ब्रह्मसूत्रभाष्यम्
प्रथमोऽध्यायः प्रथमः पादः
पञ्चपादिका
 
तत्तु समन्वयात् ॥ ४ ॥
यदप्युक्तम्कर्तव्यविध्यनुप्रवेशमन्तरेण वस्तुमात्रमुच्यमानमनर्थकं स्यात्सप्तद्वीपा वसुमतीइत्यादिवदिति, त्परिहृतम् । ‘रज्जुरियम् , नायं सर्पःइति वस्तुमात्रकथनेऽपि प्रयोजनस्य दृष्टत्वात्ननु श्रुतब्रह्मणोऽपि यथापूर्वं संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमित्युक्तम्अत्रोच्यतेनावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वं शक्यं दर्शयितुम् , वेदप्रमाणजनितब्रह्मात्मभावविरोधात् हि शरीराद्यात्माभिमानिनो दुःखभयादिमत्त्वं दृष्टमिति, तस्यैव वेदप्रमाणजनितब्रह्मात्मावगमे तदभिमाननिवृत्तौ तदेव मिथ्याज्ञाननिमित्तं दुःखभयादिमत्त्वं भवतीति शक्यं कल्पयितुम् हि धनिनो गृहस्थस्य धनाभिमानिनो धनापहारनिमित्तं दुःखं दृष्टमिति, तस्यैव प्रव्रजितस्य धनाभिमानरहितस्य तदेव धनापहारनिमित्तं दुःखं भवति कुण्डलिनः कुण्डलित्वाभिमाननिमित्तं सुखं दृष्टमिति तस्यैव कुण्डलवियुक्तस्य कुण्डलित्वाभिमानरहितस्य तदेव कुण्डलित्वाभिमाननिमित्तं सुखं भवतितदुक्तं श्रुत्याअशरीरं वाव सन्तं प्रियाप्रिये स्पृशतः’ (छा. उ. ८ । १२ । १) इतिशरीरे पतितेऽशरीरत्वं स्यात् , जीवत इति चेत् , ; सशरीरत्वस्य मिथ्याज्ञाननिमित्तत्वात् ह्यात्मनः शरीरात्माभिमानलक्षणं मिथ्याज्ञानं मुक्त्वा अन्यतः सशरीरत्वं शक्यं कल्पयितुम्नित्यशरीरत्वमकर्मनिमित्तत्वादित्यवोचामतत्कृतधर्माधर्मनिमित्तं सशरीरत्वमिति चेत् , शरीरसम्बन्धस्यासिद्धत्वात् धर्माधर्मयोरात्मकृतत्वासिद्धेः, शरीरसम्बन्धस्य धर्माधर्मयोस्तत्कृतत्वस्य चेतरेतराश्रयत्वप्रसङ्गात्अन्धपरम्परैषा अनादित्वकल्पनाक्रियासमवायाभावाच्चात्मनः कर्तृत्वानुपपत्तेःसन्निधानमात्रेण राजप्रभृतीनां दृष्टं कर्तृत्वमिति चेत् , धनदानाद्युपार्जितभृत्यसम्बन्धित्वात्तेषां कर्तृत्वोपपत्तेः त्वात्मनो धनदानादिवच्छरीरादिभिः स्वस्वामिभावसम्बन्धनिमित्तं किञ्चिच्छक्यं कल्पयितुम्मिथ्याभिमानस्तु प्रत्यक्षः सम्बन्धहेतुःएतेन यजमानत्वमात्मनो व्याख्यातम्अत्राहुःदेहादिव्यतिरिक्तस्यात्मनः आत्मीये देहादावभिमानो गौणः, मिथ्येति चेत् , प्रसिद्धवस्तुभेदस्य गौणत्वमुख्यत्वप्रसिद्धेःयस्य हि प्रसिद्धो वस्तुभेदःयथा केसरादिमानाकृतिविशेषोऽन्वयव्यतिरेकाभ्यां सिंहशब्दप्रत्ययभाङ्मुख्योऽन्यः प्रसिद्धः, ततश्चान्यः पुरुषः प्रायिकैः क्रौर्यशौर्यादिभिः सिंहगुणैः सम्पन्नः सिद्धः, तस्य पुरुषे सिंहशब्दप्रत्ययौ गौणौ भवतःनाप्रसिद्धवस्तुभेदस्यतस्य त्वन्यत्रान्यशब्दप्रत्ययौ भ्रान्तिनिमित्तावेव भवतः, गौणौयथा मन्दान्धकारे स्थाणुरयमित्यगृह्यमाणविशेषे पुरुषशब्दप्रत्ययौ स्थाणुविषयौ, यथा वा शुक्तिकायामकस्माद्रजतमिदमिति निश्चितौ शब्दप्रत्ययौ, तद्वद्देहादिसङ्घाते अहम् इति निरुपचारेण शब्दप्रत्ययावात्मानात्माविवेकेनोत्पद्यमानौ कथं गौणौ शक्यौ वदितुम्आत्मानात्मविवेकिनामपि पण्डितानामजाविपालानामिवाविविक्तौ शब्दप्रत्ययौ भवतःतस्माद्देहादिव्यतिरिक्तात्मास्तित्ववादिनां देहादावहंप्रत्ययो मिथ्यैव, गौणःतस्मान्मिथ्याप्रत्ययनिमित्तत्वात्सशरीरत्वस्य, सिद्धं जीवतोऽपि विदुषोऽशरीरत्वम्तथा ब्रह्मविद्विषया श्रुतिःतद्यथाहिनिर्ल्वयनी वल्मीके मृता प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव’ (बृ. उ. ४ । ४ । ७) इति; ‘सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव सवागवागिव समना अमना इव सप्राणोऽप्राण इवइति स्मृतिरपिस्थितप्रज्ञस्य का भाषा’ (भ. गी. २ । ५४) इत्याद्या स्थितप्रज्ञस्य लक्षणान्याचक्षाणा विदुषः सर्वप्रवृत्त्यसम्बन्धं दर्शयतितस्मान्नावगतब्रह्मात्मभावस्य यथापूर्वं संसारित्वम्यस्य तु यथापूर्वं संसारित्वं नासाववगतब्रह्मात्मभाव इत्यनवद्यम्

ननु नञर्थे नियोगः प्रतिषेधेषु, तेन यागाद्यनुष्ठानादिव नञर्थानुष्ठानान्नियोगः साध्यः, किमुच्यते क्रियानिवृत्त्यौदासीन्यं प्रतीयत इति ? वार्तमेतत् । नञर्थो हि नाम क्रिया, नापि साधनम् , अपि तु येन संसृज्यते तस्याभावो तत्सिद्धिहेतुः । एवं प्रतिषेधस्य विधेरन्यत्वं सिध्यति । अन्यथा विधिरेव सर्वं स्यात् । तस्माद् संसृज्यमानाभावमात्रे प्रतिषेधवाक्यं पर्यवस्यति । तत्र विधिगन्धोऽपि विद्यते । तच्च संसृज्यमानं विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नाभ्यनुज्ञानानामभावात्प्रतिपाद्यधर्मः । प्रतिषिध्यमानक्रियाफलं प्रार्थना प्रतिषेधवाक्ये लिङाद्यर्थः । तेन तदभावः प्रतिषेधार्थः, प्रागभावः स्वभावसिद्धः । तस्मात्संस्कारोद्बोधनिमित्तसन्निधावपि तत्प्रतिबन्धे प्रयत्न आस्थेयः । यद्यपि साध्यः ; तथाऽप्यन्वयव्यतिरेकगम्यो शब्दार्थः ; तत्प्रतिपादकपदाभावाच्च, एकवाक्ये संसृष्टपदार्थव्यतिरेकेणान्यत्र वाक्यार्थत्वाभावाच्च । अतो यश्चार्थादर्थो चोदनार्थः । वाक्यन्तु क्रियाशून्यमेवावसितम् । साध्यं किञ्चित्तेन विषयीकृतम् ; औदासीन्यमात्रावसितत्वात्तस्य

अथ पुनर्नञर्थविषयो नियोग एव प्रतिषेधेऽपि वाक्यार्थ इत्यभिनिवेशः, भवतु ; तथाऽपि प्रतिषिध्यमानक्रियानिवृत्त्या सिध्यति, क्रियोपादाने तत्फलप्रार्थनैव हेतुरिति तत्कारणप्रतिबन्धे प्रयत्नास्थानान्नियोगसिद्धिः । तच्चान्वयव्यतिरेकावसेयमिति पूर्वोक्तान्मार्गान्न विशिष्यते । तदेवं वृद्धव्यवहारानुसारेणैव समन्वयानुसरणे सति तद्गम्यं ब्रह्म धर्मवच्चोदनागम्यम् । दर्शितानि वेदान्तवाक्यानि कारणसामान्ये सिद्धे तद्विशेषावगमाय समन्वितानि यतो वा इमानि भूतानि जायन्ते’ (तै. उ. ३-१-१) इत्यादीनि तत्त्वमसीत्यादीनि  ।

यत् पुनरुक्तंप्रतिपन्नब्रह्मात्मभावस्यापि पूर्ववत्संसारित्वदर्शनान्न रज्जुस्वरूपकथनवदर्थवत्त्वमस्य समन्वयस्य, ततो तन्मात्रे तस्य पर्यवसानमिति, अत्रोत्तरम्

नावगतब्रह्मात्मभावस्येत्यादि

अस्यायमर्थः कर्मनिमित्तस्तावच्छरीरसम्बन्धः ; इतरेतराश्रयदोषात्क्रियादिरहितत्वाच्च चैतन्यस्य । अनादित्वेऽप्यन्धपरम्परावदप्रतिष्ठितत्वात् । तन्निमित्तत्वे पुत्रादिशरीरेष्विव गौणत्वप्रसङ्गात् , तथानुभवाभावात् , प्रसिद्धगौणत्वप्रकारासम्भवात् , पुत्रादिशरीरेणेव स्वशरीरेणापि प्रमातृत्वाभावप्रसङ्गात् । पारिशेष्यादविद्यानिमित्तः शरीरसम्बन्धः । तस्यां निवृत्तायां तत्सम्बन्धनिवृत्तौ कथं पूर्ववत्त्वनिमित्तः सुखदुःखानुभवः ? तथाच श्रुतिस्मृतिवादा ब्रह्मविदः सर्वसंसारप्रवृत्त्यभावं दर्शयन्त उदाहृता भाष्ये । तस्मान्न ब्रह्मात्माभिमानिनः पूर्ववत्संसारित्वम् ; तदभिमानविरोधात् । वैषयिकस्तु साक्षादनुभवाभिमानः संसारविषय आरब्धकर्मशेषनिमित्तः तिमिरनिमित्तद्विचन्द्रवत् । मनननिदिध्यासनयोर्न ब्रह्मावगत्युत्तरकालीनता, किन्तु श्रवणवदवगत्युपायतया पूर्वकालतैवेत्युक्तम्