ज्योतिरुपसम्पन्नस्य मुक्तत्वायोगमाशङ्क्य परिहरति -
आत्मेति ।
सूत्रव्यावर्त्यमाह -
कथमिति ।
कार्यगोचरत्वे हेतुमाह -
ज्योतिःशब्दस्येति ।
ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति पौर्वापर्यश्रुतेर्मुक्तेरन्या ज्योतिःसम्पत्तिरित्याशङ्क्य तदुपसम्पद्य तत्त्यक्त्वा स्वेनाभिनिष्पत्तिरित्यश्रवणादध्याहारे च तदुपसम्पद्येत्युक्तिवैयर्थ्याज्ज्योतिषो भूतत्वेन कार्यत्वादत्यागे कुतो मुक्तिरित्याह -
नचेति ।
विकारगोचरस्यापि मुक्तत्वमाशङ्क्याथ यदल्पं तन्मर्त्यमित्यादिश्रुतिमाश्रित्याह -
विकारस्येति ।
चोद्योत्तरत्वेन सूत्रं योजयति -
नेत्यादिना ।
प्रकरणमेव दर्शयति -
य आत्मेति ।
अकस्मात्प्रकरणविच्छेदं विनेति यावत् ।
प्रकरणादपि प्रयोगाभावे कथमात्मार्थो ज्योतिःशब्दः, तत्राह -
ज्योतिःशब्द इति ।
अत्रापेक्षितं न्यायं पूर्वोक्तं सूचयन्पुनरुक्तिं प्रत्याह -
प्रपञ्चितं चेति ॥ ३ ॥