ब्रह्मात्मतां प्राप्तस्यापि जीवस्य सप्रपञ्चत्वं चोदयति -
ब्राह्मेणेति ।
वृत्तं कीर्तयति -
स्थितमिति ।
विषयसंशयौ दर्शयति -
अधुनेति ।
येन च ब्रह्मरूपेण मुक्तस्यावस्थानं तत्किं सप्रपञ्चमेव किंवा निष्प्रपञ्चमेवाथ वोभयरूपमिति विप्रतिपत्तेः संशये ब्रह्मणो मुक्तोपसृप्यस्य दृष्टिद्वयमाश्रित्योभयरूपत्वोक्त्या पादादिसङ्गतिः । पूर्वपक्षे सप्रपञ्चत्वश्रुतीनां वा निष्प्रपञ्चत्वश्रुतीनां वा मुख्यार्थत्वसिद्धिः ।
सिद्धान्ते द्विविधश्रुतीनां दृष्टिद्वयावष्टम्भान्मुख्यार्थत्वोपपत्तिरित्युपेत्य पूर्वपक्षयति -
अभिधीयत इति ।
उपन्यासेन ब्रह्मणः सप्रपञ्चत्वसिद्धिं विवृणोति -
तथाहीति ।
उपन्यासो नामोद्देशः स चान्यत्र ज्ञातस्यान्यविधानायानुवादः ।
आदिशब्दार्थं विधिं दर्शयति -
तथेति ।
अज्ञातज्ञापनं विधिः ।
आदिशब्देनोक्तं व्यपदेशमाह -
सर्वज्ञ इति ।
विधेयान्तररहितत्वेनानुद्देश्यस्याप्रतिपाद्यत्वेनाविधेयस्य च सिद्धवदभिधानं व्यपदेशः ॥ ५ ॥