरिक्तविषयत्वसिद्धेरित्यर्थः ।
तत्क्रतुश्चेति पदं पदान्तराध्याहारेण व्याकरोति -
तत्क्रतुरिति ।
तस्य हेतुत्वं साधयति -
यो हीति ।
तत्र मानमाह -
तमिति ।
प्रतीकालम्बनैरपि तद्विशेषणत्वेन ब्रह्म ध्यातमित्युक्तमित्याशङ्क्याह -
न त्विति ।
ब्रह्मदृष्ट्या नामादीनामेव प्रतीकानां प्राधान्येनानुचिन्तनान्न प्रतीकालम्बनानां ब्रह्मक्रतुत्वमित्यर्थः ।
तत्क्रतुस्तद्भवतीति न्यायस्य व्यभिचारं शङ्कते -
नन्विति ।
न्यायस्यौत्सर्गिकत्वऽपि विशेषवचनादपवादः, तत्राह -
भवत्विति ।
आहत्यवादः साक्षादपवादकः ॥ १५ ॥