ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
आत्मा प्रकरणात् ॥ ३ ॥
कथं पुनर्मुक्त इत्युच्यते, यावता परं ज्योतिरुपसम्पद्य’ (छा. उ. ८ । १२ । ३) इति कार्यगोचरमे एनं श्रावयति, ज्योतिःशब्दस्य भौतिके ज्योतिषि रूढत्वात् ? अनतिवृत्तो विकारविषयात् कश्चिन्मुक्तो भवितुमर्हति, विकारस्य आर्तत्वप्रसिद्धेरितिनैष दोषः, यतः आत्मैवात्र ज्योतिःशब्देन आवेद्यते, प्रकरणात् आत्मापहतपाप्मा विजरो विमृत्युः’ (छा. उ. ८ । ७ । १) इति हि प्रकृते परस्मिन्नात्मनि अकस्माद्भौतिकं ज्योतिः शक्यं ग्रहीतुम् , प्रकृतहानाप्रकृतप्रक्रियाप्रसङ्गात्ज्योतिःशब्दस्तु आत्मन्यपि दृश्यतेतद्देवा ज्योतिषां ज्योतिः’ (बृ. उ. ४ । ४ । १६) इतिप्रपञ्चितं एतत् ज्योतिर्दर्शनात्’ (ब्र. सू. १ । ३ । ४०) इत्यत्र ॥ ३ ॥

ज्योतिरुपसम्पन्नस्य मुक्तत्वायोगमाशङ्क्य परिहरति -

आत्मेति ।

सूत्रव्यावर्त्यमाह -

कथमिति ।

कार्यगोचरत्वे हेतुमाह -

ज्योतिःशब्दस्येति ।

ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत इति पौर्वापर्यश्रुतेर्मुक्तेरन्या ज्योतिःसम्पत्तिरित्याशङ्क्य तदुपसम्पद्य तत्त्यक्त्वा स्वेनाभिनिष्पत्तिरित्यश्रवणादध्याहारे च तदुपसम्पद्येत्युक्तिवैयर्थ्याज्ज्योतिषो भूतत्वेन कार्यत्वादत्यागे कुतो मुक्तिरित्याह -

नचेति ।

विकारगोचरस्यापि मुक्तत्वमाशङ्क्याथ यदल्पं तन्मर्त्यमित्यादिश्रुतिमाश्रित्याह -

विकारस्येति ।

चोद्योत्तरत्वेन सूत्रं योजयति -

नेत्यादिना ।

प्रकरणमेव दर्शयति -

य आत्मेति ।

अकस्मात्प्रकरणविच्छेदं विनेति यावत् ।

प्रकरणादपि प्रयोगाभावे कथमात्मार्थो ज्योतिःशब्दः, तत्राह -

ज्योतिःशब्द इति ।

अत्रापेक्षितं न्यायं पूर्वोक्तं सूचयन्पुनरुक्तिं प्रत्याह -

प्रपञ्चितं चेति ॥ ३ ॥