ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ १६ ॥
स्वाप्ययः सुषुप्तम् , स्वमपीतो भवति तस्मादेनꣳ स्वपितीत्याचक्षते’ (छा. उ. ६ । ८ । १) इति श्रुतेःसम्पत्तिः कैवल्यम् , ब्रह्मैव सन्ब्रह्माप्येति’ (बृ. उ. ४ । ४ । ६) इति श्रुतेःतयोरन्यतरामवस्थामपेक्ष्य एतत् विशेषसंज्ञाऽभाववचनम्क्वचित् सुषुप्तावस्थामपेक्ष्योच्यते, क्वचित्कैवल्यावस्थाम्कथमवगम्यते ? यतस्तत्रैव एतदधिकारवशात् आविष्कृतम्एतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति प्रेत्य संज्ञास्तीति’ (बृ. उ. २ । ४ । १२), यत्र त्वस्य सर्वमात्मैवाभूत्’ (बृ. उ. २ । ४ । १४) यत्र सुप्तो कञ्चन कामं कामयते कञ्चन स्वप्नं पश्यति’ (बृ. उ. ४ । ३ । १९), इत्यादिश्रुतिभ्यःसगुणविद्याविपाकावस्थानं तु एतत् स्वर्गादिवत् अवस्थान्तरम् , यत्रैतदैश्वर्यमुपवर्ण्यतेतस्माददोषः ॥ १६ ॥

शङ्कोत्तरत्वेन सूत्रमवतारयति -

अत इति ।

प्रतिज्ञां व्याचष्टे -

स्वाप्यय इति ।

उक्तमेव व्यक्तीकर्तुं विभजते -

क्वचिदिति ।

तत्केन कमित्यादिकं वाक्यं क्वचिदित्युच्यते द्वितीयस्तु क्वचिच्छब्दः सलिलादिवाक्यगोचरः ।

हेतुभागमाकाङ्क्षाद्वारा व्याकरोति -

कथमित्यादिना ।

तत्रेत्युक्तवाक्यप्रकरणोक्तिः । तदधिकारः सुषुप्तिमोक्षयोरन्यतरस्य प्रकरणम् । तत्र समुत्थानवाक्यं यत्र सुप्तवाक्यं स्वापाधिकारविषयम् । यत्र त्वस्येति मोक्षाधिकारविषयमिति भेदः ।

विशेषज्ञानाभावाभिधानं सुप्तिमुक्त्योरन्यतराभिप्रायेणेत्युक्तम् । इदानीमैश्वर्याभिधानस्य सगुणविद्याविषयत्वेन भिन्नगोचरत्वान्न विरोधाशङ्केत्याह -

सगुणेति ।

कथं तर्हि सगुणविद्याफले मुक्तिशब्दप्रवृत्तिरित्याशङ्क्य सन्ध्यायां दिवाशब्दवत्प्रत्यासत्तिमात्रेणेति मत्वाह -

तस्मादिति ॥ १६ ॥