ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
सङ्कल्पादेव तु तच्छ्रुतेः ॥ ८ ॥
हार्दविद्यायां श्रूयते यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ (छा. उ. ८ । २ । १) इत्यादितत्र संशयःकिं सङ्कल्प एव केवलः पित्रादिसमुत्थाने हेतुः, उत निमित्तान्तरसहित इतितत्र सत्यपिसङ्कल्पादेवइति श्रवणे लोकवत् निमित्तान्तरापेक्षा युक्तायथा लोके अस्मदादीनां सङ्कल्पात् गमनादिभ्यश्च हेतुभ्यः पित्रादिसम्पत्तिर्भवति एवं मुक्तस्यापि स्यात्एवं दृष्टविपरीतं कल्पितं भविष्यति । ‘सङ्कल्पादेवइति तु राज्ञ इव सङ्कल्पितार्थसिद्धिकरीं साधनान्तरसामग्रीं सुलभामपेक्ष्य उच्यते सङ्कल्पमात्रसमुत्थानाः पित्रादयः मनोरथविजृम्भितवत् चञ्चलत्वात् पुष्कलं भोगं समर्पयितुं पर्याप्ताः स्युरितिएवं प्राप्ते, ब्रूमःसङ्कल्पादेव तु केवलात् पित्रादिसमुत्थानमितिकुतः ? तच्छ्रुतेःसङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति’ (छा. उ. ८ । २ । १) इत्यादिका हि श्रुतिर्निमित्तान्तरापेक्षायां पीड्येतनिमित्तान्तरमपि तु यदि सङ्कल्पानुविधाय्येव स्यात् , भवतु; तु प्रयत्नान्तरसम्पाद्यं निमित्तान्तरमितीष्यते, प्राक्तत्सम्पत्तेः वन्ध्यसङ्कल्पत्वप्रसङ्गात् श्रुत्यवगम्येऽर्थे लोकवदिति सामान्यतो दृष्टं क्रमतेसङ्कल्पबलादेव एषां यावत्प्रयोजनं स्थैर्योपपत्तिः, प्राकृतसङ्कल्पविलक्षणत्वान्मुक्तसङ्कल्पस्य ॥ ८ ॥

पूर्वाधिकरणेषु परविद्याफलमभिधायापरविद्याफलं प्रपञ्चयितुमधुनोपक्रमते -

सङ्कल्पादिति ।

विषयं वक्तुं वाक्यमुदाहरति -

हार्देति ।

एवकारस्यायोगान्ययोगव्यवच्छेदसाधारणतया सङ्कल्पं विषयीकृत्व संशयमाह -

तत्रेति ।

अत्र च सगुणब्रह्मविदो ब्रह्मभूतस्य विभूतिनिर्माणसाधननिरूपणात्पादादिसङ्गतिः ।

पूर्वपक्षे लोकवृत्तानुसारि चरणं सिद्धान्ते श्रुतिवृत्तानुसारि चरणमित्यभिप्रेत्यावधारणश्रुत्या सङ्कल्पस्य निरपेक्षत्वसिद्ध्या पूर्वपक्षानुत्थानमाशङ्क्याह -

तत्रेति ।

लोकवदित्युक्तं विवृणोति -

यथेति ।

मुक्तस्य पित्रादिभोगहेतुसम्पत्तिः सङ्कल्पातिरिक्तयत्नादिसापेक्षा भोगहेतुसम्पत्तित्वादस्मदादिभोगहेतुसम्पत्तिवदिति मत्वा दार्ष्टान्तिकमाह -

एवमिति ।

अनुमानफलमाह -

एवं दृष्टेति ।

लोकवृत्तानुसारेण श्रुतेरर्थवत्त्वसिद्धावेव तद्विपरीतं न कल्प्यमिह त्ववधारणस्य तदनुसरणे सत्यर्थवत्त्वमेव न स्यादित्याशङ्क्याह -

सङ्कल्पादिति ।

पित्रादेः सङ्कल्पमात्रजन्यत्वे मनोरथविजृम्भितस्त्रीपुत्रादिवदर्थक्रियासामर्थ्याभावादपि सङ्कल्पातिरिक्तसाधनापेक्षा वक्तव्येत्याह -

नचेति ।

मनोरथनिर्मितादपि हर्षादिकार्यं दृष्टमित्याशङ्क्य ज्ञानमात्रसाध्यकार्यसत्त्वेऽपि ज्ञेयवस्तुसाध्यं कार्यं तत्र नास्तीत्याह -

पुष्कलमिति ।

सङ्कल्पस्य यत्नादिसापेक्षस्यैव पित्रादिनिर्माणहेतुतेत्येतदनूद्य सिद्धान्तसूत्रमवतार्य व्याकरोति -

एवमिति ।

सङ्कल्पस्य यत्नसापेक्षत्वेऽनुमानस्योक्तत्वान्न तस्य केवलस्य पित्राद्युद्भवहेतुतेति शङ्कते -

कुत इति ।

श्रुतिविरुद्धतया कालात्ययापदिष्टमनुमानमित्याह -

तच्छ्रुतेरिति ।

किञ्च निमित्तान्तरमपि सङ्कल्पायत्तं वा यत्नान्तरसाध्यं वा, तत्राद्यमङ्गीकृत्य द्वितीयं दूषयति -

निमित्तान्तरमिति ।

तस्य यत्नाद्यपेक्षस्य सङ्कल्पापेक्षया विलम्बितोत्पत्तिकत्वात्प्राक्तदुत्पत्तेर्विदुषो मोघसङ्कल्पत्वं स्यात्ततश्च द्वितीयस्यायुक्ततेत्याह -

प्रागिति ।

यत्तु लोकवन्निमित्तान्तरापेक्षेति, तत्राह -

नचेति ।

यदपि मनोरथविजृम्भितवदतिचञ्चलत्वान्न भोगसाधनत्वं, सङ्कल्पप्रसूतानां पित्रादीनामिति, तत्राह -

सङ्कल्पेति ।

अस्मदादिसङ्कल्पितेष्वदृष्टं स्थैर्यं कथं मुक्तसङ्कल्पितेषु कल्प्यते, तत्राह -

प्राकृतेति ॥ ८ ॥