सिद्धान्तयति -
उच्यत इति ।
सूत्रं व्याचष्टे -
बादरायण इति ।
मनसेतिविशेषणसामर्थ्यादेकधा भवति त्रिधा भवतीत्यादिविकल्पामननसामर्थ्याच्चेत्यतः शब्दार्थं स्फुटयति -
उभयेति ।
सशरीरत्वमशरीरत्वं चैकस्यैव विरुद्धमित्याशङ्क्य कालभेदादविरोधं दर्शयति -
यदा त्विति ।
इतिशब्दस्योभयविधत्वमिति पूर्वेण सम्बन्धः ।
विदुषः सङ्कल्पानुसारि कार्यमित्यत्र हेतुमाह -
सत्येति ।
कार्यवैचित्र्ये हेतुः -
सङ्कल्पेति ।
धनुर्धरत्वादि हि विशेषणं पाक्षिकप्राप्तविशेषपदयोगव्यवच्छेदकं युक्तं नहि चैत्रो धनुर्दधान एवावतिष्ठते । प्रकृते तु मनसैतानित्यादौ कामभोगेषु मनसो नित्यप्राप्तत्वात्तदनुवादेनान्ययोगनिवृत्त्यर्थतेत्याशङ्क्य दृष्टान्तमवतार्य व्याचष्टे -
द्वादशाहवदिति ।
तस्य बहुकर्तृकतया सत्रत्वे नियतकर्तृकतयाऽहीनत्वे च हेतुमाह -
उभयेति ।
द्वादशाहो हि यजमानबहुत्वादासनोपायनोपदेशाच्च सत्रं य एवंविद्वांसः सत्रमुपयन्तीत्युपायनचोदनादर्शनात्सप्तदशावराश्चतुर्विंशतिपरमाः सत्रमासीरन्नित्यासनचोदनायाश्च द्वादशाहाधिकारे दृष्टत्वादासनोपायनचोदनयोरन्यतरत्वस्य सत्रलक्षणत्वाद्द्वादशाहेन प्रजाकामं याजयेदिति यजतिचोदनादर्शनान्नियतकर्तृकत्वावगमाच्च द्विरात्रवदहीनत्वं चास्य गम्यते । तथेदमपि विदुषः सशरीरत्वमशरीरत्वं च द्विविधश्रुतिसिद्धं विचित्रसङ्कल्पनिबन्धनमविरुद्धमित्यर्थः ॥ १२ ॥