ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ५ ॥
स्थितमेतत् स्वेन रूपेण’ (छा. उ. ८ । ३ । ४) इत्यत्रआत्ममात्ररूपेणाभिनिष्पद्यते, आगन्तुकेनापररूपेणेतिअधुना तु तद्विशेषबुभुत्सायामभिधीयतेस्वम् अस्य रूपं ब्राह्मम् अपहतपाप्मत्वादिसत्यसङ्कल्पत्वावसानं तथा सर्वज्ञत्वं सर्वेश्वरत्वं , तेन स्वेन रूपेणाभिनिष्पद्यत इति जैमिनिराचार्यो मन्यतेकुतः ? उपन्यासादिभ्यस्तथात्वावगमात्; तथा हि आत्मापहतपाप्मा’ (छा. उ. ८ । ७ । १) इत्यादिना सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) इत्येवमन्तेन उपन्यासेन एवमात्मकतामात्मनो बोधयतितथा तत्र पर्येति जक्षत्क्रीडरममाणः’ (छा. उ. ८ । १२ । ३) इति ऐश्वर्यरूपमावेदयति, तस्य सर्वेषु लोकेषु कामचारो भवति’ (छा. उ. ७ । २५ । २) इति । ‘सर्वज्ञः सर्वेश्वरःइत्यादिव्यपदेशाश्च एवमुपपन्ना भविष्यन्तीति ॥ ५ ॥

ब्रह्मात्मतां प्राप्तस्यापि जीवस्य सप्रपञ्चत्वं चोदयति -

ब्राह्मेणेति ।

वृत्तं कीर्तयति -

स्थितमिति ।

विषयसंशयौ दर्शयति -

अधुनेति ।

येन च ब्रह्मरूपेण मुक्तस्यावस्थानं तत्किं सप्रपञ्चमेव किंवा निष्प्रपञ्चमेवाथ वोभयरूपमिति विप्रतिपत्तेः संशये ब्रह्मणो मुक्तोपसृप्यस्य दृष्टिद्वयमाश्रित्योभयरूपत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे सप्रपञ्चत्वश्रुतीनां वा निष्प्रपञ्चत्वश्रुतीनां वा मुख्यार्थत्वसिद्धिः ।

सिद्धान्ते द्विविधश्रुतीनां दृष्टिद्वयावष्टम्भान्मुख्यार्थत्वोपपत्तिरित्युपेत्य पूर्वपक्षयति -

अभिधीयत इति ।

उपन्यासेन ब्रह्मणः सप्रपञ्चत्वसिद्धिं विवृणोति -

तथाहीति ।

उपन्यासो नामोद्देशः स चान्यत्र ज्ञातस्यान्यविधानायानुवादः ।

आदिशब्दार्थं विधिं दर्शयति -

तथेति ।

अज्ञातज्ञापनं विधिः ।

आदिशब्देनोक्तं व्यपदेशमाह -

सर्वज्ञ इति ।

विधेयान्तररहितत्वेनानुद्देश्यस्याप्रतिपाद्यत्वेनाविधेयस्य च सिद्धवदभिधानं व्यपदेशः ॥ ५ ॥