उच्यते । नैव सूत्रकारभाष्यकारयोरभिप्रायो लौकिको वा न्यायः सम्यगवगतो भवता । पश्यतु भवान् देवदत्त ! ‘गामभ्याज’ ‘शुक्लां दण्डेने’ति प्रवर्तकाभ्याजेतिपदातिरेकिणां देवदत्तादिभूतार्थवादिनामप्रवर्तकानामपि प्रवर्तकादेव वाक्याद्भूतवस्तुविषयमपि सामर्थ्यं प्रतीयते ? न वेति ? प्रतीयते चेत् , निष्प्रयोजनत्वमानर्थक्यं, न निरालम्बनत्वम् ।
तदाह भाष्यकारः —
अपि च आम्नायस्य क्रियार्थत्वादित्यादिना भाष्येण ।
प्रयोजनं चानन्तरं पारम्पर्येण वा सुखावाप्तिर्दुःखपरिहारो वा स्यात् । अतस्तदर्थक्रियानुपयोग्यर्थवाचिनां ‘सोऽरोदीदि’त्यादिपदानां भवत्वानर्थक्यं, ब्रह्मात्मत्वावगतिसमन्वितानां तु परमपुरुषार्थफलानां कथं निष्प्रयोजनत्वम् । स्यादेतत् यद्यपि प्रवर्तकादेव वाक्याद्भूतार्थविषयमपि सामर्थ्यं प्रतीयते ; तथाऽपि नाप्रतिपन्नभूतार्थावगतेः सम्भवः । क्रियार्थतयैव संसर्गावगमात् । न हि गोपदात्तदर्थः सास्नादिमत्पिण्डधर्मत्वेनावगतो व्युत्पत्तिकाले पुनः प्रयोगान्तरेष्वप्रतिष्ठितः केसरादिमत्पिण्डधर्मत्वेन वा प्रतीयते ।
विषम उपन्यासः ; गोपदस्याभिधेयसम्बन्धेन नानाविधसामर्थ्यमुपलब्धम् । अतो युक्तैकरूपैव प्रतीतिः । शब्दान्तरार्थान्वये पुनः प्रतिविभक्ति प्रतिपदार्थान्तरं च प्रयोगभेदादन्यथान्यथा च सम्बन्धग्रहणकालएवाऽऽवापोद्वापनिबन्धनः समन्वयो दृश्यते । तेन द्रव्यगुणक्रियाभिधायिभिः पदैः सम्बन्धयोग्यताभिधायिविभक्तिसंयुक्तैः प्रयोगैदम्पर्यवशादनियतः सम्बन्धो व्युत्पत्तिकाले निरूपितः । तथा च ‘वषट्कर्तुः प्रथमभक्षः’ ‘तस्मात्पूषा प्रपिष्टभागः’ इत्येवमादौ क्रियाशून्यानां समन्वयो दृश्यते । यस्तु कर्तव्य इति क्रियासम्बन्धः स समन्वयनिमित्तो न तन्निमित्तः समन्वयः । यत्तु तद्भूतानां क्रियार्थेन समाम्नाय इति सूत्रयामास जैमिनिः, तदपि सिद्धेषु रूपादिष्वर्थेषु वर्तमानानां सामानाधिकरण्याद्यर्थत्वेन समाम्नायः समुच्चारणमिति यतो दर्शितः समन्वयो विशेषणविशेष्यत्वेनापि क्रियार्थेनेति तु धर्मजिज्ञासोपक्रमात्प्रकृतोपयोगितया सूचितम् । तथा च भाष्यकारोऽपि ‘दृष्टो हि तस्यार्थः कर्मावबोधनमि’त्यर्थसद्भावमात्रे कथनीये कर्मावबोधनमिति प्रकृतोपयोगित्वेनैवोक्तवान् ।
तदेतदाह भाष्यकारः —
यदपि शास्त्रतात्पर्यविदामनुक्रमणमित्यादिभाष्येण ।
अत एव पूर्वेण तन्त्रेणागतार्थत्वाच्छारीरकारम्भः । तत्र हि वेदस्य विवक्षितार्थत्वं स्वतःप्रामाण्यं स्वरूपे च विज्ञानोत्पत्तौ शब्दस्य सामर्थ्यमित्येतत्सर्वमवगतम् । क्रियार्थेन समाम्नाय इति तु धर्मजिज्ञासाप्रतिज्ञानुसारेण सूत्रितम् । इह पुनः ‘तत्तु समन्वयादि’ति विशेषणविशेष्यात्कमपि गौणमपि सामानाधिकरण्यं विहायैकस्मिन्निरंशे ‘तत्त्वमसी’ति समन्वयो मुख्यः प्रदर्शितः । तथा च भगवान् पाणिनिरव्यतिरिक्ते प्रातिपदिकार्थमात्रे प्रथमां स्मरति, नाऽस्तिक्रियाकर्तर्येवातिरिक्तेऽर्थे । तेन च कात्यायनस्य ‘अस्तिर्भवन्तीपरः’ इति मतं नानुमन्यते । दृश्यते च ‘फलिता अमी द्रुमाः’ ‘राज्ञोऽयं पुरुषः’ इत्यस्तिक्रियाशून्यः समन्वयः । नात्रापि ये फलिताद्रुमास्ते सन्ति, यो राज्ञः पुरुषः सोऽस्तीति विवक्षितम् अपित्वेते द्रुमाः फलिताः, अयं पुरुषो राज्ञ इति सम्बन्धमात्रावसितं वाक्यम् । एवं सामान्यतः सिद्धस्य जगत्कारणस्य सर्वज्ञत्वादिस्वभावत्वे त्वम्पदार्थस्य च ब्रह्मात्मतायां समन्वयो वेदान्तवाक्यानां सिद्धः, न तत्रास्तिक्रियाया वस्तुस्वरूपान्तर्वर्तिन्या अप्यनुप्रवेशो दूरत एव बाह्यायाः ॥
किञ्च ‘ब्राह्मणो न हन्तव्यः’ इति प्रतिषेधवाक्यसमन्वये न क्रिया क्रियार्थो वाऽवगम्यते, किन्तु क्रियानिवृत्तिरेव नियमेन प्रतीयते । व्रतशब्दसमन्वयात्तु प्रजापतिव्रतादिषु ‘नेक्षेतोद्यन्तमादित्यमि’त्यादिष्वनीक्षणं मानसी सङ्कल्पक्रिया प्रतीयते अनीक्षणं कुर्यात् , नेक्षेऽहमिति सङ्कल्पयेदिति, न नञः समन्वयमात्रात् , तस्य समन्वीयमानार्थाभावकरत्वात् ।
न च स्वभावप्राप्तहन्त्यर्थानुरागेण
इत्यादिभाष्यस्यायमर्थः — स्वभावत एव रागादिनिमित्ताच्छास्त्रमन्तरेणैव हननक्रिया प्राप्ता यदि नञाऽनुरज्यते, विशेष्यते, तदा भवत्यहननमिति । ततश्चाहननं कुर्यादिति वाक्यार्थः स्यात् , न ‘हननं न कुर्यादि’ति हननक्रियानिवृत्त्यौदासीन्यम् । अतो न हन्यामिति मानसी सङ्कल्पक्रियाऽपूर्वाऽभिहिता स्यात् । न चैतद्युक्तम् ; नञः सम्बन्ध्युपमर्दरूपत्वात् । अनीक्षणे तु व्रतशब्दबलात्तथा समन्वयः, न नञः सामर्थ्यादित्युक्तम् ॥