ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
अत एव चानन्याधिपतिः ॥ ९ ॥
अत एव अवन्ध्यसङ्कल्पत्वात् अनन्याधिपतिर्विद्वान्भवतिनास्यान्योऽधिपतिर्भवतीत्यर्थः हि प्राकृतोऽपि सङ्कल्पयन् अन्यस्वामिकत्वमात्मनः सत्यां गतौ सङ्कल्पयतिश्रुतिश्चैतद्दर्शयतिअथ इहात्मानमनुविद्य व्रजन्त्येताꣳश्च सत्यान्कामाꣳस्तेषाꣳ सर्वेषु लोकेषु कामचारो भवति’ (छा. उ. ८ । १ । ६) इति ॥ ९ ॥

विदुषः सत्यसङ्कल्पत्वे लाभान्तरमाह -

अत इति ।

उपासितुरीश्वराधीनो भोगो न सङ्कल्पमात्राद्भवितुमलमित्याशङ्क्य सूत्रं व्याकरोति -

अत एवेति ।

सत्यसङ्कल्पत्वेऽपि कथमीश्वराधीनत्वं विदुषो नेष्यते, तत्राह -

नहीति ।

ईश्वरप्रसादाद्भोगः स्यादित्यपि प्रार्थयमानो जनो दृश्यत इत्याशङ्क्याह -

सत्यामिति ।

विदुषोऽनन्याधीनमैश्वर्यमस्तीत्यत्र मानमाह -

श्रुतिश्चेति ।

विद्यानुवादद्वारा तत्फलोक्त्यारम्भार्थोऽथशब्दः ॥ ९ ॥