ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ १८ ॥
अथ यदुक्तम्आप्नोति स्वाराज्यम्’ (तै. उ. १ । ६ । २) इत्यादिप्रत्यक्षोपदेशात् निरवग्रहमैश्वर्यं विदुषां न्याय्यमिति, तत्परिहर्तव्यम्अत्रोच्यतेनायं दोषः, आधिकारिकमण्डलस्थोक्तेःआधिकारिको यः सवितृमण्डलादिषु विशेषायतनेष्ववस्थितः पर ईश्वरः, तदायत्तैव इयं स्वाराज्यप्राप्तिरुच्यते; यत्कारणम् अनन्तरम् आप्नोति मनसस्पतिम्’ (तै. उ. १ । ६ । २) इत्याहयो हि सर्वमनसां पतिः पूर्वसिद्ध ईश्वरः तं प्राप्नोतीत्येतदुक्तं भवतितदनुसारेणै अनन्तरम्वाक्पतिश्चक्षुष्पतिःश्रोत्रपतिर्विज्ञानपतिः भवति इत्याहएवमन्यत्रापि यथासम्भवं नित्यसिद्धेश्वरायत्तमेव इतरेषामैश्वर्यं योजयितव्यम् ॥ १८ ॥

पूर्वपक्षबीजमनूद्य दूषयति -

प्रत्यक्षेति ।

अनुवादभागं व्याकरोति -

अथेति ।

परिहारमवतारयति -

अत्रेति ।

नञर्थमुक्त्वा हेतुमवतार्य व्याचष्टे -

नेत्यादिना ।

अधिकारे नियोजयत्यादित्यादीनित्याधिकारिकस्तत्र हेतुमाह -

यदिति ।

यस्मात्कारणात्स्वाराज्यप्राप्त्यनन्तरमाहाप्नोति मनसस्पतिमिति । यदि पूर्वमेव निरङ्कुशं स्वाराज्यमुक्तं तर्हि पश्चादीश्वरप्राप्तिवचनं न स्यात्तस्माद्भोगे स्वाराज्यं न तु जगतः स्रष्टृत्वादावित्यर्थः ।

विवक्षितार्थसिद्धये वाक्यार्थं कथयति -

यो हीति ।

विदुषामीश्वराधीनमैश्वर्यं स्वाराज्यमित्यत्र वाक्यशेषमनुकूलयति -

तदनुसारेणेति ।

परमेश्वराधीनमणिमादिलक्षणमैश्वर्यं विदुषां स्वाराज्यं न तु जगतः स्रष्टृत्वादीत्युक्तमर्थं तेषां सर्वेषु लोकेष्वित्यादिवाक्येषु सञ्चारयति -

एवमिति ॥ १८ ॥