मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायः
चतुर्थः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
कथं
पुनः
मुक्तस्य
अनेकशरीरावेशादिलक्षणमैश्वर्यमभ्युपगम्यते
,
यावता
‘
तत्केन
कं
विजानीयात्
’ (बृ. उ. ४ । ५ । १५)
‘
न
तु
तद्द्वितीयमस्ति
ततोऽन्यद्विभक्तं
यद्विजानीयात्
’ (बृ. उ. ४ । ३ । ३०)
‘
सलिल
एको
द्रष्टाऽद्वैतो
भवति
’ (बृ. उ. ४ । ३ । ३२)
इति
च
एवंजातीयका
श्रुतिः
विशेषविज्ञानं
वारयति
—
इत्यत
उत्तरं
पठति
—
कथमिति
;
मुक्तस्य यथोक्तमैश्वर्यं विशेषज्ञाननिषेधकश्रुतिविरुद्धमिति शङ्कते -
कथमिति ।