ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
मुक्तः प्रतिज्ञानात् ॥ २ ॥
योऽत्र अभिनिष्पद्यत इत्युक्तः, सर्वबन्धविनिर्मुक्तः शुद्धेनैव आत्मना अवतिष्ठतेपूर्वत्र तु — ‘अन्धो भवति’ ‘अपि रोदितीव’ ‘विनाशमेवापीतो भवति’ — इति अवस्थात्रयकलुषितेन आत्मनाइत्ययं विशेषःकथं पुनरवगम्यतेमुक्तोऽयमिदानीं भवतीति ? प्रतिज्ञानादित्याहतथा हिएतं त्वेव ते भूयोऽनुव्याख्यास्यामि’ (छा. उ. ८ । ९ । ३) इति अवस्थात्रयदोषविहीनम् आत्मानम् व्याख्येयत्वेन प्रतिज्ञाय, अशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इति उपन्यस्य, स्वेन रूपेणाभिनिष्पद्यते उत्तमः पुरुषः’ (छा. उ. ८ । १२ । ३) इति उपसंहरतितथा आख्यायिकोपक्रमेऽपि आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादि मुक्तात्मविषयमेव प्रतिज्ञानम्फलत्वप्रसिद्धिरपि मोक्षस्य बन्धनिवृत्तिमात्रापेक्षा, अपूर्वोपजननापेक्षायदपि अभिनिष्पद्यत इत्युत्पत्तिपर्यायत्वम् , तदपि पूर्वावस्थापेक्षम्यथा रोगनिवृत्तौ अरोगोऽभिनिष्पद्यत इति, तद्वत्तस्माददोषः ॥ २ ॥

सूत्रस्थं मुक्तशब्दं योजयति -

योऽत्रेति ।

पूर्वत्रापि वस्तुतोऽस्यैवम्भूतत्वान्न विशेषसिद्धिरित्याशङ्क्यावस्थात्रयेऽपि यथाक्रमं व्यावहारिकरूपेणासदृशत्वमाह -

पूर्वत्रेति ।

जागरिते पुत्रादावहंममाभिमानादन्धवत्परवशो भवति स्वप्ने तन्नाशदृष्ट्या वासनामयं रोदनाद्यनुभवति सुषुप्ते विशेषज्ञानशून्यश्चिद्धातुरज्ञानमात्रपरवशस्तिष्ठतीत्यवस्थात्रयेण बन्धापरनाम्ना कालुष्येण दूषितं यदात्मरूपं तेनात्मा संसारदशायामवतिष्ठते मोक्षे तु निर्मृष्टनिखिलदुःखानुषङ्गप्रद्योतमानपरिशुद्धपरमानन्दरूपेणेति विशेष इत्यर्थः ।

सूत्रावयवं शङ्कापूर्वकमादत्ते -

कथमिति ।

प्रतिज्ञातमेव प्रकटयति -

तथाहीति ।

प्रकृतोपयोगिप्रतिज्ञान्तरमाह -

तथेति ।

फलत्वादागन्तुकत्वं मुक्तेरुक्तं, तत्राह -

फलत्वेति ।

शब्दसामर्थ्यात्तदागन्तुकत्वमुक्तमनूद्य दूषयति -

यदपीति ।

हेतोरन्यथासिद्धत्वे शब्दस्य चौपचारिकत्वे मुक्तेरनागन्तुकत्वं युक्तमित्युपसंहरति -

तस्मादिति ॥ २ ॥