ब्रह्मसूत्रभाष्यम्
चतुर्थोऽध्यायःचतुर्थः पादः
न्यायनिर्णयव्याख्या
 
ननु एवं सति सातिशयत्वादन्तवत्त्वम् ऐश्वर्यस्य स्यात्ततश्च एषामावृत्तिः प्रसज्येतइत्यतः उत्तरं भगवान्बादरायण आचार्यः पठति

विदुषां निरङ्कुशैश्वर्याभावे दोषमाशङ्कते -

नन्विति ।

सह परमेश्वरस्यैश्वर्येणातिशयेन वर्तत इति सातिशयं विदुषामैश्वर्यं तथाच परमेश्वराधीनत्वाल्लौकिकैश्वर्यवत्कार्यं कार्यत्वाच्चान्तवदित्यर्थः ।

विद्वदैश्वर्यस्यान्तवत्त्वे का क्षतिरित्याशङ्क्य विदुषां मुक्तता न स्यादित्याह -

ततश्चेति ।

एतदुत्तरत्वेनोत्तरसूत्रं सूत्रकारं पूजयन्नवतारयति -

अत इति ।

भगवानित्यनेन सर्वज्ञत्वादिसम्पत्तिरुक्ता । आचार्यशब्देन शास्त्रार्थबहुलीकरणं सदाचारे शिष्याणां स्थापनं स्वयं तदाचरणं चेत्यत्र नैपुण्यमुक्तमिति भेदः ।