पू्र्वपक्षान्तरमाह -
भावमिति ।
सूत्राक्षराणि योजयति -
जैमिनिस्त्विति ।
विकल्पामननं मनोभेदादेव किं न स्यादित्याशङ्क्याह -
नहीति ।
देहभेदाभावे मनोभेदस्यापि दुर्भणत्वान्न तद्भेदकृतं विकल्पामननमित्यर्थः । निर्गुणविद्याधिकारे पाठाद्विकल्पामननं स्तुतिरेवेत्याशङ्क्याह -
यद्यपीति ।
देहे प्रियादिभोगहीने निर्गुणज्ञाने स्तुतित्वेनानेकधात्वस्यान्वयेऽपि विशिष्टभोगसंसर्गयोग्ये दहराद्युपासने फलत्वेनान्वय इत्यर्थः । नच मनसेति विशेषणमन्ययोगव्यावर्तकं देहादि व्यवच्छिनत्तीति युक्तं चैत्रो धनुर्धर इतिवदयोगव्यवच्छेदेनापि तद्योगादिति भावः ॥ ११ ॥