पूर्वाधिकरणेषु परविद्याफलमभिधायापरविद्याफलं प्रपञ्चयितुमधुनोपक्रमते -
सङ्कल्पादिति ।
विषयं वक्तुं वाक्यमुदाहरति -
हार्देति ।
एवकारस्यायोगान्ययोगव्यवच्छेदसाधारणतया सङ्कल्पं विषयीकृत्व संशयमाह -
तत्रेति ।
अत्र च सगुणब्रह्मविदो ब्रह्मभूतस्य विभूतिनिर्माणसाधननिरूपणात्पादादिसङ्गतिः ।
पूर्वपक्षे लोकवृत्तानुसारि चरणं सिद्धान्ते श्रुतिवृत्तानुसारि चरणमित्यभिप्रेत्यावधारणश्रुत्या सङ्कल्पस्य निरपेक्षत्वसिद्ध्या पूर्वपक्षानुत्थानमाशङ्क्याह -
तत्रेति ।
लोकवदित्युक्तं विवृणोति -
यथेति ।
मुक्तस्य पित्रादिभोगहेतुसम्पत्तिः सङ्कल्पातिरिक्तयत्नादिसापेक्षा भोगहेतुसम्पत्तित्वादस्मदादिभोगहेतुसम्पत्तिवदिति मत्वा दार्ष्टान्तिकमाह -
एवमिति ।
अनुमानफलमाह -
एवं दृष्टेति ।
लोकवृत्तानुसारेण श्रुतेरर्थवत्त्वसिद्धावेव तद्विपरीतं न कल्प्यमिह त्ववधारणस्य तदनुसरणे सत्यर्थवत्त्वमेव न स्यादित्याशङ्क्याह -
सङ्कल्पादिति ।
पित्रादेः सङ्कल्पमात्रजन्यत्वे मनोरथविजृम्भितस्त्रीपुत्रादिवदर्थक्रियासामर्थ्याभावादपि सङ्कल्पातिरिक्तसाधनापेक्षा वक्तव्येत्याह -
नचेति ।
मनोरथनिर्मितादपि हर्षादिकार्यं दृष्टमित्याशङ्क्य ज्ञानमात्रसाध्यकार्यसत्त्वेऽपि ज्ञेयवस्तुसाध्यं कार्यं तत्र नास्तीत्याह -
पुष्कलमिति ।
सङ्कल्पस्य यत्नादिसापेक्षस्यैव पित्रादिनिर्माणहेतुतेत्येतदनूद्य सिद्धान्तसूत्रमवतार्य व्याकरोति -
एवमिति ।
सङ्कल्पस्य यत्नसापेक्षत्वेऽनुमानस्योक्तत्वान्न तस्य केवलस्य पित्राद्युद्भवहेतुतेति शङ्कते -
कुत इति ।
श्रुतिविरुद्धतया कालात्ययापदिष्टमनुमानमित्याह -
तच्छ्रुतेरिति ।
किञ्च निमित्तान्तरमपि सङ्कल्पायत्तं वा यत्नान्तरसाध्यं वा, तत्राद्यमङ्गीकृत्य द्वितीयं दूषयति -
निमित्तान्तरमिति ।
तस्य यत्नाद्यपेक्षस्य सङ्कल्पापेक्षया विलम्बितोत्पत्तिकत्वात्प्राक्तदुत्पत्तेर्विदुषो मोघसङ्कल्पत्वं स्यात्ततश्च द्वितीयस्यायुक्ततेत्याह -
प्रागिति ।
यत्तु लोकवन्निमित्तान्तरापेक्षेति, तत्राह -
नचेति ।
यदपि मनोरथविजृम्भितवदतिचञ्चलत्वान्न भोगसाधनत्वं, सङ्कल्पप्रसूतानां पित्रादीनामिति, तत्राह -
सङ्कल्पेति ।
अस्मदादिसङ्कल्पितेष्वदृष्टं स्थैर्यं कथं मुक्तसङ्कल्पितेषु कल्प्यते, तत्राह -
प्राकृतेति ॥ ८ ॥