ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥
दर्शयतश्च विकारावर्तित्वं परस्य ज्योतिषः श्रुतिस्मृती तत्र सूर्यो भाति चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः’ (मु. उ. २ । २ । ११)(क. उ. २ । २ । १५) इति, तद्भासयते सूर्यो शशाङ्को पावकः’ (भ. गी. १५ । ६) इति तदेवं विकारावर्तित्वं परस्य ज्योतिषः प्रसिद्धमित्यभिप्रायः ॥ २० ॥

विकारावर्ति रूपमस्तीत्यत्रैव श्रुतिस्मृती प्रमाणयति -

दर्शयतश्चेति ।

प्रसिद्धे प्रत्यक्षानुमाने प्रत्याचक्षाणः सूत्राक्षराणि योजयति -

दर्शयतश्चेत्यादिना ।

उक्तेऽर्थे सुलभानि श्रुतिस्मृतिवचनानीति मन्वानो वाक्यार्थमाह -

तदेवमिति ॥ २० ॥