ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
विकारावर्ति च तथा हि स्थितिमाह ॥ १९ ॥
विकारावर्त्यपि नित्यमुक्तं पारमेश्वरं रूपम् , केवलं विकारमात्रगोचरं सवितृमण्डलाद्यधिष्ठानम्तथा हि अस्य द्विरूपां स्थितिमाह आम्नायःतावानस्य महिमा ततो ज्यायाꣳश्च पूरुषःपादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि’ (छा. उ. ३ । १२ । ६) इत्येवमादिः तत् निर्विकारं रूपम् इतरालम्बनाः प्राप्नुवन्तीति शक्यं वक्तुम् अतत्क्रतुत्वात्तेषाम्अतश्च यथैव द्विरूपे परमेश्वरे निर्गुणं रूपमनवाप्य सगुण एवावतिष्ठन्ते, एवं सगुणेऽपि निरवग्रहमैश्वर्यमनवाप्य सावग्रह एवावतिष्ठन्त इति द्रष्टव्यम् ॥ १९ ॥

निरतिशयैश्वर्यवदीश्वरोपासकास्तदात्मतां प्राप्ताः सातिशयैश्वर्यवन्तो भवन्तीत्ययुक्तं तदात्मत्वविरोधादित्याशङ्क्य ब्रह्मैक्येऽपि सगुणप्राप्तानां निर्गुणप्राप्त्यभाववदेतद्युक्तमिति वक्तुं ब्रह्मणो द्वैरूप्यमाह -

विकारावर्तीति ।

तत्र प्रतिज्ञाविभागं व्याचष्टे -

विकारेति ।

चकारसूचितमर्थमाह -

नेति ।

हेतुभागं व्याचष्टे -

तथाहीति ।

तत्र प्रथमतृतीयपादाभ्यां विकारवर्ति रूपमुच्यते द्वितीयचतुर्थपादाभ्यां विकारावर्ति ब्रह्मणो रूपमुक्तमिति भेदः ।

अस्तु ब्रह्मणो विकारावर्ति रूपं तथापि किं स्यात् , तत्राह -

नचेति ।

वस्तुतस्तथात्वेऽपि यथोपासनमेव तत्प्राप्तिरुपासनं च विध्यधीनं निरवग्रहमहत्त्वादिधर्मस्य चोपास्त्यगोचरत्वादनुपासितस्याप्राप्तिरिति फलितमाह -

अतश्चेति । ॥ १९ ॥