ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःतृतीयः पादः
न्यायनिर्णयव्याख्या
 
अप्रतीकालम्बनान्नयतीति बादरायण उभयथाऽदोषात्तत्क्रतुश्च ॥ १५ ॥
स्थितमेतत्कार्यविषया गतिः, परविषयेतिइदमिदानीं सन्दिह्यतेकिं सर्वान्विकारालम्बनान् अविशेषेणैव अमानवः पुरुषः प्रापयति ब्रह्मलोकम् , उत कांश्चिदेवेतिकिं तावत्प्राप्तम् ? सर्वेषामेव एषां विदुषाम् अन्यत्र परस्माद्ब्रह्मणः गतिः स्यात्तथा हि अनियमः सर्वासाम्’ (ब्र. सू. ३ । ३ । ३१) इत्यत्र अविशेषेणैव एषा विद्यान्तरेष्ववतारितेतिएवं प्राप्ते, प्रत्याहअप्रतीकालम्बनानितिप्रतीकालम्बनान्वर्जयित्वा सर्वानन्यान्विकारालम्बनान् नयति ब्रह्मलोकम्इति बादरायण आचार्यो मन्यते हि एवम् उभयथाभावाभ्युपगमे कश्चिद्दोषोऽस्ति, अनियमन्यायस्य प्रतीकव्यतिरिक्तेष्वप्युपासनेषूपपत्तेःतत्क्रतुश्च अस्य उभयथाभावस्य समर्थको हेतुर्द्रष्टव्यःयो हि ब्रह्मक्रतुः, ब्राह्ममैश्वर्यमासीदेत्इति श्लिष्यते, ‘तं यथा यथोपासते तदेव भवतिइति श्रुतेः, तु प्रतीकेषु ब्रह्मक्रतुत्वमस्ति, प्रतीकप्रधानत्वादुपासनस्यननु, अब्रह्मक्रतुरपि ब्रह्म गच्छतीति श्रूयते; यथा पञ्चाग्निविद्यायाम् एनान्ब्रह्म गमयति’ (छा. उ. ४ । १५ । ५) इति ; भवतु यत्र एवम् आहत्यवाद उपलभ्यतेतदभावे तु औत्सर्गिकेण तत्क्रतुन्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिः, इतरेषाम्इति गम्यते ॥ १५ ॥

गन्तव्यविशेषोक्त्यनन्तरं गन्तृविशेषोक्त्यर्थमाह -

अप्रतीकालम्बनानिति ।

सम्बन्धं वक्तुं वृत्तं कीर्तयति -

स्थितमिति ।

अमानवपुरुषं विषयीकृत्याविशेषश्रुतेस्तत्क्रतुत्वेनागमनभानाच्च संशयमाह -

इयमिति ।

विद्याफलार्थे देवयाने पथि गन्तृविशेषोक्त्या पादादिसङ्गतिः । पूर्वपक्षे सर्वेषूपासनेष्वनियमन्यायाद्विकारालम्बनेषु विशेषासिद्धिः ।

सिद्धान्ते प्रतीकोपासनातिरिक्तेषु तत्क्रतुन्यायाद्विशेषसिद्धिरिति मत्वा विमृश्य पूर्वपक्षयति -

किं तावदिति ।

परस्माद्ब्रह्मणोऽन्यत्रेति कार्यब्रह्मोक्तिः । तत्र गुणोपसंहारस्थानियमाधिकरणन्यायं हेतुत्वेन स्मारयति -

तथाहीति ।

प्रतीकालम्बनानामपि पितृयाणतृतीयस्थानासम्बन्धित्वात्प्रतीकविशेषत्वेन ब्रह्मणोऽपि तैर्ध्यातत्वाद्ये वै के चेत्यादिवाक्येन च तेषां ग्रहादेतान्ब्रह्म गमयतीत्येतच्छब्देन तेषामपि परामर्शसिद्धेर्विद्यान्तरेषु च गतेरवतारितत्वादविशेषेणामानवः पुरुष एतान्सर्वानेव विकारालम्बनान्ब्रह्मलोकं नयतीति प्राप्तमित्यर्थः ।

पूर्वपक्षमनुभाष्य सिद्धान्तप्रतिज्ञामवतार्य व्याकरोति -

एवमिति ।

आश्रयान्तरप्रत्ययस्याश्रयान्तरे क्षेपो हि प्रतीको यथा ‘नाम ब्रह्म’ इत्यादौ नामादिषु ब्रह्माश्रयस्य प्रत्ययस्य प्रक्षेपः । तदालम्बनाः प्रताकालम्बनास्तान्विहाय विकारालम्बनान्सगुणविद्यावतः सर्वानिति यावत् ।

यत्त्वनियमन्यायादविशेषेण सर्वेषां विकारालम्बनानामेषां गतिरिति तद्दूषयन्नुभयथाऽदोषादित्येतद्व्याचष्टे -

नहीति ।

प्रतीकाम्बनान्न नयति विकारालम्बनांस्तु नयतीत्युभयथात्वोपगमे सत्यनियमः, सर्वासामिति न्यायस्य न कश्चिद्दोषः सर्वशब्दस्य प्रतीकालम्बनातिरिक्तविषयत्वसिद्धेरित्यर्थः ।

तत्क्रतुश्चेति पदं पदान्तराध्याहारेण व्याकरोति -

तत्क्रतुरिति ।

तस्य हेतुत्वं साधयति -

यो हीति ।

तत्र मानमाह -

तमिति ।

प्रतीकालम्बनैरपि तद्विशेषणत्वेन ब्रह्म ध्यातमित्युक्तमित्याशङ्क्याह -

न त्विति ।

ब्रह्मदृष्ट्या नामादीनामेव प्रतीकानां प्राधान्येनानुचिन्तनान्न प्रतीकालम्बनानां ब्रह्मक्रतुत्वमित्यर्थः ।

तत्क्रतुस्तद्भवतीति न्यायस्य व्यभिचारं शङ्कते -

नन्विति ।

न्यायस्यौत्सर्गिकत्वऽपि विशेषवचनादपवादः, तत्राह -

भवत्विति ।

आहत्यवादः साक्षादपवादकः ॥ १५ ॥