सूत्रस्थं मुक्तशब्दं योजयति -
योऽत्रेति ।
पूर्वत्रापि वस्तुतोऽस्यैवम्भूतत्वान्न विशेषसिद्धिरित्याशङ्क्यावस्थात्रयेऽपि यथाक्रमं व्यावहारिकरूपेणासदृशत्वमाह -
पूर्वत्रेति ।
जागरिते पुत्रादावहंममाभिमानादन्धवत्परवशो भवति स्वप्ने तन्नाशदृष्ट्या वासनामयं रोदनाद्यनुभवति सुषुप्ते विशेषज्ञानशून्यश्चिद्धातुरज्ञानमात्रपरवशस्तिष्ठतीत्यवस्थात्रयेण बन्धापरनाम्ना कालुष्येण दूषितं यदात्मरूपं तेनात्मा संसारदशायामवतिष्ठते मोक्षे तु निर्मृष्टनिखिलदुःखानुषङ्गप्रद्योतमानपरिशुद्धपरमानन्दरूपेणेति विशेष इत्यर्थः ।
सूत्रावयवं शङ्कापूर्वकमादत्ते -
कथमिति ।
प्रतिज्ञातमेव प्रकटयति -
तथाहीति ।
प्रकृतोपयोगिप्रतिज्ञान्तरमाह -
तथेति ।
फलत्वादागन्तुकत्वं मुक्तेरुक्तं, तत्राह -
फलत्वेति ।
शब्दसामर्थ्यात्तदागन्तुकत्वमुक्तमनूद्य दूषयति -
यदपीति ।
हेतोरन्यथासिद्धत्वे शब्दस्य चौपचारिकत्वे मुक्तेरनागन्तुकत्वं युक्तमित्युपसंहरति -
तस्मादिति ॥ २ ॥