विदुषो ब्रह्मीभूतस्य सप्रपञ्चत्वनिष्प्रपञ्चत्वयोर्व्यावहारिकतात्त्विकताभ्यां व्यवस्थामुक्त्वा सङ्कल्पातिरिक्तसाधनभावाभावयोरेकोपाधावापाततो विरोधाल्लोकसिद्धपदपदार्थापेक्षायाः श्रुतेर्लौकिकादनुमानाद्बाध इति पूर्वपक्षयित्वा पदपदार्थधीमात्रेण श्रुतेरपेक्षायामपि वाक्यार्थबोधने तदभावाद्विमतो यत्नाद्यनपेक्षसङ्कल्पजन्यो योगजन्यसामर्थ्यदृष्टत्वादगस्त्यकृतसमुद्रपानवदित्यनुमानानुगृहीतश्रुत्या बाधितत्वादनुमानस्य सङ्कल्पमात्रसिद्ध्या विदुषो भोगहेतुसिद्धिरित्युक्तम् । संप्रत्यवधारणादन्ययोगव्यवच्छेदेन सङ्कल्पस्यैव पित्रादिसाधनत्ववदिहापि मनसेति विशेषणस्यान्ययोगव्यवच्छेदकत्वेनावधारणार्थत्वाद्विदुषो देहाद्यभाव इति पूर्वपक्षयति -
अभावमिति ।
मनसः सद्भावोऽपि किमिति विदुषो न विचार्यते, तत्राह -
सङ्कल्पादेवेति ।
शरीरेन्द्रियाणि विषयस्तानि किं विद्यावतो मुक्तस्य सन्ति किंवा न सन्त्याहो सन्ति च न सन्ति चेति वादिविप्रतिपत्तेः संशयमाह -
शरीरेति ।
अत्र सगुणब्रह्मविदः सङ्कल्पादेव देहादिभावाभावयोरुक्त्या ब्रह्मधीफलविभूतेरुक्तेरस्ति पादादिसङ्गतिः । पूर्वपक्षे विशेषणश्रुतेरनेकधाभावश्रुतेर्वा मुख्यार्थत्वसिद्धिः ।
सिद्धान्ते द्वयोरपि श्रुत्योर्विदुषः सत्यसङ्कल्पत्वादेव मुख्यार्थत्वोपपत्तिरित्यङ्गीकृत्य पूर्वपक्षसूत्रं योजयति -
तत्रेति ।
सत्यामपि विप्रतिपत्तावभावनियमासिद्धिरिति शङ्कते -
कस्मादिति ।
विशेषणश्रुत्या परिहरति -
एवं हीति ।
पक्षान्तरेऽपि विशेषणमयोगव्यवच्छेदकत्वेन युक्तमित्याशङ्क्याह -
यदीति ।
अन्ययोगव्यवच्छेदाय मनसेतिविशेषणाद्वामेन पश्यतीत्यादाविवेतरव्यावृत्तिर्गम्यते । अयोगव्यवच्छेदे तु न तथा विशेषणमर्थवदित्यर्थः ।
विशेषणफलमुपसंहरति -
तस्मादिति ॥ १० ॥