ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
पञ्चपादिका
 
तत्तु समन्वयात् ॥ ४ ॥
यत्पुनरुक्तं श्रवणात्पराचीनयोर्मनननिदिध्यासनयोर्दर्शनाद्विधिशेषत्वं ब्रह्मणः, स्वरूपपर्यवसायित्वमिति, न्नश्रवणवदवगत्यर्थत्वान्मनननिदिध्यासनयोःयदि ह्यवगतं ब्रह्मान्यत्र विनियुज्येत, भवेत्तदा विधिशेषत्वम् तु तदस्ति, मनननिदिध्यासनयोरपि श्रवणवदवगत्यर्थत्वात्तस्मान्न प्रतिपत्तिविधिविषयतया शास्त्रप्रमाणकत्वं ब्रह्मणः सम्भवतीत्यतः स्वतन्त्रमे ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम्एवं सतिअथातो ब्रह्मजिज्ञासाइति तद्विषयः पृथक्शास्त्रारम्भ उपपद्यतेप्रतिपत्तिविधिपरत्वे हिअथातो धर्मजिज्ञासाइत्येवारब्धत्वान्न पृथक्शास्त्रमारभ्येतआरभ्यमाणं चैवमारभ्येतअथातः परिशिष्टधर्मजिज्ञासेति, अथातः क्रत्वर्थपुरुषार्थयोर्जिज्ञासा’ (जै. सू. ४ । १। १) इतिवत्ब्रह्मात्मैक्यावगतिस्त्वप्रतिज्ञातेति तदर्थो युक्तः शास्त्रारम्भः — ‘अथातो ब्रह्मजिज्ञासाइतितस्मात् अहं ब्रह्मास्मीत्येतदवसाना एव सर्वे विधयः सर्वाणि चेतराणि प्रमाणानि ह्यहेयानुपादेयाद्वैतात्मावगतौ , निर्विषयाण्यप्रमातृकाणि प्रमाणानि भवितुमर्हन्तीतिअपि चाहुः — ‘गौणमिथ्यात्मनोऽसत्त्वे पुत्रदेहादिबाधनात्सद्ब्रह्मात्माहमित्येवं बोधे कार्यं कथं भवेत्अन्वेष्टव्यात्मविज्ञानात्प्राक्प्रमातृत्वमात्मनःअन्विष्टः स्यात्प्रमातैव पाप्मदोषादिवर्जितःदेहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितःलौकिकं तद्वदेवेदं प्रमाणं त्वाऽऽत्मनिश्चयात्इति ॥ ४ ॥

तदेवं सिद्धस्य वस्तुनः स्वरूपसत्तामात्रेणाप्रतिपन्नस्य प्रमाणविषयतया प्रमेयत्वाद्विधीयमानक्रियाकर्मत्वे तु कारकत्वस्य प्रमाणान्तरसिद्ध्यपेक्षत्वात्ततः सिद्ध्यनुपपत्तेर्वाक्यभेदप्रसङ्गात्प्रत्यक्षादिविरोधे देवताधिकरणन्यायासिद्धेर्वाक्यान्तरसिद्धस्य कर्मकारकत्वे चतुर्विधस्यापि कर्मकार्यस्य तत्रासम्भवात् , तत्कर्मकोपासनाद्देवताकर्मयागादिवत्स्वर्गोपमो मोक्षः फलं कल्प्येत ; तस्य तद्वदेवानित्यत्वप्रसङ्गात् , ‘ब्रह्म वेद ब्रह्मैव भवती’त्यादिभ्यो ब्रह्मवेदनमोक्षफलयोः निरन्तरत्वप्रतिपादकेभ्यो वाक्येभ्योऽर्थादन्तराले क्रियानुप्रवेशनिराकरणात् , ‘तरति शोकमात्मविदि’त्यादिश्रुतिभ्यो मोक्षप्रतिबन्धनिवृत्तिमात्रस्यैवात्मज्ञानफलस्य दर्शितत्वात् , साध्यान्तराभावे क्रियानुपपत्तेर्ब्रह्मात्मावगमस्य मुख्यैक्याधिकरणस्य सम्पदादिवद्विकल्पनानुपपत्तेः, प्रमाणजन्याया अपि विदिक्रियायः कर्मत्वनिषेधाद्विधीयमानोपास्तिक्रियाविषयत्वस्य दूरनिरस्तत्वाद् विदिक्रियाविषयत्वेऽपि समारोपितनिवर्तनमुखेन नित्यसिद्धचैतन्यस्य ब्रह्मस्वरूपतासमर्पणाद् वाक्यविषयत्वोपपत्तेः, सत्यपि वा विधिक्रियाकर्मत्वे तस्य विध्यनायत्तत्वाद्विधिच्छायानां संस्तावकत्वेनाहार्यत्वात् संसारनिवृत्तेश्च ज्ञानफलस्य दृष्टत्वात् । अतो विधिनिरपेक्षं स्वतन्त्रमेव ब्रह्म शास्त्रप्रमाणकं वेदान्तवाक्यसमन्वयादिति सिद्धम्

एवं सति पदानां परस्परसमन्वयजनितविज्ञानातिरेकेण चक्षुरादिवत्प्रवर्तकत्वस्याभावात् तद्विषयः शास्त्रारम्भः पृथगुपपद्यते । अन्यथाऽत्रापि बोधकत्वातिरेकेण प्रवर्तकत्वमपि चेत् , ‘अथातो धर्मजिज्ञासे’त्येवारब्धत्वान्न पृथगारभ्येत । अथाप्यबहिःसाधनत्वात्ततः परिशेषितमिति, तथाप्यथातः परिशिष्टधर्मजिज्ञासेति प्रतिज्ञा स्यात् ; प्रवर्तकविशेषजिज्ञासनात् । तदेवं ब्रह्मावगमात् प्रागेव विधिविधेयप्रमाणप्रमेयव्यवहारः । परतस्तु प्रमातुर्विधिविषयस्य चाभावान्न तत्सद्भाव इति ।

अपिचाहुरिति ।

प्रसिद्धमेतद् ब्रह्मविदामिति पूर्वोक्तं न्यायं सङ्क्षेपतः श्लोकैः सङ्गृह्णाति

गौणमिथ्यात्मन इति

गौणोऽहंमानो ममत्वेन सम्बन्धात्पुत्रदारादौ । अतः गौण आत्मा । मिथ्यादेहादारभ्याहङ्कर्तुरिदमंशपर्यन्तोऽहंमानो नात्मन्यात्माभिमानात् ; अतः मिथ्यात्मा । तस्योभयस्याप्यात्मनो मुख्यपरमार्थब्रह्मात्मावगमेन तदाधारपुत्रदेहादिबाधनादसत्त्वं तन्निमित्तं शास्त्रीयं नियोज्यत्वं शारीरं भोक्तृत्वं निमित्ताभावान्न कथञ्चिदुद्भवेदित्यर्थः । तदेतद्द्रढयन्नाह

अन्वेष्टव्यात्मेति

सोऽन्वेष्टव्यः’ (छा. उ. ८-७-१) इत्याद्युपक्रमेणोपदिष्टापास्ताशेषसंसाररूपब्रह्मात्मावगमात्प्रागेव प्रमातृत्वाभिमानः प्रत्यक्चितेर्यदा पुनस्तद्रूपं विस्मृतसुवर्णवदवाप्तं, तदा एव प्रमातृत्वाभिमतो निरस्तसंसारदोषः सम्पन्नः । कुतस्तस्य कर्तृत्वभोक्तृत्वे भवतः । यद्ययमहमुल्लेखप्रमुखप्रमातृत्वादिव्यवहारः कल्पितः, कथमिदानीमस्य प्रामाण्यम् ? इत्याशङ्क्याह

देहात्मप्रत्यय इति ।

यथा देहे विशिष्टजातीये तद्व्यतिरिक्तस्याहङ्कर्तुरहंमानसम्बन्धः कल्पितोऽपि स्वनिबन्धने लोकशास्त्रव्यवहारे यथाऽवगतितत्त्वहेतुः, तथाऽयं कल्पितोऽप्यलौकिकात्मस्वरूपप्रतिपत्तेः प्राक् प्रमाणम् ; निश्चितप्रत्ययोत्पादनाद्बाधानुपलब्धेश्चेति

इति परमहंसपरिव्राजकादि - श्रीशङ्करभगवत्पादान्तेवासिवर - श्रीपद्मपादाचार्यकृतौ पञ्चपादिकायां वेदान्तानां ब्रह्मणि समन्वयनिरूपणं नाम नवमं वर्णकं समाप्तम् ॥