यदपि केचिदाहुरित्यादि ॥
अस्यायमर्थः — यदि स्वरूपमात्रनिष्ठोऽपि वेदभागोऽस्ति, तत इदं पूर्वोक्तं प्रतिष्ठां लभते ; अन्यथा क्रियानुप्रवेशातिरिक्तमवेदार्थ एव स्यादिति,
अस्योत्तरं —
तन्न ; औपनिषदस्य पुरुषस्यानन्यशेषत्वादिति
वस्तुसङ्ग्रहवाक्यम् ।
अस्यैव प्रपञ्चः
योऽसावुपनिषत्स्वेवाधिगत इत्यादिः ॥
अस्यायमर्थः — योऽयमहंप्रत्ययविषयात् क्रियासम्बन्ध्यात्मनोऽतिरिक्तः सम एकः सर्वभूतेष्वहङ्कर्तुरपि साक्षिभूतः, न स केनचित्प्रमाणेन सिद्धः, येन क्रियाशेषतां नीयेत । न हि प्रमाणान्तरासिद्धः क्रियासम्बन्धितयोपदेष्टुं शक्यः । न च स न प्रतीयत इति युक्तं वक्तुं, तत्प्रतिपादकोपनिषत्पदसमन्वयस्य दर्शितत्वात् । अत एवौपनिषदत्वविशेषणम् ; अनन्यविषयत्वात् । तच्च वेदान्तानां तत्परत्वेऽवकल्पते । नैष प्रतीयमानोऽपि शुक्तिरजतवन्मिथ्येति शक्यं वक्तुम् ; बाधाभावात् ॥ इतश्च न शक्यते मिथ्येति विदितुं तस्मिन्नौपनिषदे पुरुषे ‘स एषः’ ‘नेति नेत्या’त्मशब्दप्रयोगात् । आत्मनश्चानिराकार्यत्वात् , य एव निराकर्ता तस्यैवात्मत्वप्रसङ्गात् ॥
न च तस्य कदाचिदभावः सम्भवति ; अभावहेतूनामविषयत्वात् । न च निर्हेतुको विनाशः चितेरेकरूपावभासेन क्षणभङ्गनिराकरणात् । अतोऽवच्छेदत्रयशून्ये तस्मिन् स्वयम्प्रकाशमाने सर्वस्य पुरुषावधिर्विनाशः । सा काष्ठा सा परा गतिः ॥ तदेवमसंसार्यात्मनि प्रमाणान्तरागोचरे वेदान्तवाक्यसमन्वयात् प्रतीयमाने कथं तत्परो वेदभागो न भवेत् ? कथं वा प्रतीयमानो निराक्रियेत ?
ननु ‘आम्नायस्य क्रियार्थत्वादानर्थक्यमतदर्थानामि’त्यक्रियार्थानां पदानामर्थशून्यत्वं शास्त्रतात्पर्यविद आहुः । तस्मात्प्रवृत्तिनिवृत्तिव्यतिरिक्तार्थवादिनां निरालम्बनत्वाद् ततो वस्त्ववगमः सामान्यतोदृष्टनिबन्धनो भ्रमः । तेन प्रवृत्तिनिवृत्त्यनुपयोगि वस्तु न शब्दादवगम्यते, अत एव तन्मिथ्येति शक्यते वक्तुम् ; प्रमाणान्तरस्यापि तद्विषयस्यासम्भवात् । कथं पुनः प्रवृत्तिनिवृत्त्यनुपयोगि वस्तु न शब्दादवगम्यते ? शब्दस्य तत्र सामर्थ्याग्रहणात् । न चागृहीतसामर्थ्य एव शब्दश्चक्षुरादिवद्विज्ञानं जनयति । सामर्थ्यग्रहणं च ज्ञानकार्योन्नेयम् । ज्ञानं च विशिष्टार्थविषयं तद्विषयप्रवृत्त्याऽवगम्यते । तदभावे कुतः सामर्थ्यकल्पना स्यात् ? अक्लृप्तसामर्थ्यश्च शब्दोऽक्रियाशेषेऽर्थे कथं विज्ञानं जनयेत् ?