ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
पञ्चपादिका
 
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
तत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते; नाधिकारार्थः, ब्रह्मजिज्ञासाया अनधिकार्यत्वात्मङ्गलस्य वाक्यार्थे समन्वयाभावात्अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवतिपूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात्सति आनन्तर्यार्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम्स्वाध्यायानन्तर्यं तु समानम्नन्वि कर्मावबोधानन्तर्यं विशेषः; ; धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेःयथा हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वात् , तथेह क्रमो विवक्षितःशेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावात्धर्मब्रह्मजिज्ञासयोः फलजिज्ञास्यभेदाच्चअभ्युदयफलं धर्मज्ञानम् , च्चानुष्ठानापेक्षम्; निःश्रेयसफलं तु ब्रह्मविज्ञानम् , चानुष्ठानान्तरापेक्षम्भव्यश्च धर्मो जिज्ञास्यो ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात्इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम्चोदनाप्रवृत्तिभेदाच्चया हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयतिब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम्अवबोधस्य चोदनाजन्यत्वात् , पुरुषोऽवबोधे नियुज्यतेयथा अक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत्तस्मात्किमपि वक्तव्यम् , यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इतिउच्यतेनित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं तेषु हि सत्सु, प्रागपि धर्मजिज्ञासाया ऊर्ध्वं , शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं ; विपर्ययेतस्मात् अथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यते
अथातो ब्रह्मजिज्ञासा ॥ १ ॥
तत्र अथशब्दः आनन्तर्यार्थः परिगृह्यते; नाधिकारार्थः, ब्रह्मजिज्ञासाया अनधिकार्यत्वात्मङ्गलस्य वाक्यार्थे समन्वयाभावात्अर्थान्तरप्रयुक्त एव ह्यथशब्दः श्रुत्या मङ्गलप्रयोजनो भवतिपूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकात्सति आनन्तर्यार्थत्वे, यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासापि यत्पूर्ववृत्तं नियमेनापेक्षते तद्वक्तव्यम्स्वाध्यायानन्तर्यं तु समानम्नन्वि कर्मावबोधानन्तर्यं विशेषः; ; धर्मजिज्ञासायाः प्रागपि अधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेःयथा हृदयाद्यवदानानामानन्तर्यनियमः, क्रमस्य विवक्षितत्वात् , तथेह क्रमो विवक्षितःशेषशेषित्वे अधिकृताधिकारे वा प्रमाणाभावात्धर्मब्रह्मजिज्ञासयोः फलजिज्ञास्यभेदाच्चअभ्युदयफलं धर्मज्ञानम् , च्चानुष्ठानापेक्षम्; निःश्रेयसफलं तु ब्रह्मविज्ञानम् , चानुष्ठानान्तरापेक्षम्भव्यश्च धर्मो जिज्ञास्यो ज्ञानकालेऽस्ति, पुरुषव्यापारतन्त्रत्वात्इह तु भूतं ब्रह्म जिज्ञास्यं नित्यत्वान्न पुरुषव्यापारतन्त्रम्चोदनाप्रवृत्तिभेदाच्चया हि चोदना धर्मस्य लक्षणं सा स्वविषये नियुञ्जानैव पुरुषमवबोधयतिब्रह्मचोदना तु पुरुषमवबोधयत्येव केवलम्अवबोधस्य चोदनाजन्यत्वात् , पुरुषोऽवबोधे नियुज्यतेयथा अक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत्तस्मात्किमपि वक्तव्यम् , यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इतिउच्यतेनित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं तेषु हि सत्सु, प्रागपि धर्मजिज्ञासाया ऊर्ध्वं , शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं ; विपर्ययेतस्मात् अथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यते
अथातो ब्रह्मजिज्ञासा इति ॥ ; तत्राथशब्द आनन्तर्यार्थः परिगृह्यते, नाधिकारार्थः बह्मजिज्ञासाया अनधिकार्यत्वात् ; अथ शब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थ इति ॥ ; पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकादिति सति चानन्तर्यार्थत्वे यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासाऽपि यत् पूर्ववृत्तं नियमेनापेक्षते, तद् वक्तव्यम् स्वाध्यायानन्तर्यन्तु समानमिति ॥ ; न ; धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति ॥ ; यथा च हृदयाद्यवदानानामानन्तर्यनियमः ; क्रमस्य विवक्षितत्वात् , न तथेह क्रमो विवक्षितः ; शेषशेषित्वेऽधिकृताधिकारे वा प्रमाणाभावाद् धर्मब्रह्मजिज्ञासयोरिति ॥ ; फलजिज्ञास्यभेदाच्च ॥ ; अभ्युदयफलं धर्मज्ञानम् तच्चानुष्ठानापेक्षम् ; निःश्रेयसफलं तु ब्रह्मज्ञानं, न, चानुष्ठानान्तरापेक्षमिति ॥ ; चोदनाप्रवृत्तिभेदाच्च ; या हि चोदना धर्मस्य लक्षणं, सा स्वविषये विनियुञ्जानैव पुरुषमवबोधयति, ब्रह्मचोदना पुनः पुरुषमवबोधयत्येव केवलम् ; अवबोधस्य चोदनाजन्यत्वान्न पुरुषोऽवबोधे नियुज्यते ; यथाऽक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत् ॥ ; तस्मात् किमपि वक्तव्यं, यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इति ॥ उच्यते — नित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं चेति ॥ ; तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च, न विपर्यये तस्मादथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यत इति ॥ ;

अथ द्वितीयवर्णकम्

सिद्धैव ननु ब्रह्मजिज्ञासा ? ‘अथातो धर्माजिज्ञासे’ति सकलवेदार्थविचारस्योदितत्वात् । ब्रह्मज्ञानस्य चोदनालक्षणत्वेन धर्मस्वरूपत्वात् , अतः सिद्धैव ब्रह्मजिज्ञासापिअभ्यधिकाशङ्काभावादिति ।

अत्र केचिदभ्यधिकाशङ्कां दर्शयन्तो ब्रह्मजिज्ञासां पृथक् आरभन्ते । केयमत्राभ्यधिकाशङ्का चोदनालक्षणोऽर्थो धर्मः इति ब्रुवता विधेः प्रामाण्यं दर्शितम् । अत्र केषुचिद्वाक्येषु विधिरेव श्रूयते, सदेव सोम्येदमग्र आसीत्’ (छा. उ. ६-२-१) इत्येवमादिषु ; यत्रापि विधिः श्रूयते आत्मा वा अरे द्रष्टव्यः’ (बृ. उ. २-४-५) तस्मिन् यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम्’ (छा.उ.५-१०-५) इति तत्र यद्यपि कृत्या अविशेषेण विधौ स्मर्यन्ते ; तथापि, यो भावाभिधायी तव्यप्रत्ययः, क्रियायां पुरुषं नियोक्तुं शक्नोति । यत्र पुनः कर्म प्राधान्येनोच्यते, तत्र द्रव्ये गुणभूतां क्रियां कार्यान्तरसम्बन्धित्वेन विधातुं शक्नोति । द्रव्यपरत्वे चानुत्पाद्यत्वात् , अविकार्यत्वात् , अनाप्यत्वात् , असंस्कार्यत्वात् , संस्कृतस्य कार्यान्तरे उपयोगाभावादसंस्कार्यत्वम् । अतःआत्मानमुपासीते’त्यात्मन ईप्सिततमत्वं सम्भवतिअथ पुनर्विपरीतो गुणप्रधानभावः सक्तुन्यायेन कल्प्येत, तत्रापि ज्ञायते किं तदुपासनम् ? कथं चात्मना तत् क्रियत इति ? अथ ज्ञायते ज्ञानमुपासनम् , आत्मा विषयभावेन तन्निर्वर्तयतीति, एवं तर्हि तदेवायातं ज्ञानेनात्माऽऽप्यत इति, तच्च कृतकरणमनर्थकम् ; नित्याप्तत्वादात्मनः । संस्कार्यत्वे चोपयोगाभाव उक्तः । अतो विध्यभावादविवक्षितार्था वेदान्ताः, इति धर्मजिज्ञासानन्तरं स्नाने प्राप्त इदमारभ्यतेअथातो ब्रह्मजिज्ञासेतिअनन्तरं ब्रह्म जिज्ञासितव्यं, स्नातव्यमित्यभिप्रायः । कर्माभिधायिनोऽपि कृत्यप्रत्ययान्नियोगसंप्रत्ययान्न नियोक्तृत्वं निराकर्तुं शक्यते ; ‘कटस्त्वया कर्तव्यः’ ‘ग्रामस्त्वया गन्तव्यःइतिवत् । यत्तूक्तंद्रव्यपरत्वे प्रयोजनाभावादानर्थक्यं नियोगस्येति, तदसत् ; अविद्योच्छेदस्योपलभ्यमानत्वात् । अविद्या संसारहेतुभूता

अपरे पुनरेवमारभन्तेब्रह्मणि प्रत्यक्षादिप्रत्ययान्तराणामसम्भवात् परिनिष्पन्ने वस्तुनि प्रतिपत्तिहेतुतया सम्भावितसामर्थ्यानामपि आम्नायस्य पुनः कार्यविषयतया सुतरामसम्भवं मन्वानस्य भवति सङ्कर्षपर्यन्ते एव वेदार्थविचारावसानामिति बुद्धिः, तन्निरासार्थं पुनः प्रतिज्ञातम् । इहापि सर्वेष्वेवात्मज्ञानविधानेषु कार्यनिष्ठतां वर्णयन्ति समाम् । तत्त्वावबोधश्च कार्यम् ; अधिकारिनियोगविषयतया अवगमात् इति ; ततः तद्विचारार्थं शास्त्रमारब्धव्यमिति

अत्रोच्यतेनारब्धव्यम् ; गतार्थत्वात् । कथम् ? यस्तावत् प्रथम आरम्भप्रकारः कर्मणि कृत्यप्रत्यये नियोगसंप्रत्यय इति, तत् स्वयमेव विधायकत्वं दर्शितम् । प्रसिद्धं चैतत्स्वाध्यायोऽध्येतव्यःइत्येवमादीनां विधायकत्वम् । नात्राधिकाशङ्काकारणं किञ्चित् । ननु चतुर्विधस्यापि क्रियाफलस्यात्मन्यसम्भव उक्तः । यद्येवं सक्तुन्यायो भविष्यति ? तदपि ; आत्मविषयज्ञानस्य नित्यसिद्धत्वादित्युक्तम् । सिद्धस्यैव पुनरभ्यासो विधिनिमित्त उपासनाख्यो भविष्यति ; अभ्युदयफले हिरण्यधारणवत् । ननु विधानतोऽप्यात्मविषयज्ञानसन्तानः कर्तव्यः, तु नित्यमात्मनि जाग्रतः सिद्धः ? एवं तर्ह्यर्थाविरुद्धेषु कालेष्वात्मन्येव चेतस्समाधानं भविष्यति

यत् पुनरात्मज्ञानादविद्योच्छेदः तदुच्छेदात् संसारनिवृत्तिः फलमित्युपन्यस्तम् , तदसत् ; अहमित्यात्मानं नित्यमेव जानाति सर्वो लोकः । संसारो निवृत्तः । अथ पुनरहंप्रत्ययावसेयादन्यदेवात्मरूपं पराकृतभोक्तृभोक्तव्यभोगग्रन्थिज्ञेयत्वेनात्मज्ञानविधिना ज्ञाप्यत इति, तदसत् ; विधिर्हि सामान्यतः सिद्धस्य क्रियात्मनो विशेषसिद्धौ प्रभवति, नात्यन्तमसिद्धसद्भावे । तद्यदि नाम ज्ञानं लोके सिद्धं, तथापि निरस्तप्रपञ्चात्मविषयमसिद्धं आकाशमुष्टिहननवत् विधातुं शक्यम् । अथ तादृगात्मज्ञानं सिद्धम् ? किं विधिना ? यदपि मतान्तरं प्रत्यक्षादेरगोचरत्वात् शास्त्रस्य कार्यार्थत्वात् सङ्कर्षपर्यन्त एव विचारे वेदार्थपरिसमाप्तौ प्राप्तायां वेदान्तेष्वपि कार्यनिष्ठता समाना, ब्रह्मतत्त्वावबोधश्च कार्यम् ; अधिकारिनियोगविषयतया अवगमात् ; अतः तद्विचाराय शारीरकारम्भः इति, तदप्युक्तेन न्यायेन ब्रह्मावगमस्य सिद्धत्वे असिद्धत्वे कार्यत्वासम्भवेन प्रत्युक्तम्

अपरं मतम्सत्यं कार्यविषयो वेदः, तु तावन्मात्रे ; तस्मिन् सति यो योऽर्थोऽवगम्यते वेदार्थः, यथा रूपे सति चक्षुषः प्रवृत्तिः, रूपमात्रं चक्षुषो विषयः, किं तु तस्मिन् सति द्रव्यमपि ; एवमिहापि वस्तुतत्त्वमपि विषयः । कथम् तत् ? उच्यतेइदं सर्वं यदयमात्मा’ (बृ. उ. २-४-६) इति तावत् सर्वात्मरूपता आत्मन उपदिश्यते । यदि सर्वरूपता आत्मन उपदिश्येत, ततः सर्वस्य अचेतनत्वात् तद्रूपत्वे बोद्धृत्वहानौ बोधकत्वं शब्दस्य हीयेत ; अतः सर्वस्य आत्मस्वभावता विधीयते । अनात्मस्वरूपविलयेन हि वस्तुनोऽवगतिर्दृष्टा । ननु अत्र विधिः श्रूयते ; कल्प्यतां तर्हि विधिः । किं प्रतीते विध्यर्थे विधिः कल्प्यते ? उत अप्रतीते ? यदि प्रतीते कल्प्यते, कल्पनावैर्यथ्यम् । अर्थप्रतीत्यर्थं हि शब्दो मृग्यते । प्रतीतेऽर्थे शब्दं कल्पयता किं कृतं स्यात् ? अथाप्रतीत एव विध्यर्थे विधिं कल्पयित्वा ततोऽर्थः प्रतिपत्तव्य इति, अपूर्वं प्रमाणकौशलम् । ननु अश्रूयमाणविधिष्वपितस्मात् पूषा प्रपिष्टभागोऽदन्तको हिइत्यादिषु विधिः कल्पितः । सत्यम् ; युक्तं तत्र पूष्णः पिष्टद्रव्यसम्बन्धः समासाभिहितो सिद्धो वर्तते, नापि कुतश्चिद्भविष्यतीति ; प्रमाणाभावात् । नापि विधिना केनचित् पदैकवाक्यता, येन वपोत्खननादिवत् कथञ्चिदालम्बनं कल्प्येत ; अतो निरालम्बनत्वपरिहाराय कार्यपरता कल्प्यत इतिननु इहाप्यात्मपदं चेतनस्य भोक्तुर्वाचकम् ; नियोज्यत्वान्नियोगमाक्षिपति, नैतत् सारम् ; नियोगो हि पुरुषविशेषमनाश्रित्य अनुपलब्धो लोके तमाक्षिपेत् विश्वजिदादिषु । पुरुषः पुनः किं नियोगमन्तरेण नोपलब्धो लोके ? येन विधिकल्पना भवेत् । अथापि भवतु नाम विधिः, नासौ धातुना विना केवलो लभ्यते, धातुनैव सह कल्प्यते । कोऽसौ धातुः ? यदि तावत् कर्तव्यमिति, तत्र अनात्मस्वभावता निवृत्ता प्रपञ्चस्य । यथा — ‘अमी पिष्टपिण्डाः सिंहाः क्रियन्तामि’ति पिष्टस्वभावता निवृत्ता । इतिकर्तव्यता चानिर्दिष्टा ; तत्र साकाङ्क्षं वचनमनर्थकं स्यात् । अथ ज्ञातव्य इत्यध्याह्रियेत ? एवमपि एव दोषः ; अनात्मस्वभावता निवृत्तेति, अशक्यार्थोपदेशश्च । हि वस्तु वस्त्वन्तरात्मना ज्ञातुं शक्यते । एवं तर्हि ज्ञातव्य इत्यध्याह्रियेत, तत्र धात्वर्थोनुवादः, प्रत्ययो विधायकः । कुतः प्राप्तेरनुवादः ? अभिधानत इति ब्रूमः । एवं तर्हि विधानमनर्थकं, स्वाध्यायकाले एव निष्पन्नत्वात्ज्ञानस्य । पुनः कर्तव्यतया चोद्यते, यथा मन्त्रेषु । प्रयोगवचनः तत्र विधायकः इति । इहापि प्रयोगवचनो विधायकः ? ननु मन्त्रेषु स्वार्थस्यान्यतः सिद्धत्वात् प्रत्ययपरत्वं युज्यते, इह तु स्वार्थविधिपराणां शब्दानां प्रत्ययपरत्वं विरुध्यते, नैष दोषः ; अन्यार्थमपि कृतमन्यार्थं भवति, तद्यथाशाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयत उपस्पृश्यते ; एवमिहापि । यथा पदार्थानां विधायकः शब्दः क्रमस्यापि विधायकः, एवं स्वार्थस्य विधायकः शब्दः प्रत्ययस्यापि विधायको भविष्यति

तदेतदनिरूपितमिव दृश्यते । कथम् ? मन्त्राः स्वाध्यायविधिनोपादापिताः स्वार्थस्यान्यतः सिद्धत्वात् तं प्रमातुमशक्नुवन्तः प्रमाणत्वात् प्रच्युताः व्रीह्यादिवत् प्रमेयतामापन्नाः श्रुत्यादिप्रमाणैः, युक्तं यद्विनियुज्येरन् , विनियुक्ताश्चानुष्ठेयस्यानुष्ठानकाले स्मृत्यपेक्षस्य स्मारकतया गृह्येरन्निति, इह तुइदं सर्वं यदयमात्मेति यत् पदसमन्वयनिमित्तं सर्वस्यात्मस्वभावताग्राहिविज्ञानं, तत् स्वविषयस्य अन्यतोऽसिद्धत्वात् प्रमेयपरत्वात् विधेर्विषयः । अथ विधेर्विषयो प्रमेयमवगमयितुमलम् । युगपदुभयं सम्भवति ; वैरूप्यप्रसङ्गात्

ननु एवं सति गुणकर्मणां सर्वत्र विधानं निराकृतं स्यात् । निराकृतं स्यात् ; यत्र प्रमाणान्तरसिद्धं गुणकर्मणः कर्मकारकं, तत्र तस्योत्पत्त्याद्यन्यतमं फलं, तद्विधीयते ; यत्र पुनः प्रमाणान्तरादसिद्धो ज्ञानस्य कर्मभूतो विषयः, तेनैव प्रमीयमाणो सिद्धवदुद्देश्यः, येन तदुद्देशेन तत्रातिशयाधानाय ज्ञानं विधीयतेतस्मादत्र युगपदुभयासम्भवात् भवत्येव वैरूप्यप्रसङ्गः । एव समन्वयः स्वावयवाद्विधेर्विभक्तः कार्यक्षमः ; अवान्तरवाक्यस्य प्रमाणत्वायोगात् । अथ अर्थवादपदानामिव परस्परतः संसृज्य कञ्चिदर्थमवबोध्य विधिसम्बन्धमनुभवेदित्यभिप्रायः ? तदसत् ; युक्तमर्थवादपदानि स्वार्थफलरहितानि तत्र पर्यवसानाभावात् फलवदङ्गतामश्नुवीरन्निति, इह पुनरपरामृष्टविधिः पदसमन्वयः स्वार्थमवगमयन् निरस्तनिखिलप्रपञ्चावग्रहमपास्तातिशयानन्दनित्यानुभवैकरसं शिवमद्वैतमात्मतत्त्वमवगमयेत् , तत्र कुतो विधिशेषता कृतं कृत्यं प्राप्तं प्रापणीयम् ? ‘आत्मलाभान्न परं विद्ययतेइति स्मृतेः

अथ पुनः शाब्दज्ञानान्न तथा अनुभवः, तेन साक्षात्करणाय विधिरिति, किं तत् ज्ञानमनुभवाय विधीयते ? प्रत्यक्षादीनां तावदगोचरः ; चक्षुषा गृह्यते’ (मु. उ. ३-१-८) इत्यादिमन्त्रवर्णात् । शाब्दं नेष्यते भवता, सत्यम् शाब्दज्ञानं विधिविकलमनुभवायालं, विहितं तु अनुभवहेतुरिति, तदयुक्तम् ; यत्तावत् स्वाध्यायाध्ययनविधिग्राहितात् पदसमन्वयात् स्वभावतः समुत्पन्नं, तत् तावन्न विधीयते ; प्रमेयपरतया विधिविषयत्वानुपपत्तेरित्युक्तम् । अथ पुनस्तदेव ज्ञानं सन्तनुयादिति विधीयते, तत् कथं लभ्यत उपास्तिध्यायत्योः ज्ञानसन्तानवाचिनोरन्यतरस्याप्युपादानमन्तरेण ? नापि ज्ञानेनैव स्वसन्तानो लक्ष्यते ; साहचर्याद्यव्यभिचरितसम्बन्धाभावात् । नाप्यभ्यासात् साक्षाद्भावः सिद्धः । नापि श्रूयते, येन तदुद्देशेन ज्ञानसन्तानो विधीयेत । ननु किमत्र श्रवणेन ? स्वयमेव साक्षात्कारकरणाय पुरुषार्थत्वादभिमुखः पुरुषः ; सिद्धश्च ज्ञानाभ्यासः शास्त्रश्रवणादौ साक्षात्करणे हेतुः, यद्येवं किं विधिना ? स्वयमेव पुरुषार्थे निर्ज्ञाते हेतौ प्रवर्तते । यत् पुनः निदर्शनं शाल्यर्थं कुल्याः प्रणीयन्ते इति, युक्तं तत्र ; प्रत्यक्षत उभयार्थताया उपलभ्यमानत्वात् , इह पुनः निदर्शनं न्यायतः प्रतिपत्तव्यम् । न्यायो युगपत् सम्भवतीत्युक्तम् । यदपीदमुक्तंपदार्थानां विधायकः शब्दः क्रमस्यापि विधायकः, एवमैकात्म्यस्य प्रतिपादकः समन्वयो विधिविषयमपि ज्ञापयिष्यतीति, तदप्यपेशलम् । यत् तावत् प्रत्येकं प्रयाजादिविधयः, तैः पुनः तेषामेव विधानम् । नापि ते क्रमशब्दाभिधेयाः । प्रयोगवचनोऽपि प्रयुञ्जानः तानेव प्रयुङ्क्ते । ते क्रम इत्युक्तम् क्रमो नाम एकान्ततो नास्त्येव ; तद्बुद्धिशब्दयोः निरालम्बनत्वप्रसङ्गात् । तत्र क्रमो नाम वस्तुभूतो धर्मो विद्यत एव । एव केनचिदुपाधिना वनवत् क्रमबुद्धिशब्दालम्बनं भवेयुः । स्मृतिविज्ञानमेव वा अनुष्ठानकाले यथोपलब्धिपदार्थान् परामृशेत् । सर्वथा अस्ति तावत् एकैकपदार्थालम्बनज्ञानातिरिक्तं ज्ञानान्तरम्तच्च एकत्वात् कर्तुः अनेकत्वाच्च पदार्थानां, युगपदनुष्ठानासम्भवादपेक्षितं सन्निहितं प्रयोगवचनेन गृह्यत इति युक्तम् । तथेह ज्ञानद्वयमस्ति ; यदैकात्म्ये विधिविषयत्वे वर्तेत । तस्मादिह विधेयाभावाद्विधानाश्रवणादध्याहारे प्रमाणाभावात् प्रयोगवचनोऽस्ति, यो मन्त्राणामिव ज्ञानस्यापि पुनः प्रयोगं विधास्यते । तस्मादसदेतत् कार्यविषयोऽपि वेदो वस्तुतत्त्वं अवबोधयति इतियत् पुनः निदर्शनंचक्षू रूपे सति द्रव्यमपि बोधयति एवं कार्ये सति तत्त्वमपि वेदोऽवगमयतीति । युक्तं तत्र यद्यदवबोधयति चक्षुः, तत्र स्वतन्त्रमेव प्रमाणम् , इह पुनः यत्र तात्पर्यं, तस्य प्रमेयता, यद्यत् प्रतीयते, तस्य तस्य इति वैषम्यम् । आहमा भूद्ज्ञानद्वयं, योऽयमाभिधानिकः प्रत्ययः, विधिविषय एव भवतु । तस्मिन् विहिते अर्थात् सर्वस्यात्मस्वभावता सिध्यति ; सविषयत्वादवगमस्य । एवमपि अविवक्षितोऽर्थः शब्दात् , विवक्षितस्त्वर्थादिति शोभतेतरां वाक्यार्थवित्ता ? नियोगतः प्रतिपत्तिविधिः वास्तवं संसर्गं गमयति । भवन्ति हि परिकल्पितविषया अपि प्रतिपत्तयश्चोदनालक्षणाः फलवत्यःवाचं धेनुमुपासीते’त्येवमाद्याः । एतदेवात्र युक्तम् ; अतत्परस्य प्रत्यक्षादिविरोधे तथाध्यवसायहेतुत्वायोगात् । तस्मात् कार्यनिष्ठे वेदे वस्तुतत्त्वसिद्धिः मनोरथ एव । अतो अहंप्रत्ययावसेय एवात्मा । तस्य शब्दावसेयमतीन्द्रियं रूपान्तरमस्ति ; शब्दस्य तत्र सामर्थ्याभावात् । एवं सति अयमात्मा ब्रह्म’ (बृ. उ. २-५-१९) एष आत्मान्तर्याम्यमृतः’ (बृ. उ. ३-७-३) इति ब्रह्मान्तर्याम्यादिशब्दा अहंप्रत्ययावसेय एवात्मनि कथञ्चिद्वर्तन्ते । तेन आत्मा तत्त्वमसि’ (छा. उ. ६-८-७) इति विद्यमानैरारोपितैश्च गुणैरात्मोपासनं मोक्षफलं विधीयते इति, युक्तम् । अतः कार्यानुरक्तस्य वेदार्थस्य सम्भवात् तस्य सर्वात्मना विचारितत्वात् किमपरमवशिष्टम् ? यत् ब्रह्मजिज्ञासारम्भं प्रयुञ्जीत, उच्यतेस्यादेतदेवम् , यदि सर्व एव वेदार्थो विचार्यत्वेनअथातो धर्मजिज्ञासे’ति उपक्रान्तो विचारितश्च स्यात् , यावता कार्यनिष्ठ एव वेदभागो विचारितो, वस्तुतत्त्वनिष्ठः

तथा हिशास्त्रारम्भो व्याख्यातृभिरेवं निरूपितः । कथम् ? धर्मो नाम कश्चित् साधयितुः कालान्तरे श्रेयस्साधनो लोकाख्यप्रमाणाभासोत्थेन ज्ञानेन सामान्यतो विषयीकृतः । तद्विशेषं प्रति विप्रतिपन्नाः परीक्षकाः केचिदग्निहोत्रादिकं धर्ममाचक्षते ; केचिच्चैत्यवन्दनादिकम् । तत्र अग्निहोत्रादिलक्षण एव धर्मोऽभिप्रेतः । तत्प्रतिपादकानां वेदवाक्यानां विचारावसरो नापि विवक्षितार्थत्वम् । अतः चैत्यवन्दनादीनामेवान्यतमो धर्मः । तत्प्रतिपादकानां बुद्धादिवाक्यानामेवान्यतमं विचार्यम् ; वा तदपि । हि पौरुषेये वाक्ये शब्दशक्त्यनुसारेणार्थः, अपि तु तेन विवक्षितः इत्येवमाशङ्किते धर्माय वेदवाक्यानि विचारयिष्यन् तदर्थविवक्षाविचारावसरप्रदर्शनार्थम्अथातो धर्मजिज्ञासाइति सूत्रयामास जैमिनिः । वेदमधीत्य अनन्तरं धर्मजिज्ञासा कर्तव्या, स्नानं गुरुकुलनिवृत्तिरूपमिति दर्शयितुमिति । एवं स्थिते शास्त्रारम्भे, सर्ववेदार्थविषयं शास्त्रमिति प्रतीतिः, किन्तु धर्मातिरिक्तोऽपि सिद्धरूपो वेदार्थोऽस्ति, पर्युदस्तो जैमिनिना ; न्यायान्तरविषयत्वादिति, गम्यते

तत् कथम् ? यत् तावदिदम् उच्यते ; धर्मो नाम लोकप्रवादात् सामान्यतः सिद्धः । तस्य स्वरूपप्रमाणयोः विप्रतिपत्तावग्निहोत्रादिरपि वेदार्थो धर्मतया विचारपदवीमुपारोहति ; यतः तस्यापि विचारावसरो विद्यते, तेन विवक्षितोऽसौ । चाध्ययनमात्रात् कृतकृत्यता । अतोऽध्ययनानन्तरं गुरुकुलान्निवर्त्तितव्यं, किन्तु वेदार्थो धर्मः, किं वा अन्य एवेति जिज्ञासामर्हतीति वदितुं धर्मग्रहणं युक्तम् अथातो धर्मजिज्ञासेति, वेदार्थजिज्ञासेति ; यतो वेदार्थतया ज्ञाने प्रवृत्तिः । यत् पुनः धर्मस्य स्वरूपप्रमाणकथनाय द्वितीयं सूत्रं, तत् वेदप्रमाणको धर्म इति स्यात् किमिदंचोदनालक्षणःइति ? तत् नूनं सर्वो वेदो धर्म एव कार्यात्मके पर्यवस्यति, कश्चिदस्य भागः कार्यताशून्ये वस्तुतत्त्वेऽपि वर्तते इति मन्यतेननु चोदनाग्रहणस्यान्यदेव प्रयोजनं, ‘चुद प्रेरणेइति प्रेरणकर्मणश्चोदनेति रूपम् ; ततः प्रेरणात्मको विधिरपुरुषार्थे प्रेरयितुमशक्नुवन् पदान्तराभिहितमपि स्वर्गादिकं भावनाकर्मतामापादयति एकपदोपादानात् संनिहिततरं धात्वर्थं विहायेति कथयितुमिति, नैतत् सारम् , अध्ययनविधिरध्ययने माणवकं प्रेरयन् अध्ययनस्य पुरुषार्थरूपार्थावबोधकत्वमनापाद्य शक्नोति प्रेरयितुम् ; पारम्पर्येणाप्यपुरुषार्थे विधेरपर्यवसानात् , अतः तदर्थं चोदनाग्रहणम् ; वेदग्रहणेनापि तत्सिद्धेः । अपि वेदग्रहणमेव युक्तम् ; असन्देहात् , चोदनाग्रहणे हि सन्देहः स्यात् ; लोकेऽपि विद्यमानत्वात् । अथ वेदाधिकरणेवेदांश्चैके सन्निकर्षमि’ति विशेषाभिधानात् वैदिकत्वसिद्धिरिति, सोऽयमाभाणको लोकेपिण्डमुत्सृज्य करं लेढी’ति, सूत्रकारस्याप्यकौशलं प्रदर्शितं स्यात् । ततश्चोदनाग्रहणादचोदनात्मकोऽपि वेदभागोऽभिप्रेत इति गम्यते, येन वेदार्थमात्रस्य धर्मत्वं मा भूदिति चोदनेत्यवोचत् । तदेवं सूत्रकार एव स्वशास्त्रविषयातिरिक्तं वेदभागमविचारितमसूसुचत्ननुदृष्टो हि तस्यार्थः कर्मावबोधनम्’ ‘तद्भूतानां क्रियार्थेन समाम्नायः’ ‘आम्नायस्य क्रियार्थत्वात्इति सर्वस्य कार्यार्थत्वं दर्शितं, सत्यम् ; तत् प्रक्रमबलात् तन्निष्ठो वेदभाग इति गम्यते, सर्वत्र । अपि दृष्टो हि तस्यार्थः कर्मावबोधनमि’ति सर्वस्य कर्मावबोधनमर्थ उच्यते, कथम् ? वेदाध्ययनानन्तरं स्नानविधायकमाम्नायमुपलभ्य वेदस्यानर्थकत्व आशङ्कितेअतिक्रमिष्याम इममाम्नायम् , अनतिक्रामन्तो वेदमर्थवन्तं सन्तमनर्थकमवकल्पयेम ; दृष्टो हि तस्यार्थः कर्मावबोधनम्इत्यर्थसद्भावः प्रदर्शितो नार्थान्तरासद्भावः । सोऽयमयोगव्यवच्छेदो नान्ययोगव्यवच्छेदः । कर्मशब्देन धर्म एव कार्यत्वादभिहितः ; यतः तदवबोधप्रवृत्तो वेदस्यार्थवत्त्वं मृगयते, किं वेदस्यार्थो विद्यते ? वा ? धर्मत्वेनावगन्तुं शक्यते ? वा इति ? तस्मात् कर्मावबोधनमेव वेदार्थोऽभिप्रेतो भाष्यकृतः । यत् पुनःआम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामि’ति, तत्र यद्यानर्थक्यमर्थाभावः, तदसत् ; यतः एवमेवभूतार्थमनुवदन्तीति दर्शितोऽर्थः । अथ निष्प्रयोजनत्वम् ; स्वाध्यायाध्ययनविधिर्निष्प्रयोजनमक्षरमात्रमपि ग्राहयतीति, भवतुसोऽरोदीतित्यादीनाम् ; अपुरुषार्थप्रतिपादकत्वात् एकवाक्यत्वात् पृथक्कार्यकल्पनानुपपत्तेः, कल्पयितुं चाशक्यत्वात् । यानि पुनः अपास्ताशेषाशिवमात्मानमनुभवपर्यन्तम् अवबोधयन्ति वाक्यानि, तान्यनवद्यप्रयोजनत्वाद्भवन्तितरामेव प्रयोजनवन्ति । अतः स्वयमपुरुषार्थत्वात् तदर्थोपकारितया कथञ्चित् पुरुषार्थस्तावकत्वेन प्रयोजनवत्त्वमुक्तं, सर्वस्यैवाक्रियार्थत्वेन आनर्थक्यमाशङ्क्य क्रियार्थत्वेनार्थवत्वमुक्तम् । तथा तद्विधान्येव तत्र वाक्यान्युदाहृतानि

यदपि केचित्शास्त्रप्रस्थानमन्यथा वर्णयन्ति । हि किलैवं शास्त्रं प्रस्थितं, किं वेदलक्षणो धर्मः ? उत बुद्धवाक्यादिलक्षणः ? इति । किं तर्हि ? अधीतवेदस्य योऽर्थोऽवगतः, तत्रैव विप्रतिपत्तयः सन्ति, किमयमसौ ? उतायम् इति ? तन्निराकरणार्थः शास्त्रारम्भः इतितत्रापि निखिलवेदार्थविचारप्रतीतिः । तत् कथम् ? तथा सतिअथातो वेदार्थजिज्ञासाइति स्यात् ; यतो धर्म इति कृत्वा विचारः, किन्तु वेदार्थ इति, सत्यं, तथापि शास्त्रकाराणां पुरुषार्थसिद्ध्यर्थं शास्त्रप्रणयनं, ततश्च पुरुषार्थकथनार्थं धर्मग्रहणमिति । एवं तर्हि धर्म इत्येव कृत्वा विचारो भवतु ; तस्य पुरुषार्थत्वात् सन्दिग्धत्वाच्च । तथा उत्तरमपि सूत्रमनुगुणं भवतिचोदनालक्षणोऽर्थो धर्मःइति धर्मस्वरूपविप्रतिपत्तिनिरासपरं ; इतरथा वेदार्थविप्रतिपत्तौ तन्निरासार्थंचोदनालक्षणो वेदार्थःइति स्यात् , यतो धर्मग्रहणे सति वेदार्थविप्रतिपत्तिः शक्या निराकर्तुम् । कथम् ? यत् तावत् चोदनालक्षणो योऽर्थः, धर्म इति धर्मत्वं ज्ञाप्येत, तदा एव वेदार्थो नान्य इति लभ्यते । अथ पुनः धर्म इति नामनामिसम्बन्धो विधीयते, तदप्रक्रान्तम् ; निष्प्रयोजनम् , अतिप्रसङ्गश्च आपद्येतअथापि कथञ्चित् धर्मशब्देन वेदार्थ एवोच्यते इति कल्प्येत, तथा सति चोदनालक्षणो वेदार्थो नार्थवादादिलक्षणः, इति सिद्धप्रामाण्यवेदार्थविचारोऽयं स्यात् , उत्तरलक्षणवत् । तत्रानन्तरं प्रामाण्यप्रतिपादनं युज्येत ॥ ‘वृत्तं प्रमालक्षण’मिति मन्त्रार्थवादेषु कार्यार्थत्वे विप्रतिपत्तिः स्यात् । सा चोत्तरत्रैव निरस्यते । अतः पूर्वोक्तेन न्यायेन कार्यनिष्ठ एव वेदभागो विचार्यतया प्रक्रान्तो विचारितश्च, वस्तुनिष्ठः ; इत्यतो वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यते -

अथातो ब्रह्मजिज्ञासा इति

इति परमहंसपरिव्राजकादिश्रीशङ्करभगवद्पादान्तेवासिवरश्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां जिज्ञासासूत्रावतरणं नाम द्वितीयवर्णकं समाप्तम् ॥

अथ तृतीयं वर्णकम्

तत्राथशब्द आनन्तर्यार्थः परिगृह्यते, नाधिकारार्थः । बह्मजिज्ञासाया अनधिकार्यत्वात्

इत्यादि भाष्यम् । तत् जिज्ञासाशब्दस्यावयवार्थेनार्थवत्त्वे युज्यते ? अधिक्रियायोग्यस्य ब्रह्मणस्तज्ज्ञानस्य वा प्राधान्येनानिर्देशात् , प्रधानस्य चेच्छाया अनधिकार्यत्वात्

अयं तु जिज्ञासाशब्दो विचारवचनो मीमांसापरपर्यायः प्रयुक्तोऽभियुक्तैः — ‘इदमतो जिज्ञासन्ते, किं क्रतुगुणकमुपासनं स्वामिकर्म ? उतर्त्विक्कर्मे’ति । इदन्तु जिज्ञास्यम् , किं नु खल्विमौ तप्यतापकावेकस्यात्मनो भेदौ ? उत जात्यन्तरम् ? इति । धर्ममीमांसाभाष्यकारोऽपि सङ्घातमेव प्रायुङ्क्तधर्मं जिज्ञासितुमिच्छेदि’ति, सङ्घातवाच्यत्वाद्विचारस्य ; अन्यथैवमवक्ष्यत् — ‘धर्मं ज्ञातुमिच्छेदि’ति । अत एवं धर्माय जिज्ञासाधर्मजिज्ञासे’ति सङ्घातस्यार्थवत्त्वमङ्गीकृत्य चतुर्थीसमासो दर्शितः । तदनुसारेण चैतानि भाष्याणि — ‘एवं वेदवाक्यान्येवैभिर्विचार्यन्ते’ ‘वेदवाक्यानि विचारयितव्यानि’ ‘कथं वेदवाक्यानि विचारयेदि’ति ; पुनश्चक्रत्वर्थपुरुषार्थयोर्जिज्ञासा’ ‘क्रत्वर्थपुरुषार्थौ जिज्ञास्येतेइति । इहापि भाष्यकारो वक्ष्यति — ‘तस्माद् ब्रह्म जिज्ञासितव्यमि’ति । पुनश्चवेदान्तवाक्यमीमांसा तदविरोधितर्कोपकरणा निःश्रेयसप्रयोजना प्रस्तूयतेइति । अतः सङ्घातस्यार्थवत्त्वादधिकारार्थता युज्यते । शास्त्रवचनो हि जिज्ञासाशब्दः ; तेन ब्रह्मजिज्ञासाऽधिकृता वेदितव्येतिउच्यतेनायं जिज्ञासाशब्दः परित्यक्तावयवार्थः केवलमीमांसापर्यायः प्रयुज्यमानो दृश्यते । नापि स्मरणमस्ति । चावयवार्थेनार्थवत्त्वे सम्भवति समुदायस्यार्थान्तरकल्पना युक्ता । ननु वयं कल्पयामः ; दर्शितः शिष्टप्रयोगः, ; तस्यान्यथासिद्धत्वात् । कथमन्यथासिद्धत्वम् ? अन्तर्णीतविचारार्थत्वाज्जिज्ञासाशब्दस्य । तथाहिविचारपूर्वकसाध्यज्ञानविषयेच्छा जिज्ञासाशब्दात् प्रतीयते, नोपदेशमात्रसाध्यज्ञानविषया ; एवं प्रयोगप्रत्यययोर्दर्शनात् , तेन जिज्ञासाशब्दस्यावयवार्थेनार्थवत्त्वाद् युक्तमुक्तम्ब्रह्मजिज्ञासाया अनधिकार्यत्वादिति

ननु एवमपि कुत एतत् ? अन्तर्णीतं विचारमाश्रित्य शब्दतो गुणत्वेऽप्यर्थलक्षणेन प्राधान्येन ब्रह्मतज्ज्ञानयोरधिकारयोग्यत्वाच्चाधिक्रियमाणत्वमङ्गीकृत्याधिकारार्थत्वं किमिति गृह्यते ? येन शब्दलक्षणेन प्राधान्येनेच्छाया अनधिकार्यत्वादानन्तर्यार्थत्वमेव परिगृह्यत इति, उच्यतेशास्त्रस्यानारम्भप्रसङ्गादधिकारार्थत्वानुपपत्तेः । अधिकारार्थत्वे ह्यप्रयोजनं शास्त्रं काकदन्तपरीक्षावदनारभ्यं स्यात् , तत्र कस्याधिकार उच्येत ?

ननु ब्रह्मज्ञानं प्रयोजनम् ; तदर्थः शास्त्रारम्भः, ; ब्रह्मज्ञानेऽर्थित्वानुपपत्तेः, ब्रह्मज्ञानाद्धि मनसोऽपि वियोगान्निखिलविषयानुषङ्गनिवृत्तिः श्रूयते । सा सार्वभौमोपक्रमं ब्रह्मलोकावसानमुत्कृष्टोत्कृष्टसुखं श्रूयमाणं सोपायं निवर्तयति । अतो ब्रह्मज्ञानादुद्विजते लोकः ; कुतस्तत्र प्रवृत्तिः ? ननु आनन्दरूपताऽपि ब्रह्मज्ञानादाप्यते, अतस्तदर्थं प्रवर्तते तत्र, मैवम् ; हि ब्रह्मानन्दोऽननुभूतपूर्वोऽनुभूतभोग्यसुखाभिलाषं मन्दीकर्तुमुत्सहते, येन तदुज्झित्वा ब्रह्मज्ञाने प्रवर्तेत । ननु परितृप्तरूपताऽपि ब्रह्मज्ञानात् , अतः परितृप्तः किं कामयते ? अतृप्तिनिमित्तकत्वात् कामस्य ; तथा श्रुतिः — ‘आप्तकामः आत्मकामइति । स्मृतिरपिआत्मलाभान्न परं विद्यते’ ‘एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारते’ति । ; तृप्तेरेवोद्वेगदर्शनाद्विषयविच्छेदात्मिकायाः । तथा वक्तारो भवन्ति, अहो कष्टं किमिति सृष्टिरेवं बभूव ? यत् सर्वमेव भोक्तुं सामर्थ्यमतृप्तिर्भोग्यानां चाक्षयःइति । रागिगीतं श्लोकमप्युदाहरन्ति — ‘अपि वृन्दावने शून्ये श्रृगालत्वं इच्छति । तु निर्विषयं मोक्षं कदाचिदपि गौतम ॥ ’ इति ।

मा भूद् ब्रह्मज्ञानार्थिता, वेदार्थत्वादेव ब्रह्मज्ञानं कर्तव्यम् ; स्वाध्यायाध्ययनस्यार्थावबोधफलकत्वात् । स्यादेतदेवम् ; यद्यर्थावबोधफलाध्ययनक्रिया स्यात् , सा ह्यधीयमानावाप्तिफलत्वादक्षरग्रहणान्ता । अथाक्षरग्रहणं निष्प्रयोजनमिति तत्र पर्यवसानं विधेः, भवतु तर्हि सक्तूनां गतिः । तदपि ; अक्षरेभ्यः प्रयोजनवदर्थावबोधदर्शनात् । तर्हि निष्प्रयोजनान्यक्षराणि ; अतस्तत्पर्यन्तमध्ययनं निष्फलम् ; अतोऽक्षरग्रहणादेव नियोगसिद्धेः फलप्रयुक्त एवार्थावबोधः । अपि अक्षरग्रहणान्तो विधिर्निष्प्रयोजनः, इति सर्वत्र, प्रयोजनवदर्थावबोधपर्यन्तता कल्पयितुमपि शक्यते । तत्रावश्यं कल्पनीयाऽक्षरग्रहणान्तता । तद्यथा राजन्यस्य सत्रवैश्यस्तोमबृहस्पतिसवानामाम्नानं वैश्यस्य चाश्वमेधराजसूयसत्राणां पाठः । तेषामनध्ययनमेव ; स्वाध्यायशब्देन सकलवेदवाचिनाऽध्ययनस्य विहितत्वात् । ननु चाश्रूयमाणाधिकारोऽध्ययनविधिः, दृष्टश्चाक्षरग्रहणेऽर्थावबोधः, कल्पनामधिकारस्य निरुन्धन् स्वयमधिकारस्य हेतुः सम्पद्यते । दृष्टाधिकारेषु प्रत्यक्षतस्तदुपलब्धावधिकारसिद्धिः । अतोऽर्थावबोधपर्यन्तः स्वाध्यायाध्ययननियोगः ; तेन नियोगसिध्यर्थमेव सकलवेदार्थविचारः, अत्रोच्यतेभवेदध्ययनविधेरर्थावबोधः प्रयोजनम् , नाधिकारहेतुता, अध्ययनात्प्रागसिद्धत्वात् । प्राक् चाधिकारज्ञानेन प्रयोजनम् ; अतो विधेर्दृष्टाधिकारत्वेनार्थावबोधसिद्धिः ।

यद्येवमधिकारश्रवणादर्थावबोधे प्रतिपक्षकल्पनानुपपत्तेस्तस्य चाधिकारहेतुत्वानभ्युपगमादप्रवृत्तिरेवाध्ययने प्राप्ता । अत्र केचिदाहुःआचार्यकरणविधिप्रयुक्तस्याध्ययनस्यानुष्ठानम् आधानस्येव कामश्रुतिप्रयुक्तस्य इति । तदयुक्तमित्यपरे । कथम् ? ‘अष्टवर्षं ब्राह्मणमुपनयीते’ति यद्ययमाचार्यस्य नियोगः ? माणवको नियुक्तो भवति । अनियुक्तस्य स्वाध्यायाध्ययने प्रवृत्तिर्न सम्भवति । किञ्चान्यत्आचार्यकरणविधिरनित्यः, ‘ब्राह्मणस्याधिकाः प्रवचन याजनप्रतिग्रहाःइति वृत्त्यर्थोऽधिकारः ; अतः स्वेच्छातः प्रवृत्तिः । उपनयनाख्यस्तु संस्कारो नित्यः ; अकरणे दोषश्रवणात् — ‘अत ऊर्ध्वं त्रयोऽप्येते यथाकालमसंस्कृताः । सावित्रीपतिता व्रात्या भवन्त्यार्यविगर्हिताःनैतैरपूतैर्विधिवदापद्यपि हि कर्हिचित् । ब्राह्मान् यौनांश्च सम्बन्धानाचरेद् ब्राह्मणः क्वचिदि’तिसंस्कारश्च स्वाध्यायाध्ययनार्थः । एवं स्वाध्यायाध्ययनमपि नित्यम् । तथा निन्दाश्रवणम् — ‘अश्रोत्रिया अननुवाक्या अनग्नयः शूद्रसधर्माणो भवन्ती’ति । एवं चेत् कथं नित्यमनित्येन प्रयुज्यते ? इति वाच्यम् । ननु कथमाचार्यकरणविधिरनित्यः ? यावता वृत्त्यर्थो हि सः । हि कश्चिद्विना धनेन जीविष्यति । तथा चोक्तं — ‘जीविष्यति विना धनेनेत्यनुपपन्नमि’ति । अतः सर्वेषां सर्वदा समीहितफलः सन् कथमनित्यः स्यात् ? भवेदेवं नित्यता फलवशेन, शब्दात् । तथाहिफलस्य नित्यसमीहितत्वादवश्यकर्तव्यता वास्तवी । तत्रासति शब्दव्यापार इच्छातः कर्तव्यताप्रतिपत्तिः स्यात् , कर्तव्यताप्रतिपत्तेरिच्छा । शाब्द्यां हि नित्यकर्तव्यताप्रतिपत्तौ शब्दस्य सर्वदा सर्वान् प्रत्येकरूपत्वादिच्छाऽपि तद्वशवर्तिनी तथैव स्यात् ; औचित्यादिभावेऽपि कस्यचित् कथञ्चित् क्वचित् कदाचिदिच्छायाः । प्रमाणतस्तावान्नित्यः । तेन नित्येन तथाविधमेव प्रयुज्यते, इति नित्यानित्यसंयोगविरोधः फलवशात्तु तत्कर्तव्यताप्रतिपत्तौ यद्यपि नित्याभिलषितं फलम् ; तथाऽप्युपायान्तरादपि तत्सिद्धेः, तदेकोपायत्वेऽप्यालस्यादायासासहिष्णुतया वा कामस्य कुण्ठीभावे कर्तव्यतायाः प्रतिपत्तिः, इत्यनित्यत्वे सति तेन नित्यस्य प्रयोज्यत्वमुपपद्यते

ननु पितुः पुत्रोत्पादनविधिरनुशासनपर्यन्तः श्रूयते — ‘तस्मात्पुत्रमनुशिष्टं लोक्यमाहुस्तस्मादेनमनुशासती’ति । अतः पुत्रोत्पादनस्य नित्यत्वात् तस्य चानुशासनपर्यन्तत्वात् तदाक्षिप्तत्वाच्चोपनयनाध्ययनयोः कथमाचार्यकरणविधिरनित्यः स्यात् ? कथं वाऽध्ययनस्यार्थावबोधपर्यन्तता भवेत् ? उच्यतेनानेन पुत्रानुशासनं विधीयते, पुत्रोत्पादनविधिशेषत्वेन स्वतन्त्रमेव वा, किन्तु सम्पत्तिकर्मविधिशेषोऽयमर्थवादः ; तेनैकवाक्यत्वात् । अतो यथाप्राप्तमनुशासनमनुवदति । किं तदनुशासनम् ? कथं वा तत् प्राप्तवदनूद्यते ? उच्यतेनित्यस्य पुत्रोत्पादनविधेः प्रयोजनं यत् पितॄणां लुप्तपिण्डोदकक्रियाणां नरकपातश्रवणात् पितृपिण्डोदकक्रियाद्यनुष्ठानेन नरकपातत्राणम् । शास्त्रीयेण परिज्ञानेन विना तदनुष्ठानं सम्भवति । तेन पित्रा नित्यमात्मनः पुत्रोत्पादनाधिकारं परिसमापयितुं पुत्रस्यावश्यकर्तव्यार्थविषयं गर्भाष्टवर्षेण ब्राह्मणेन त्वयोपनयनाख्यः संस्कारः कारयितव्यः, यः स्वाध्यायाध्ययनार्थो विहित इति यदनुशासनम् , तदिहानूद्यते — ‘तस्मादेनमनुशासतीति’ ॥ तथाच लिङ्गं — ‘श्वेतकेतुर्हाऽऽरुणेय आस । तं पितोवाच श्वेतकेतो वस ब्रह्मचर्यम् । वै सोम्यस्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवती’ति । तदेवमनित्येनाचार्यकरणविधिना कथं नित्यं प्रयुज्यत इति वाच्यम् । किं आचार्ये प्रेत आचार्यान्तरकरणं प्राप्नोति ; नह्यधिकारी प्रतिनिधीयते, नाप्यधिकारः । अधिकारी स्वाधिकारसिध्यर्थं साधनान्तरभ्रेषे साधनान्तरं प्रतिनिधाय स्वाधिकारं निर्वर्तयतीति युक्तम् ; एवमेषा बहुदोषा कल्पना दृश्यते । तस्माद् माणवकस्यैवैष नियोगः । कथं गुणकर्तृव्यापारसम्बद्धो विधिः प्रधानकर्तृस्थो भवति ? यथा — ‘एतया ग्रामकामं याजयेदि’ति ग्रामकामस्य यागो विधीयते, गुणकर्तृव्यापारः प्राप्तोऽनूद्यते ; तस्य याजनस्य वृत्त्यर्थत्वात् , एवमिहापि गुणकर्तृव्यापारो वृत्त्यर्थत्वेन प्राप्तोऽनूद्यते

अत्रैके प्रत्यवतिष्ठन्तेयुक्तंयाजयेदि’ति प्रधानकर्तृव्यापाराभिधायिनो यजतेः परस्य गुणकर्तृव्यापाराभिधायिनः शब्दान्तरस्य णिच उपादानात् तस्य चाविधेयत्वात् प्रधानकर्तृव्यापारस्याभिधानम् , इह पुनरेको नयतिर्माणवकस्य व्यापारं ब्रूयात् ? आचार्यस्य वा ? तावद् माणवकस्य नयत्यर्थकर्तृत्वम् ; कर्मकारकत्वात् तस्य । अतोऽनभिधेयव्यापारः कथं नियुज्येत ? हि परव्यापारे परो नियोक्तुं शक्यते । स्वव्यापारे हि पुरुषस्य नियोगः । तस्मान्नैष माणवकस्य नियोगः । तदेवमाचार्यकरणविधिप्रयुक्तत्वादध्ययनस्य नात्राधिकारचिन्तया मनः खेदयितव्यम् इति । उच्यतेमाणवकस्यैवायं नियोगः, नाचार्यस्येह किञ्चिद्विधेयमस्ति । कथम् ? यत्तावत्उपनयीते’त्यस्याभिधानतो न्यायतश्च निरूप्यमाणोऽर्थ एतावान् प्रतीयते, आत्मानमाचार्यं कर्तुं कञ्चिदात्मसमीपमानीयाध्यापयेत् ? इति । एतच्च सर्वं वृत्त्यर्थत्वेन ब्राह्मणस्यान्यत एव प्राप्तम् , नात्र विधातव्यम् । तत्र कमध्यापयेत् ? इति विशेषाकाङ्क्षायांब्राह्मणमष्टवर्षमि’ति विशेषस्य विधायकमेतत् स्यात् । तत्र प्राप्ते व्यापारेऽर्थद्वयविधानमेकस्मिन् वाक्ये शक्यते वक्तुम् ; वाक्यभेदप्रसङ्गात् । अतो नाचार्यस्य किञ्चिद् विधेयमिहास्ति । ननु माणवकस्यापि किञ्चिद् विधेयमस्ति, अस्तीति ब्रूमः । कथम् ? यदैवउपनयीते’ति शब्दतो न्यायतश्चात्मानमाचार्यं कर्तुमुपनयनेन संस्कृत्य कञ्चिदध्यापयेदिति प्रतीयते, तदैव यागश्रुतौ द्रव्यदेवतामात्रप्रतीतिवदध्ययनार्थोपनयनसंस्कार्योऽपि सामान्यतः प्रतीयते । तस्य प्रेक्षावतो निष्प्रयोजने प्रवर्तयितुमशक्यत्वात् , विद्यमानस्याप्यध्ययनेऽर्थावबोधस्य प्रागसिद्धेः प्रवृत्तिहेतुत्वासिद्धेः, विधितोऽवश्यकर्तव्यतां प्रतिपद्य स्वयमेव प्रवर्तते । तेनअष्टवर्षं ब्राह्मणमुपनयीते’त्यष्टवर्षो ब्राह्मण उपसर्पेदाचार्यमित्यर्थः ; ग्रामकामं याजयेद् ग्रामकामो यजेतेति यथा । ननु एवमप्यधिकारो लभ्यते, अस्त्यत्राधिकारहेतुर्नित्यं निमित्तं वयोविशिष्टा जातिः, जातिविशिष्टं वयो वा । ननु जातिवयसी विशेषणमुपादेयस्य, अनुपादेयविशेषणमधिकारहेतुरिति स्थितिः, सत्यमस्तीयं स्थितिः

किन्तु कर्तुरधिकार इत्यपि स्थिता न्यायविदः । किं चे माणवको जातिवयोविशिष्ट उपादेय उपनयने, किं तूपनयनमेव तदर्थं विधीयते ; संस्कारस्य संस्कार्योद्देशेन विधानात् । अतः संस्कार्यस्यावच्छेदकत्वं वयोजात्यवच्छिन्नं सद् भवति नित्यनिमित्तं माणवकस्य संस्कार्यत्व इति । तदेवमुपनयनस्याध्ययनार्थत्वात् तस्य साधिकारत्वात् तेन चाधिकारेण साधिकारोऽध्ययनविधिः । अक्षरग्रहणमात्रेण चाधिकारसिद्धिः, अर्थावबोधस्तु कारणान्तरादिति

ननु चैवमधीतो वेदो धर्मजिज्ञासाया हेतुर्ज्ञातः, अनन्तरं धर्मो जिज्ञासितव्यः, इति वेद एवाधीतोन्यनिरपेक्षो धर्मजिज्ञासाया हेतुरिति वदन्ति, सत्यम् ; तथैव तत् , को वाऽन्यथा वदति ? अधीतवेदो ह्यवश्यकरणीयानि नित्यनैमित्तिकान्यकरणे प्रत्यवायजनकानि कर्माणि प्रतिपद्यते, तान्यनन्तरमेवावश्यविचारणीयानि, कथमेतान्यनुष्ठेयानीति । अतः प्रागध्ययनादप्रतिपत्तेरयोग्यत्वादधीतवेदत्वमेवान्यनिरपेक्षमर्थावबोधहेतुरिति गीयते । तथा ब्रह्मज्ञानमवश्यकर्तव्यम् , अकरणे प्रत्यवायहेतुरिति प्रमाणमस्ति । तस्मादधीतवेदेनावश्यकर्तव्या धर्मजिज्ञासा, नैवं ब्रह्मजिज्ञासा । तदेव ब्रह्मजिज्ञासाया अधिकारानर्हत्वादर्हयोश्च ब्रह्मतज्ज्ञानयोरनर्थ्यमानत्वाद् जिज्ञासाऽनुपपन्ना

मङ्गलस्यापि वाक्यार्थे समन्वयाभावात् श्रुतिमात्रोपयोगाच्च साधूक्तम्

अथ शब्द आनन्तर्यार्थः परिगृह्यते नाधिकारार्थ इति

ननु प्रक्रियमाणात् पूर्वप्रकृतमपि किञ्चिद् नियमेन प्रतीयतेऽथशब्दात् , ततस्तत्प्रतिपत्त्यर्थं किमिति गृह्यते ? उच्यतेनैतदानन्तर्याद् व्यतिरिच्यते । कथम् ? एवम्तत् प्रक्रियमाणस्य नियमेन पूर्ववृत्तं भवति, यदि तस्यानन्तरं तन्मात्रापेक्षं तत्प्रक्रियेत, एवं सति प्रक्रियमाणस्य हेतुभूतोऽर्थः पूर्वनिर्वृत्तो भवति ; अन्यथा यस्मिन् कस्मिंश्चित् पूर्ववृत्तापेक्षायामनुवादादृष्टार्थत्वयोरन्यतरत्वप्रसङ्गात् , अतो हेतुभूतोऽर्थोऽपेक्षितव्यः, तदेतदाह

पूर्वप्रकृतापेक्षायाश्च फलत आनन्तर्याव्यतिरेकादिति । सति चानन्तर्यार्थत्वे यथा धर्मजिज्ञासा पूर्ववृत्तं वेदाध्ययनं नियमेनापेक्षते, एवं ब्रह्मजिज्ञासाऽपि यत् पूर्ववृत्तं नियमेनापेक्षते, तद् वक्तव्यम् । स्वाध्यायानन्तर्यन्तु समानमिति

येन विना नियमेनानन्तरस्य प्रक्रिया तादृशो हेतुः पूर्वनिर्वृत्तो वक्तव्यः ; यस्यानन्तर ब्रह्मजिज्ञासा प्रक्रियते । स्वाध्यायाध्ययनन्तु समानम् साधारणो हेतुर्धर्मब्रह्मजिज्ञासयोः । अतश्चअथातो ब्रह्मजिज्ञासे’ति पुनरथशब्देन तन्मात्रापेक्षणं व्यर्थं स्यात् । अथवा समानं नात्यन्तमपेक्षितं, स्वयमेव सामर्थ्यं जनयितुं प्रयोक्तुं शक्तम् । अतः समानो हेतुः, नावश्यं निष्पादक इत्यर्थः

नन्विह कर्मावबोधानन्तर्यं विशेषःतथाच वृत्त्यन्तरे वर्णितम्-'कर्मणामधिकारपरम्परया शब्दतो वा संस्कारतया वा यथाविभागं तार्दथ्यावगमाद् निःश्रेयसप्रयोजनत्वाच्चानन्तर्यवचनोऽथशब्दोऽधिगतानन्तरमि'ति । अन्यैरपि स्ववृत्तौ वर्णितम्—'तत्राथातःशब्दौ प्रथम एवाध्याये प्रथमसूत्रे वर्णितौ । अथेति पूर्वप्रकृतां धर्मजिज्ञासामपेक्ष्यानन्तरं ब्रह्मजिज्ञासाप्रारम्भार्थः । अत इति पूर्वनिर्दिष्टस्यैवार्थस्य हेतुतामाचष्टे ब्रह्मजिज्ञासां प्रती'ति । अत्राह-

; धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरिति

वेदान्ताध्ययनं यद्यपि केवलं पुष्कलं कारणम् ; तथाऽपि तेन विनोत्पद्यते ब्रह्मजिज्ञासा, उपपद्यते तु धर्मावबोधनं विनाऽपीत्यभिप्रायः । कथम्? तत्र तावद् धर्मजिज्ञासायां त्रयं वृत्तम्-द्वादशलक्षणे प्रतिपादितन्यायसहस्रम् , तदनुग्रहोपजा-तश्च वाक्यार्थनिर्णयः, वाक्यार्थश्चाग्निहोत्रादिकं कर्म । तत्र यः प्रथमसूत्रेऽथशब्दोपादानसूचितो न्यायः स्वाध्यायस्यार्थावबोधोपयोगप्रतिपत्तिहेतुः, यदप्यौत्पत्तिकसूत्रे शब्दार्थयोः सम्बन्ध-नित्यत्त्वेन वेदान्तानां चापौरुषेयत्वेन कारणेनानपेक्षत्वं नाम प्रामाण्यकारणमुक्तम् , तदुभयमि-हाप्युपयुज्यते ; अपेक्षितत्वात् , इतरस्य पुर्नन्यायकलापस्य ब्रह्मजिज्ञासायामुपयोगोस्ति, यतो निरस्ताशेषप्रपञ्चं ब्रह्मात्मैकत्वं प्रतिज्ञातं तत्र । तत्प्रतिपादने तत्प्रतिपादनसामर्थ्ये वा शब्दानां कश्चित् न्यायोऽभिहितः । यत्पुनः प्रथमतन्त्रसिद्धन्यायोपजीवनमस्मिन्नपि तन्त्रे , तत् सगुणविद्याविषयम् । तत्र मानसी क्रियोपासना विधेयाऽनित्यफला धर्मविशेष एव । तदेवं न्यायकलापस्य ब्रह्मजिज्ञासायामुपयोगः । अतो तदपेक्षोऽथशब्दः । यत्पुनः स्वाध्याय-स्यार्थावबोधोपयोगेऽनपेक्षत्वेन स्वतःप्रामाण्यसिद्धौ न्यायद्वयम् , तत् अपेक्षितमपि केवलं ब्रह्मजिज्ञासाकारणम् ; स्वाध्यायवदेव, तेन तदपेक्षोऽथशब्दः । यः पुनर्वाक्यार्थनिर्णयः, कथमपि ब्रह्मजिज्ञासायामुपयुज्यते । ह्यन्यविषयं ज्ञानमन्यत्र प्रवृत्तौ हेतुः । प्रतिपत्तौ कदाचित् स्यादपि यथाऽनुमानादौ, तदपीह नास्ति ; धर्मब्रह्मणोः सम्बन्धानिरूपणात् , अतः कर्मणामुप-योगः परिशिष्यते । तथा तैरप्युक्तम्—कर्मणामधिकारपरम्परया शब्दतो वा संस्कारतया वा यथाविभागं तार्दथ्यावगमात्' इति । अत्रेदं निरूप्यते- केयमधिकारपरम्परा? कथं वा तार्दथ्य-मिति? यथा तावत् प्रासादमारुरुक्षोः सोपानपरम्परा क्रमशः प्राप्यमाणा प्रासादारोहणहेतुः, तथेह ब्रह्मजिज्ञासां चिकीर्षोः कर्माणि सहस्रसंवत्सरपर्यन्तानि तत्क्रियाहेतुतया स्थितानि ; प्रमाणाभावात् । अथ कामोपहतमनास्तदभिमुखो ब्रह्मजिज्ञासायां नावतरति, कर्मभिस्तु कामा-वाप्तौ तदुपशमाद् ब्रह्वजिज्ञासायामवतरति । तथाच सार्वभौमत्वाद्युत्तरोत्तरशतगुणोत्कर्षावस्थितान् ब्रह्मलोकावाप्तिपर्यन्तान् कामानवापयन्त्यधिकारपरम्परया कर्माणि ; ब्रह्मलोकात् परं कामयितव्याभावात् , निर्विषयस्य कामस्यानुपपत्तेर्दग्धेन्धनाग्निवत् कामोपशमे ब्रह्मजिज्ञासां करोति ; कर्मानुष्ठानानन्तर्यं तर्हि वक्तव्यम् धर्मावबोधानन्तर्यम्

कथं वा कामाप्तिः कामोपशमहेतुः? दृष्टान्तसामर्थ्यात् , यथा हविषा कृष्णवर्त्मा वर्धमानोऽपि सर्वहविःप्रक्षेपे सर्वं दग्ध्वा स्वयं शाम्यति, एवं विषयेन्धनः कामो यावद्विषयं वर्धमानोऽपि तत्क्षये क्षीणेन्धनाग्निवत् स्वयं शाम्यतीति युक्तम् , सत्यं युक्तम् ; यदि हैरण्यगर्भो भोगो क्षीयेत, क्षीयते तु कृतकत्वात् परिच्छिन्नविषयत्वाच्च ; तत्क्षये पूर्ववदनवाप्तोऽवाप्तव्यः, इति कामः समुल्लसत्येव । अतो विषयस्य क्षयादिदोषदर्शनात् कामोपशमो हिरण्यगर्भस्यापि । तथाचोक्तम्-'ज्ञानमप्रतिघं यस्य वैराग्यं जगत्पतेः । ऐश्वर्यं चैव धर्मश्च सह सिद्धं चतुष्टयम्' ॥ इति । तस्मात् सर्वत्र कामस्य विषयदोषदर्शनमेवोच्छेदकारणम् , नित्यवस्तुदर्शनं ; रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते' इति स्मृतेः । नचैवंलक्षण आगमोऽस्ति—हिरण्यगर्भोपभोगाद् निखिलविषयावाप्तौ कामोच्छेदो भवतीति । ननु कामावाप्तौ स्वस्थहृदयः कार्यान्तरक्षमो भवतीति सर्वेषां स्वसंवेद्यमेतत् , सत्यम् ; तदुत्कलिकोपशमात् , तदुत्कलिकोपशमश्च तदा सामर्थ्यहानेः ; सति सामर्थ्ये स्वच्छन्दोपभोगसम्भवात् । यदि पुनरेकान्ततो निवृत्तकामो भवेत् , तं विषयं पुनः सङ्गोपायेत् । तस्माद् कर्मणां कामनिर्बहणद्वारेण ब्रह्मजिज्ञासायोग्यतापादनम् ; अतो कर्मावबोधापेक्षोऽप्यथशब्दः ।

भवतु तर्हि संस्कारद्वारेण कर्मणां पूर्ववृत्तत्वम्? `यस्यैतेऽष्टाचत्वारिंशत्संस्काराः, अष्टौ चात्मगुणाः ब्रह्मणः सायुज्यं गच्छती'ति `महायज्ञैश्च यज्ञैश्च ब्राह्मीयं क्रियते तनुरि'ति `ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः । यथाऽऽदर्शतलप्रख्ये पश्यन्त्यात्मानमात्मनी'ति स्मृतेः ; `विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेने'ति `येन केनचन यजेतापि दर्विहोमेनानुप-हतमना एव भवती'ति श्रुतेः । वक्ष्यति सूत्रकारः—'अत एवाश्रमकर्मापेक्षा' `सर्वापेक्षा यज्ञादिश्रुतेरश्ववदि'ति  । सत्यमेवम् ; यदि समानजन्मानुष्ठितमेव कर्म संस्कुर्वद् ब्रह्मजिज्ञासा-योग्यत्वहेतुः स्यात् । नैयोगिके फले कालनियमोऽस्ति । तेव पूर्वजन्मानुष्ठितकर्मसंस्कृतो धर्मजिज्ञासां तदनुष्ठानं चाप्रतिपद्यमान एव ब्रह्मजिज्ञासायां प्रवर्तते, इति नियमेव तदपेक्षोऽथशब्दो युज्यते । एतेनऋणापाकरणद्वारेणापि नियमेन पूर्ववृत्तत्वम्प्रत्युक्तम्तथाच श्रुति-स्मृती `यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्' `तस्याश्रमविकल्पमेके ब्रुवते' इतितस्मात् साधूक्तम्धर्मजिज्ञासायाः प्रागप्यधीतवेदान्तस्य ब्रह्मजिज्ञासोपपत्तेरितिअथापि स्यात् हेतुत्वेनानन्तरवृत्तकर्मावबोधापेक्षमथशब्दं ब्रूमः, अपितु क्रमप्रतिपत्त्यर्थम् ; यथा `हृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसः' इति, तदेतदयुक्तम् ; न्यायसूत्रेऽपि चैककर्तृकाणां बहूनां युगपदनुष्ठानासम्भवादवश्यम्भाविनि क्रमे ब्रूयादपि तन्नियममथशब्दः । एककर्तृकत्वं शेष-शेषिणोः शेषाणां बहूनामेकशेषिसम्बद्धानामधिकारान्तरप्रयुक्त्त्युप-जीविनां भवति, नेतरथा । हि धर्मब्रह्मजिज्ञासयोरेतेषामन्यतमत्वे प्रमाणमस्ति, तदिदिमाह- - यथा हृदयाद्यवदानानामानन्तर्यनियमः ; क्रमस्य विवक्षितत्वात् , तथेह क्रमो विवक्षितः ; शेषशेषित्वे(१)ऽधिकृताधिकारे वा प्रमाणाभावाद् धर्म-ब्रह्मजिज्ञासयोरिति

अथापि स्यात् हेतुत्वेनानन्तरवृत्तकर्मावबोधापेक्षमथशब्दं ब्रूमः, अपि तु क्रमप्रतिपत्त्यर्थम् ; यथाहृदयस्याग्रेऽवद्यत्यथ जिह्वाया अथ वक्षसःइति, तदेतदयुक्तम् ; न्यायसूत्रेऽपि चैककर्तृकाणां बहूनां युगपदनुष्ठानासम्भवादवश्यम्भाविनि क्रमे ब्रूयादपि तन्नियममथशब्दः । एककर्तृकत्वं शेषशेषिणोः शेषाणां बहूनामेकशेषिसम्बद्धानामधिकारान्तरप्रयुक्त्त्युपजीविनां भवति, नेतरथा । हि धर्मब्रह्मजिज्ञासयोरेतेषामन्यतमत्वे प्रमाणमस्ति, तदिदमाह

यथा हृदयाद्यवदानानामानन्तर्यनियमः ; क्रमस्य विवक्षितत्वात् , तथेह क्रमो विवक्षितः ; शेषशेषित्वेऽधिकृताधिकारे वा प्रमाणाभावाद् धर्मब्रह्मजिज्ञासयोरिति

अथापि स्यात् , यथाऽऽग्नेयादीनां षण्णां यागानामेकं फलं स्वर्गविशेषः, एवं धर्मब्रह्मजिज्ञासयोरप्येकं फलं स्वर्गः, ततः क्रमापेक्षायां तन्नियमार्थोऽथशब्द इति, यथावा द्वादशभिरपि लक्षणैर्धर्म एको जिज्ञास्यः, प्रतिलक्षणमंशान्तरपरिशोधनया, यथावाऽस्मिन्नपि तन्त्रे चतुर्भिरपि लक्षणैरेकं ब्रह्म जिज्ञास्यम् , तत्र चांशान्तरपरिशोधनेन लक्षणानां क्रम नियमः । एवं तन्त्रद्वयेनैकं ब्रह्म जिज्ञास्यं, तत्र क्रमनियमार्थोऽथशब्द इत्याशङ्क्याह

फलजिज्ञास्यभेदाच्च

धर्मब्रह्मजिज्ञासयोरिति सम्बन्धःतमेव भेदं कथयति

अभ्युदयफलं धर्मज्ञानम् । तच्चानुष्ठानापेक्षम् ।

अभ्युदयः फलं धर्मज्ञानस्येति प्रसिद्धमेव, कस्यचिद् विसंवादः । तदपि ज्ञानस्य फलम् , अपितु ज्ञेयस्य, तस्यापि ज्ञेयत्वादेव फलम् ; किन्त्वनुष्ठीयमानत्वात् ।

निःश्रेयसफलं तु ब्रह्मज्ञानं, , चानुष्ठानान्तरापेक्षमिति

ब्रह्मज्ञानस्य फलमपवर्गः । नित्यसिद्धोऽव्यवहितः स्वसंवेद्यः, यतोऽविद्या संसारहेतुः । चाविद्यामनिवर्तयन्ती विद्योदेति । तदेवमत्यन्तविलक्षणत्वात् प्रस्थानभेदाच्च फलद्वारेणाप्येकोपनिपातः ; तेन क्रमाकाङ्क्षा तन्त्रद्वयस्य । जिज्ञास्यं पुनरत्यन्तविलक्षणं, यतः कार्यो धर्मः पुरुषव्यापारतन्त्रः स्वज्ञानकालेऽसिद्धसत्ताकः प्रथमे तन्त्रे जिज्ञास्यः, इह तु नित्यनिर्वृत्तं पुरुषव्यापारानपेक्षं ब्रह्म जिज्ञास्यम् ।

किं

चोदनाप्रवृत्तिभेदाच्च ।

इदमपरं प्रमाणोपाधि प्रमेयवैलक्षण्यम् । धर्मचोदना हि प्रेरयन्ती पुरुषमसति विषये प्रेरयितुमसमर्था सती विषयमप्यवबोधयति । ब्रह्मप्रमाणं पुनर्बोधयत्ये केवलं नावबोधे पुरुषः प्रेर्यते । अवबोधो हि यथावस्तु यथाप्रमाणं चोदेति, पुरुषस्येच्छामप्यनुवर्तते ।

तत्र कुतः प्रेर्येत ? यथाऽक्षार्थयोः सन्निकर्षे सति तेन सन्निकर्षेणाक्षावगम्यार्थज्ञाने पुरुषो नियुज्यते, तद्वत् ; अनिच्छतोऽपि स्वयमुत्पत्तेः, ब्रह्मणि तु नित्यसिद्धत्वान्न प्रेरणा सम्भवति । ‘ब्रह्मचोदने’ति चोदनाशब्दो भाष्ये प्रमाणविवक्षया प्रयुक्तः, प्रेरणाविवक्षया, तदाह

या हि चोदना धर्मस्य लक्षणं, सा स्वविषये विनियुञ्जानैव पुरुषमवबोधयति, ब्रह्मचोदना पुनः पुरुषमवबोधयत्येव केवलम् ; अवबोधस्य चोदनाजन्यत्वान्न पुरुषोऽवबोधे नियुज्यते ; यथाऽक्षार्थसन्निकर्षेणार्थावबोधे, तद्वत्

तदेवं जिज्ञास्यैक्यनिबन्धनाऽपि क्रमापेक्षा तन्त्रद्वयस्य ; येन तदपेक्षोऽथशब्दो व्याख्यायेत, अत उपसंहरति

तस्मात् किमपि वक्तव्यं, यदनन्तरं ब्रह्मजिज्ञासोपदिश्यत इतिउच्यतेनित्यानित्यवस्तुविवेकः, इहामुत्रार्थफलभोगविरागः, शमदमादिसाधनसम्पत् , मुमुक्षुत्वं चेति

उक्तं पुरस्ताद् अधिकारार्थत्वेऽथशब्दस्य शास्त्रारम्भवैयर्थ्यम् ; प्रवृत्त्यभावादिति, प्रवृत्त्यभावे कारणमुक्तम् , अखिलसुखभोगाद्धिरण्यगर्भावाप्तिपर्यन्तान्निवर्तयति ब्रह्मजिज्ञासा क्रियमाणा, तेन तत उद्वेगो लोकस्य, कुतस्तत्र प्रवृत्तिरिति ? तस्माद् यावदस्य हिरण्यगर्भावाप्तिपर्यन्तस्य भोगस्योत्पादपरिच्छेदाभ्यां विनाशित्वादनित्यत्वं नावैति । विनश्यदपीदं कूटस्थनित्यवस्तुपर्यन्तमेव विनश्यति ; अन्यथा निरुपादानस्य पुनरुत्पत्त्यसम्भवः, इति वर्तमानस्याप्यसम्भवादभावोऽभविष्यदिति निरूपणाद् नित्यानित्यवस्तुविवेको यावन्न जायते । यावच्चाभिमुखविनाशदर्शनाद् भुञ्जानस्यापि भोगान् स्रक् - चन्दन - वस्त्रालङ्कार - भोगानिवाग्निप्रवेशार्थं भोगार्थव्यापारजनितदुःखानुभवाच्च तन्निमित्तां निर्वृतिमप्यलभमानो भोगाद् विरक्तः । ततो मुमुक्षुत्वं तत्साधनशमदमोपरमतितिक्षासमाधानसम्पन्नो भूत्वा यावन्नालम्बते, तावद् ब्रह्मजिज्ञासां कः प्रतिपद्येत ? कथञ्चिद् वा दैववशात् कुतूहलाद्वा बहुश्रुतत्वबुद्ध्या वा प्रवृत्तोऽपि निर्विचिकित्सं ब्रह्म आत्मत्वेनावगन्तुं शक्नोति ; यथोक्तसाधनसम्पत्तिविरहात् , अनन्तर्मुखचेता बहिरेवाभिनिविशमानः । तस्माद् वर्णितवस्तुकलापानन्तर्यमभिप्रेत्याथशब्दं प्रयुक्तवानाचार्यः । तदाह भाष्यकारः

तेषु हि सत्सु प्रागपि धर्मजिज्ञासाया ऊर्ध्वं शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं , विपर्यये । तस्मादथशब्देन यथोक्तसाधनसम्पत्त्यानन्तर्यमुपदिश्यत इति