ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ १७ ॥
ये सगुणब्रह्मोपासनात् सहैव मनसा ईश्वरसायुज्यं व्रजन्ति, किं तेषां निरवग्रहमैश्वर्यं भवति, आहोस्वित्सावग्रहमिति संशयःकिं तावत्प्राप्तम् ? निरङ्कुशमेव एषामैश्वर्यं भवितुमर्हति, आप्नोति स्वाराज्यम्’ (तै. उ. १ । ६ । २) सर्वेऽस्मै देवा बलिमावहन्ति’ (तै. उ. १ । ५ । ३) तेषां सर्वेषु लोकेषु कामचारो भवति’ (छा. उ. ७ । २५ । २) इत्यादिश्रुतिभ्य इतिएवं प्राप्ते, पठतिजगद्व्यापारवर्जमितिजगदुत्पत्त्यादिव्यापारं वर्जयित्वा अन्यत् अणिमाद्यात्मकमैश्वर्यं मुक्तानां भवितुमर्हति, जगद्व्यापारस्तु नित्यसिद्धस्यैव ईश्वरस्यकुतः ? तस्य तत्र प्रकृतत्वात्; असन्निहितत्वाच्चेतरेषाम्पर एव हि ईश्वरो जगद्व्यापारेऽधिकृतः, तमेव प्रकृत्य उत्पत्त्याद्युपदेशात् , नित्यशब्दनिबन्धनत्वाच्चतदन्वेषणविजिज्ञासनपूर्वकं तु इतरेषामणिमाद्यैश्वर्यं श्रूयतेतेनासन्निहितास्ते जगद्व्यापारेसमनस्कत्वादे एतेषामनैकमत्ये, कस्यचित्स्थित्यभिप्रायः कस्यचित्संहाराभिप्राय इत्येवं विरोधोऽपि कदाचित्स्यात्अथ कस्यचित् सङ्कल्पमनु अन्यस्य सङ्कल्प इत्यविरोधः समर्थ्येत, ततः परमेश्वराकूततन्त्रत्वमेवेतरेषामिति व्यवतिष्ठते ॥ १७ ॥

मनोेदेहसर्गादावुत्सर्गतो यदैश्वर्यमुपासितुरुक्तं तस्य जगत्सर्गेऽप्रमाणादपवादं दर्शयति

जगदिति ।

अपरब्रह्मणा सायुज्यं गतानामैश्वर्यं विषयीकृत्य तस्योभयथादृष्ट्या संशयमाह -

ये सगुणेति ।

सगुणब्रह्मविद्याफलभूतैश्वर्यस्य निरतिशयत्वनिवारणात्पादादिसङ्गतिः । पूर्वपक्षे विद्वदैश्वर्यस्य निरङ्कुशत्वादीश्वरभेदादनेकमत्या जगदुत्पत्यादिव्यवस्थाऽसिद्धिः ।

सिद्धान्ते तद्भेदाभावात्परमेश्वराधीनतया जगदुदयादिव्यवस्थोपपत्तिरित्यभिप्रेत्य प्रश्नपूर्वकं पूर्वपक्षयति -

किं तावदिति ।

श्रुतीनां श्रुतार्थग्रहेण पूर्वपक्षयित्वा सिद्धान्तयति -

एवमिति ।

तत्र प्रतिज्ञां विभजते -

जगदिति ।

तत्र हेतुद्वयं प्रश्नपूर्वकमाह -

कुत इति ।

ईश्वरस्य नित्यसिद्धस्यैव जगदुत्पत्त्यादिव्यापार इत्यत्र प्रकरणादिति हेतुं विवृणोति -

पर इति ।

प्रलयादुत्थानकाले सर्वस्य जगतो यः कर्ता तस्यैव स्थित्यादावपि कर्तृत्वोक्तेरन्यस्य चादिसर्गे कर्तृत्वाभावादीश्वरस्यैव जगद्व्यापारे संनिधिरित्याह -

तमेवेति ।

किञ्च परस्यैव नित्यत्वेन स्वहेत्वनपेक्षणस्य क्लृप्तशक्तित्वाज्जगत्सर्जनं प्रति कल्प्यसामर्थ्यत्वाच्च विदुषामीश्वरविषयैव जगत्सृष्टिरेष्टव्या ।

किञ्च पौर्वापर्यालोचनायामीश्वरस्यैव जगत्सर्गः शब्दाद्गम्यते । जन्मादिसूत्रमारभ्य चैतदुपपादितम् । ततोऽद्वितीयप्रतिज्ञा सिद्धैवेत्याह -

नित्येति ।

ईश्वरस्य जगद्व्यापारे संनिधिमुक्त्वा विदुषां तत्रासंनिधिमाद्यप्रतिज्ञासिद्ध्यर्थं समर्थयते -

तदन्वेषणेति ।

श्रुयते तेषां सर्वेषु लोकेषु कामचारो भवतीत्यादाविति शेषः । सृष्ट्युत्तरभाविनामुपासकानां सृष्टिकाले सत्त्वाभावात्पूर्वकल्पसिद्धानां प्रलयकाले मुक्तत्वान्न स्रष्टृत्वादि तेषां श्लिष्टमित्यर्थः ।

इतश्च विदुषां न निरङ्कुशैश्वर्यमित्याह -

समनस्कत्वादिति ।

किं विदुषां समप्रधानत्वमाहो गुणप्रधानत्वम् । आद्ये समप्रधानानां नियमेनैकमत्यादर्शनादेकस्य सिसृक्षायमपरस्य सञ्जिहीर्षासम्भवादपर्यायमेव सर्गसंहारौ स्याताम् । अपरथा द्वयोरपि नेश्वरत्वं कार्यविघातादित्यर्थः ।

द्वितीयमनुभाष्य दूषयति -

अथेत्यादिना ।

एकाभिप्रायानुवर्तितायामन्येषामागन्तुकैश्वर्याणामगृह्यमाणविशेषतया कस्यचित्प्राधान्यायोगादनागन्तुकैश्वर्यपरमेश्वरवर्तित्वमितरेषामेषितव्यमित्यर्थः ॥ १७ ॥