यत्तु सातिशयत्वेन कार्यत्वं ततश्चान्तवत्त्वमित्यनुमानं तत्र किमैश्वर्यस्यान्तवत्त्वमात्रं साध्यं किंवा मुक्त्यभावो विदुषामिति विकल्प्याद्ये सिद्धसाध्यत्वं मत्वा द्वितीये क्रममुक्तिवादिश्रुतिविरोधमाह -
अनावृत्तिरिति ।
सूत्रस्थं प्रतिज्ञापदं व्याचष्टे -
नाडीति ।
अर्चिरादिपदोक्तदेवयानं पन्थानं स्मारयितुं विशेषणद्वयम् । ये ब्रह्मलोकं गच्छन्ति ते तं प्राप्य भुक्तभोगास्ततो नावर्तन्त इति सम्बन्धः ।
कानि तानि शास्त्रो क्तानि विशेषणानीत्युक्ते यथाशास्त्रं तान्यनुक्रामति -
यस्मिन्निति ।
इतो लोकात्पृथिवीशब्दितात्तृतीयस्यां दिवि यो ब्रह्मलोकस्तस्मिन्नरण्यसंज्ञौ द्वावर्णवावित्यर्थः ।
तस्मिन्नेवान्नमयं हर्षकरं च सरोऽस्तीत्याह -
यस्मिन्नैरमिति ।
सोमसवन इत्यत्र सोमशब्दोऽमृतवचनः । कर्मज्ञानशून्यानां दुष्प्रापत्वमपराजितत्वम् । ब्रह्मणो हिरण्यगर्भस्येति यावत् । प्रभुशब्दोऽपि हिरण्यगर्भमेवाधिकरोति ।
उक्तविशेषणवति ब्रह्मलोके मानमाह -
यश्चेति ।
चन्द्रलोकादिवेति वैधर्म्योदाहरणम् ।
प्रतिज्ञामेवं व्याख्याय मोक्षहेतुमाकाङ्क्षापूर्वकं व्याख्याति -
कुत इत्यादिना ।
ननु दर्शितानामनावृत्तिश्रुतीनामर्थवादत्वादविरोधे प्रामाण्यमिति नानुमानापबाधने सामर्थ्यमिममिहेति च विशेषणात्कल्पान्तरे भवत्यावृत्तिरिति, तत्राह -
अन्तवत्त्वेऽपीति ।
ये तावदूर्ध्वरेतसः स्वाश्रमधर्ममात्रनिष्ठा ब्रह्मचर्येण ब्रह्मलोकमधिरूढास्तेषामन्तरेण विद्यां बन्धध्वंसासिद्धेरस्त्येवावृत्तिः । ये तु सगुणोपासकास्तेषामैश्वर्यस्य कल्पमात्रस्थायित्वेऽपि क्रममुक्तिविवक्षयाऽनावृत्तिरविरुद्धेत्यर्थः ।
सगुणब्रह्मविदामेवानावृत्तिरत्र प्रतिपाद्यते न निर्गुणब्रह्मविदां तत्र को हेतुरित्याशङ्क्य तेषामावृत्तिशङ्काभावादित्याह -
सम्यगिति ।
सगुणब्रह्मविदामपि ब्रह्मलोकगतानां तत्रोत्पन्नसम्यग्दर्शनप्रसादादेव मुक्तिरिति स्थिते सम्यग्दर्शिनामनावृत्तिः सुतरां सिध्यतीति कैमुतिकन्यायमाह -
तदाश्रयणेनेति ।
उपासकानामीश्वरायत्तमैश्वर्यं न निरतिशयमित्यधिकरणार्थमुपसंहर्तुमितीत्युक्तम् । सूत्राभ्यासस्य प्रयोजनमाह -
अनावृत्तिः शब्दादिति ।
यत्राध्यायपरिसमाप्तिरेव तत्र पदस्यैवाभ्यासो दृष्टः प्रकृते सूत्रस्यैवाभ्यासाच्चतुर्लक्षणस्य वेदान्तमीमांसाशास्त्रस्य समन्वयाविरोधसाधनफलानां साकल्येनोक्तत्वाद्वक्तव्यानवशेषात्परिसमापनमुचितमिति भावः ॥ २२ ॥