ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
पञ्चपादिका
 
तत्तु समन्वयात् ॥ ४ ॥
तुशब्दः पूर्वपक्षव्यावृत्त्यर्थःतद्ब्रह्म सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादेवावगम्यतेकथम् ? समन्वयात्सर्वेषु हि वेदान्तेषु वाक्यानि तात्पर्येणैतस्यार्थस्य प्रतिपादकत्वेन समनुगतानिसदेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ. उ. १ । १ । १) तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्अयमात्मा ब्रह्म सर्वानुभूः’ (बृ. उ. २ । ५ । १९) ब्रह्मैवेदमृतं पुरस्तात्’ (मु. उ. २ । २ । १२) इत्यादीनि तद्गतानां पदानां ब्रह्मस्वरूपविषये निश्चिते समन्वयेऽवगम्यमाने अर्थान्तरकल्पना युक्ता, श्रुतहान्यश्रुतकल्पनाप्रसङ्गात् तेषां कर्तृदेवतादिस्वरूपप्रतिपादनपरता अवसीयते, तत्केन कं पश्येत्’ (बृ. उ. २ । ४ । १४) इत्यादिक्रियाकारकफलनिराकरणश्रुतेः परिनिष्ठितवस्तुस्वरूपत्वेऽपि प्रत्यक्षादिविषयत्वं ब्रह्मणः, तत्त्वमसि’ (छा. उ. ६ । ८ । ७) इति ब्रह्मात्मभावस्य शास्त्रमन्तरेणानवगम्यमानत्वात्यत्तु हेयोपादेयरहितत्वादुपदेशानर्थक्यमिति, नै दोषः; हेयोपादेयशून्यब्रह्मात्मतावगमादेव सर्वक्लेशप्रहाणात्पुरुषार्थसिद्धेःदेवतादिप्रतिपादनस्य तु स्ववाक्यगतोपासनार्थत्वेऽपि कश्चिद्विरोधः तु तथा ब्रह्मण उपासनाविधिशेषत्वं सम्भवति, एकत्वे हेयोपादेयशून्यतया क्रियाकारकादिद्वैतविज्ञानोपमर्दोपपत्तेः हि एकत्वविज्ञानेनोन्मथितस्य द्वैतविज्ञानस्य पुनः सम्भवोऽस्ति येनोपासनाविधिशेषत्वं ब्रह्मणः प्रतिपाद्येतयद्यप्यन्यत्र वेदवाक्यानां विधिसंस्पर्शमन्तरेण प्रमाणत्वं दृष्टम् , तथाप्यात्मविज्ञानस्य फलपर्यन्तत्वान्न तद्विषयस्य शास्त्रस्य प्रामाण्यं शक्यं प्रत्याख्यातुम् चानुमानगम्यं शास्त्रप्रामाण्यम् , येनान्यत्र दृष्टं निदर्शनमपेक्ष्येततस्मात्सिद्धं ब्रह्मणः शास्त्रप्रमाणकत्वम्

तत्तु समन्वयात्

तत् ब्रह्म सर्वज्ञत्वादिगुणकं वेदान्तशास्त्रात्प्रतीयत इति प्रतिजानीते ।

हेतुं चाचष्टे

समन्वयादिति ।

तत्र तात्पर्येण वेदान्तवाक्यानां समन्वयादित्यर्थःसम्यगन्वयः समन्वयः । अथ केयं सम्यक्ताऽन्वयस्य ? पदानां परस्परानवच्छिन्नार्थानामनन्याकाङ्क्षाणामव्यतिरिक्तैकरसप्रातिपदिकार्थमात्रान्वयः ; ‘सोऽयमि’त्यादि वाक्यस्थपदानामिव । प्रकृष्टप्रकाशशब्दयोरिव चन्द्रपदाभिधेयार्थकथनेन । तथा व्यक्तिविशेषः, कश्चिच्चन्द्रप्रातिपदिकाभिधेयः केनचित् पृष्टःअस्मिन् ज्योतिर्मण्डले कश्चन्द्रो नाम ? ’ इति तस्य प्रतिवचनंप्रकृष्टप्रकाशश्चन्द्रःइति । तदेवं प्रतिवचनं भवति यदि यथा चन्द्रपदेनोक्तं, तथाऽऽभ्यामपि पदाभ्यामुच्येत । एवं सति नीलोत्पलवदयुतसिद्धपरस्परावच्छिन्नविशेषणविशेष्यभावेनाप्यन्वयो दुर्लभः ।

कुतः पृथक्सिद्धः क्रियाकारकलक्षणः सम्बन्धः ? तथाविधान्युदाहरति

सदेव सोम्येदमग्र इत्यादीनि

ननु जन्मादिसूत्रोदाहरणेष्वेव प्रामाण्यं दर्शनीयं, किमुदाहरणान्तरेण ? बाढम् ; अस्त्यत्राभिप्रायो भाष्यकारस्य । तत्र ब्रह्मणो लक्षणं वक्तव्यमिति तटस्थस्यैव ब्रह्मणो निरूपकाणि वाक्यान्युदाहृतानि, इह तुतत्त्वमसी’ति जीवस्य ब्रह्मात्मतावगतिपर्यन्तानि वेदान्तवाक्यानि तटस्थमेव जगत्कारणं प्रतिपाद्य पर्यवस्यन्ति, इत्यतस्तथाभूतान्येव वाक्यान्युदाहृतानि — ‘सदेव सोम्येदमग्र आसीदि’त्येवमादीनि । यत्पुनः सिद्धे वस्तुनि प्रत्यक्षादिसम्भवात् तदभावे मिथ्यात्वाशङ्कायामप्रामाण्यमिति, तत् रूपाद्यभावाद् नेन्द्रियगोचर इति प्रत्युक्तम्

ननु इन्द्रियागोचरत्वादेव प्रत्यक्षाद्यविषयत्वान्न शब्दमात्रस्य तत्र प्रामाण्यमित्युक्तम् , उच्यते ; यद्यपि शब्दमात्रस्य प्रत्यक्षादिविषय एव प्रयोगो दृष्टः, व्युत्पत्ता तु कथं व्युत्पद्यते ? इति वाच्यम् । श्रोतृव्यवहारो हि मूलं बालानां व्युत्पत्तेः । श्रोतुर्ज्ञानान्तरानिमित्ततापरिशुद्धः शब्दसामर्थ्यावगमहेतुः । अतो प्रतिपत्तुर्ज्ञानान्तरासिद्धार्थावबोधकत्वं सामर्थ्यावगमकालेऽवगतम् । तेनानवगम्यैव तद्विषयं ज्ञानं सामर्थ्यावगमः, यथाऽवगमं विज्ञानोत्पत्तिः । यदा पुनर्व्युत्पन्नः स्वयं प्रयुयुक्षते परप्रतिपत्तये, तदा ज्ञानान्तरसन्निधापितं स्वसाक्षिकं विवक्षन् सामर्थ्यावगमकालेऽपि तयोः सत्तां प्रतिपद्यते केवलं, ज्ञानोत्पत्तौ तयोरुपयोगम् । तस्मान्न शब्दस्य प्रमाणान्तरगृहीतार्थप्रकाशने सामर्थ्यं व्युत्पत्तिकालेऽवगतं, किन्तु चक्षुरादिवदन्यनिरपेक्षो यथावगतसामर्थ्यश्च शब्दो विज्ञानं जनयति । तस्मान्न प्रमेयस्य प्रत्यक्षादिविषयत्वं शब्दस्य विज्ञानजनन उपयुज्यते । अपि चापौरुषेये शब्दे चक्षुषीव विज्ञानोत्पत्तावनपेक्षे कथमप्रामाण्यमाशङ्क्येत ? ननु उक्तमाशङ्काकारणं स्पर्शनगोचरचित्रनिम्नोन्नतविषयस्य चाक्षुषस्य प्रत्ययस्य तत्संवादाभावादप्रमाणत्वं, तत्साधूक्तम् ; अदुष्टकरणत्वादस्य, तस्य तदभावात् । तथाहि शब्दस्तावदपौरुषेयत्वाददुष्टः । प्रमेयस्य पुनर्ज्ञानहेतुत्वे प्रमाणमस्ति ; शब्दस्यैव तदेकनिष्ठत्वेन तन्नियमात् , चित्रस्य तु चाक्षुषज्ञाने सामग्र्यन्तःपातिनः श्यामादिरेखासन्निवेशविशेषो दोषः ; तदभावे तिमिराभाव इव सम्यग्दर्शनोत्पत्तेः । अतः प्रवर्तमानमपि प्रमाणं संवादकमेव, इति नाप्रामाण्यमावहति । संवादलक्षणं प्रामाण्यम् , अपि तु बोधलक्षणमिति प्रमाणविदां स्थितिः । अतो यथैव विधिवाक्यानां स्वार्थमात्रे प्रामाण्यम् , एवं स्वरूपवाक्यानामपि ; अनवगतार्थपरिच्छेदसामान्यात्

ननु विधिवाक्यानामेव प्रामाण्यं युक्तम् ; क्रियार्थत्वादाम्नायस्य, ; इतरेतराश्रयत्वात् । विधिवाक्यानामेव हि प्रामाण्ये सिद्धे क्रियार्थत्वमाम्नायस्य सिद्ध्येत् , क्रियार्थत्वे सिद्धे तेषामेव प्रामाण्यमितीतरेतराश्रयत्वं स्यात् , ह्येकमप्यन्यतः सिद्धम् ; अतो यदवगमयत्याम्नायस्तदर्थः सः । तस्माद् यथाकार्यमवगमयन्स्तदर्थः, एवमैकात्म्यमप्यवगमयंस्तदर्थो भवितुमर्हति । प्रतीतिकृतत्वात्प्रामाण्यस्य, प्रतीतिस्तु कार्यैकात्म्ययोस्तुल्या । प्रत्यक्षादिष्वप्येतदेव प्रमाणवृत्तं, यदनवगतमवगम्यते

आहयुक्तं प्रत्यक्षादीनां तावत् प्रामाण्यम् ; अपेक्षान्तराभावात् , आम्नायस्य त्वध्ययनविधिनोपादापितस्य पुनः पुरुषार्थमप्राप्य पर्यवसानं लभ्यते ; विधानानर्थक्यप्रसङ्गात् । तस्मादैकात्म्यवाक्यानां स्वार्थमात्रनिष्ठता युक्ता ; उच्यते, पुरुषो ह्येतावदपेक्षते, इष्टं मे स्यादनिष्टं मे मा भूदिति, त्वित्थमन्यथा वेति । चास्य स्वयमीष्टे । द्विविधं चेष्टं प्रेप्सति, किञ्चित्प्राप्यम् ; यथा ग्रामादि । किञ्चित्प्राप्तमपि ; यथा भ्रान्त्या हस्तगतमेव विस्मृतसुवर्णादि । अनिष्टमपि द्विविधं परिजिहीर्षति किञ्चित् परिहार्यंयथागर्तादि किञ्चित्परिहृतमपि ; भ्रान्त्या यथा रज्ज्वादि सर्पादिबुद्धिगृहीतम् । तत्र प्राप्यपरिहार्ययोः साधनज्ञानायत्तत्वात्पुरुषार्थस्य विधिप्रतिषेधावर्थवन्तौ । इतरयोस्तावद् भ्रान्तिमात्रव्यवहितत्वान्न तदपनयादन्यत् पुरुषार्थत्वेनापेक्षते । तदपनयश्च तत्त्वज्ञानाद् भवति नान्यथा । एवमपि लभ्यमानं पुरुषार्थमनुमन्यत एव पुरुषः, सुतरां चाभिनन्दति । सधनायत्तो ह्यायासाल्लभ्येत, ज्ञानायत्ते त्वायासोऽपि परिह्रियते । तेनानेकानर्थकलुषितमिवात्मानं मन्यमानस्य भ्रान्तस्य सर्वानर्थशून्यात्मतत्त्वप्रतिपादनादेव पुरुषार्थसिद्धेरैकात्म्यवाक्यानां स्वार्थमात्रनिष्ठत्वेऽपि विध्यानर्थक्यप्रसङ्गः । तस्मात् सिद्धं ब्रह्मणः शास्त्रप्रमाणत्वम्

इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां वेदान्तानां ब्रह्मणि समन्वयनिरूपणं नामाष्टमं वर्णकं समाप्तम् ॥